भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 31

31.1

श्रीधरः :
आविर्भाव-तिरोभावाव् आविष्कर्तुं स्वयं हरिः ।
तत्त्वं पद-विवेकार्थं कर्म-योगं प्रशंसति ॥
एवं तावद् अध्याय-द्वयेन कर्म-योगोपायक-ज्ञान-योगो मोक्ष-साधनत्वेनोक्तः । तद् एवं ब्रह्मार्पणादि-गुण-विधानेन तत्त्वं पदार्थ-विवेकादिना च प्रपञ्चिष्यन् प्रथमं तावत् परस्पराप्राप्तत्वेन स्तुवन् भगवान् उवाच इमम् इति त्रिभिः । अव्यय-फलत्वाद् अव्ययम् । इमं योगं पुराहम् विवस्वत आदित्याय कथितवान् । स च स्व-पुत्राय मनवे श्राद्ध-देवाय । स च मनुः स्व-पुत्रायेक्ष्वाकवे ऽब्रवीत्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc