भगवद्गीता · अध्याय 28
विश्वनाथः : भो वयस्य अर्जुन ! सत्यं गुणातीता भक्तिः सर्वोत्कृष्टैव । किन्तु सा यादृच्छिक-मद्-ऐकान्तैक-महा-भक्त-कृपैक-लभ्यत्वात् पुरुसोद्यम-साध्या न भवति । अतएव निस्त्रैगुण्यो भव गुणातीतया मद्-भक्त्या त्वं निस्त्रैगुण्यो भूया इत्य् आशीर्वाद एव दत्तः । स च यदा फलिष्यति तदा तादृश-यादृच्छिकैकान्तिक-भक्त-कृपया प्राप्ताम् अपि लप्स्यसे । साम्प्रतं तु कर्मण्य् एवाधिकारस् ते इति मयोक्तं चेत्, सत्यम् । तर्हि कर्मैव निश्चित्य कथं न ब्रूषे । किम् इति सन्देह-सिन्धौ मां क्षिपसीत्य् आह व्यामिश्रेणेति । विशेषतः आ सम्यक्तया मिश्रणं नाना-विधार्थ-मिलनं यत्र तेन वाक्येन मे बुद्धिं मोहयसि । तथा हि कर्मण्य् एवाधिकारस्
ते [गीता 2.47], सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते [गीता 2.48],
बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ [गीता 2.50]
इति योग-शब्द-वाच्यं ज्ञानम् अपि ब्रवीषि । यदा ते मोह-कलिलं [गीता 2.52] इत्य् अनेन ज्ञानं केवलम् अपि ब्रवीषि । किं चात्र इव-शब्देन त्वद्-वाक्यस्य वस्तुतो नास्ति नानार्थ-मिश्रितत्वम् । नापि कृपालोस् तव मन्-मोहनेच्छा । नापि मम तत्-तद्-अर्थानभिज्ञत्वम् इति भावः । अयं गूढो ऽभिप्रायः राजसात् कर्मणः सकाशात् सात्त्विकं कर्म श्रेष्ठं, तच् च सात्त्विकम् एव । निर्गुण-भक्तिश् च तस्माद्न् अतिश्रेष्ठैव । तत्र सा यदि मयि न सम्भवेद् इति ब्रूषे, तदा सात्त्विकं ज्ञानम् एवैकं माम् उपदिश । तत एव दुःख-मयात् संसार-बन्धनान् मुक्तो भवेयम् इति
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0