भगवद्गीता · अध्याय 26
श्रीधरः : ननु धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यत इत्य् आदिना कर्मणो ऽपि श्रेष्ठत्व्म् उक्तम् एव इत्य् आशङ्क्याह व्यामिश्रेणेति । क्वचित् कर्म-प्रशंसा क्वचित् ज्ञान-प्रशंसा इत्य् एवं व्यामिश्रं सन्देहो ऽपादकम् इव यद् वाक्यं तेन मे मम बुद्धिं मतिम् उभयत्र दोलायितां कुर्वन् मोहयसीव । अत उभयोर् मध्ये यद् भद्रं तद् एकं निश्चित्य वदेति । यद् वा, इदम् एव श्रेयः-साधनम् इति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्स्यामि तद् एवैकं निश्चित्य वदेत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0