भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 32

32.1

मधुसूदनः : यद्यपि पूर्वम् उपेयत्वेन ज्ञान-योगस् तद्-उपायत्वेन च कर्म-योग इति द्वौ योगौ कथितौ तथापि एकं साङ्ख्यं च योगं च पश्यति स पश्यति [गीता 5.6] इत्य् अनया दिशा साध्य-साधनयोः फलैक्याद् ऐक्यम् उपचर्य साधन-भूतं कर्म-योगं साध्य-भूतं च ज्ञान-योगम् अनेक-विध-गुण-विधानाय स्तौति वंश-कथनेन भगवान् ।
इमम् अध्याय-द्वयेनोक्तं योगं ज्ञान-निष्ठा-लक्षणं कर्म-निष्ठोपाय-लभ्यं विवस्वते सर्व-क्षत्रिय-वंश-बीज-भूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्व-सन्देहोच्छेदादि-रूपेणोक्तवान् अहं भगवान् वासुदेवः सर्व-जगत्-परिपालकः सर्गादि-काले राज्ञां बलाधानेन तद्-अधीनं सर्वं जगत् पालयितुम् । कथम् अनेन बलाधानम् इति विशेषेणेन दर्शयति -- अव्ययम् अव्यय-वेद-मूलत्वाद् अव्यय-फलत्वाच् च न व्येति स्व-फलाद् इत्य् अव्ययम् अव्यभिचारि-फलम् । तथा चैतादृशेन बलाधानं शक्यम् इति भावः ।
स च मम शिष्यो विवस्वान् मनवे वैवस्वताय स्व-पुत्राय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायादि-राजायाब्रवीत् । यद्यपि प्रति मन्वन्तरं स्वायम्भुवादि-साधारणो ऽयं भागवद्-उप्देशस् तथापि साम्प्रतिक-वैवस्वत-मन्वन्तराभि-प्रायेणादित्यम् आरभ्य सम्प्रदायो गणितः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc