भगवद्गीता · अध्याय 2
श्रीधरः -
शेषाशेष-मुख-व्याख्या-चातुर्यं त्व् एक-वक्त्रतः ।
दधानम् अद्भुतं वन्दे परमानन्द-माधवम् ॥
श्री-माधवं प्रणम्यो माधवं विश्वेशम् आदरात् ।
तद्-भक्ति-यन्त्रितः कुर्वे गीता-व्याख्यां सुबोधिनीम् ॥
भाष्य-कार-मतं सम्यक् तद्-व्याख्यातृ-गिरस् तथा ।
यथामति समालोच्य गीता-व्याख्यां समारभे ॥
गीता व्याख्यायते यस्याः पाठ-मात्र-प्रयत्नतः ।
सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥
इह खलु सकल-लोक-हितावतारः परम-कारुणिको भगवान् देवकी-नन्दनस् तत्त्वाज्ञान-विजृम्भित-शोक-मोह-भ्रंशित-विवेकतया निज-धर्म-परित्याग-पूर्वक-पर-धर्माभिसन्धिनम् अर्जुनं धर्म-ज्ञान-रहस्योपदेश-प्लवेन तस्माच् छोक-मोह-सागराद् उद्दधार । तम् एव भगवद्-उपदिष्टम् अर्थं कृष्ण-द्वैपायनः सप्तभिः श्लोक-शतैर् उपनिबबन्ध । तत्र च प्रायशः श्री-कृष्ण-मुखाद् विनिःसृतान् एव श्लोकान् अलिखत् । कांश्चित् तत्-सङ्गतये स्वयं च व्यरचयत् । यथोक्तं गीता-माहात्म्ये -
गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।
या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति ।
तत्र तावद् धर्मक्षेत्रे इत्य् आदिना । विषीदन्न् इदम् अब्रवीद् इत्य् अन्तेन ग्रन्थेन श्री-कृष्णार्जुन-संवाद-प्रस्तावाय कथा निरूप्यते । ततः परम् आसमाप्तेस् तयोर् धर्म-ज्ञानार्थे संवादः । तत्र धर्म-क्षेत्र इत्य् आदिना श्लोकेन धृतराष्ट्रेन हस्तिनापुर-स्थितं स्व-सारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्र-वृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितो ऽपि व्यास-प्रसाद-लब्ध-दिव्य-चक्षुः कुरुक्षेत्र-वृत्तान्तं साक्षात् पश्यन्न् इव धृतराष्ट्राय निवेदयामास । दृष्ट्वा तु पाण्डवानीकम् इत्य् आदिना ।
धृतराष्ट्र उवाचेति । धर्मक्षेत्र इति । भोः सञ्जय । धर्मक्षेते धर्म-भूमौ कुरुक्षेत्रे । धर्म-क्षेत्र इति कुरुक्षेत्र-विशेषणम् । एषाम् आदि-पुरुषः कश्चित् कुरु-नामा बभूव । तस्य कुरोर् धर्म-स्थाने मामका मत्-पुत्राः पाण्डु-पुत्राश् च युयुत्सवो योद्धुम् इच्छन्तः समवेताः मिलिताः सन्तः किम् अकुर्वत किं कृतवन्तः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0