भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 27

27.2

मधुसूदनः : ननु नाहं कंचिद् अपि प्रतारयामि किं पुनस् त्वाम् अतिप्रियम् । त्वं तु किं मे प्रतारणा-चिह्नं पश्यसीति चेत् तत्राह व्यामिश्रेणेति । तव वचनं व्यामिश्रं न भवत्य् एव मम त्व् एकाधिकारिकत्व-भिन्नाधिकारिकत्व-सन्देहाद् व्यामिश्रं सङ्कीर्णार्थम् इव ते यद् वाक्यं मां प्रति ज्ञान-कर्म-निष्ठा-द्वय-प्रतिपादकं त्वं मे मम मन्द-बुद्धेर् वाक्य-तात्पर्यापरिज्ञानाद् बुद्धिम् अन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव । परम-कारुणिकत्वात् त्वं न मोहयस्य् एव मम तु स्वाशय-दोषान् मोहो भवतीतीवश-शब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुच्चयानुपपत्तेर् एकार्थत्वाभावेन
च विकल्पानुपपत्तेः प्राग्-उक्तेर् यद्य् अधिकारि-भेदं मन्यसे तदैकं मां प्रति विरुद्धयोर् निष्ठयोर् उपदेशआयोगात् तज् ज्ञानं वा कर्म वैकम् एवाधिकारं मे निश्चित्य वद । येनाधिकार-निश्चय-पुरःसरम् उक्तेन त्वया मया चानुष्ठितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्तुं योग्यः स्याम् ।
एवं ज्ञान-कर्म-निष्ठयोर् एकाधिकारित्वे विकल्प-समुच्चययोर् असम्भवाद् अधिकारि-भेद-ज्ञानायार्जुनस्य प्रश्न इति स्थितम् ।
इहेतरेषां कुमतं समस्तं
श्रुति-स्मृति-न्याय-बलान् निरस्तम् ।
पुनः पुनर् भाष्य-कृतातियत्नाद्
अतो न तत् कर्तुम् अहं प्रवृत्तः ॥
भाष्य-कार-मत-सार-दर्शिना
ग्रन्थ-मात्रम् इह योज्यते मया ।
आशयो भगवतः प्रकाश्यते
केवलं स्व-वचसो विशुद्धये

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc