भगवद्गीता · अध्याय 3
विश्वनाथः -
गौरांशुकः सत्-कुमुद-प्रमोदी
स्वाभिख्यया गोस्-तमसो निहन्ता ।
श्री-कृष्ण-चैतन्य-सुध-निधिर् मे
मनो ऽधितिष्ठन् स्वरतिं करोतु ॥
प्राचीन-वाचः सुविचार्य सो ऽहम्
अज्ञो ऽपि गीतामृत-लेश-लिप्सुः ।
यतेः प्रभोर् एव मते तद् अत्र
सन्तः क्षमध्वं शरणागतस्य ॥
इह खलु सकल-शास्त्राभिमत-श्रीमच्-चरण-सरोज-भजनः स्वयं भगवान् नराकृति-पर-ब्रह्म-श्री-वसुदेव-सूनुः साक्षाच्-छ्री-गोपाल-पुर्याम् अवतीर्यापार-परमातर्क्य-प्रापञ्चिक-सकल-लोचन-गोचरीकृतो भवाब्धि-निमज्जमानान् जगज्-जनान् उधृत्य स्व-सौन्दर्य-माधुर्यास्वादनया स्वीय-प्रेम-महाम्बुधौ निमज्जयामास ।
शिष्ट-रक्षा दुष्ट-निग्रह-व्रत-निष्ठा-महिष्ठ-प्रतिष्ठो ऽपि भुवो भार-दुःखापहार-मिषेण दुष्टानाम् अपि स्व-द्वेष्टॄणाम् अपि महा-संसार-ग्रासीभूतानाम् अपि मुक्ति-दान-लक्षणं परम-रक्षणम् एव कृत्वा स्वान्तर्धानोत्तर-काल-जनिष्यमाणान् अनाद्य्-अविद्या-बन्ध-निबद्न्हन-शोक-मोहाद्याकुलान् अपि जीवान् उद्धर्तुं शास्त्र-कृन्-मुनि-गण-गीयमान-यशश् च धर्तुं स्व-प्रिय-सखं तादृश-स्वेच्छा-वशाद् एव रण-मूर्धन्य् उद्भूत-शोक-मोहं श्रीमद्-अर्जुनं लक्ष्यीकृत्य काण्ड-त्रितयात्मक-सर्व-वेद-तात्पर्य-पर्यवसितार्थ-रत्नालङ्कृतं श्री-गीता-शास्त्रम् अष्टादशाध्यायम्
अन्तर्भूताष्टादश-विद्यं साक्षाद् विद्यमानीकृतम् इव परम-पुरुषार्थम् आविर्भावयाम्बभूव ।
तत्राध्यायानां षट्केनन् प्रथमेन निष्काम-कर्म-योगः । द्वितीयेन भक्ति-योगः । तृतीयेन ज्ञान-योगो दर्शितः । तत्रापि भक्ति-योगस्यातिरहस्यत्वाद् उभय-सङ्जीवकत्वेनाभ्यर्हितत्वात् सर्व-दुर्लभत्वाच् च मध्यवर्तीकृतः । कर्म-ज्ञानयोर् भक्ति-राहित्येन वैयर्थ्यात् ते द्वे भक्ति-मिश्रे एव सम्मतीकृते ।
भक्तिस् तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परम-प्रबला । ते द्वे कर्म-ज्ञाने विनैव विशुद्ध-प्रभावती अकिञ्चना अनन्यादि-शब्द-वाच्या । द्वितीया तु कर्म-ज्ञान-मिश्रेत्य् अखिलम् अग्रे विवृतीभविष्यति ।
अथार्जुनस्य शोक-मोहौ कथम्भूताव् इत्य् अपेक्षायां महाभारत-वक्ता श्री-वैशम्पायनो जनमेजयं प्रति तत्र भीष्म-पर्वणि कथाम् अवतारयति धृतराष्ट्र उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्याः पाण्डवाश् च युधिष्ठिरादयः किं कृतवन्तस् तद् ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्य् एवातो युद्धम् एव कर्तुम् उद्यतास् ते तद् अपि किम् अकुर्वतेति केनाभिप्रायेण पृच्छसीत्य् अत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देव-यजनम् इति श्रुतेस् तत्-क्षेत्रस्य धर्म-प्रवर्तकत्वं प्रसिद्धम् ।
अतस् तत्-संसर्ग-महिम्ना यद्य् अधर्मिकाणाम् अपि दुर्योधनादीनां क्रोध-निवृत्त्या धर्मे मतिः स्यात् । पाण्डवास् तु स्वभावत एव धार्मिकास् ततो बन्धु-हिंसनम् अनुचितम् इत्य् उभयेषाम् अपि विवेके उद्भूते सन्धिर् अपि सम्भाव्यते । ततश् च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुम् इष्टो भावो बाह्यः । आभ्यन्तरस् तु सन्धौ सति पूर्ववत् सकण्टकम् एव राज्यं मद्-आत्मजानाम् इति मे दुर्वार एव विषादः । तस्माद् अस्माकीनो भीष्मस् त्व् अर्जुनेन दुर्जय एवेत्य् अतो युद्धम् एव श्रेयस् तद् एव भूयाद् इति तु तन्-मनोरथोपयोगी दुर्लक्ष्यः ।
अत्र धर्म-क्षेत्रे इति क्षेत्र-पदेन धर्मस्य धर्मावतारस्य सपरिकर-युधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्-पालकस्य श्री-कृष्णस्य कृषि-बल-स्थानीयत्वम् । कृष्ण-कृत-नाना-विध-साहाय्यस्य जल-सेचन-सेतु-बन्धनादि-स्थानीयत्वम् । श्री-कृष्ण-संहार्य-दुर्योधनादेर् धान्य-द्वेषि-धान्याकार-तृण-विशेष-स्थानीयत्वं च बोधितं सरस्वत्या
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0