भगवद्गीता · अध्याय 25
बलदेवः :
तृतीये कर्म-निष्कामं विस्तरेणोपवर्णितम् ।
कामादेर् विजयोपायो दुर्जयस्यापि दर्शितः ॥
पूर्वत्र कृपालुः पार्थसारथिर् अज्ञान-कर्दम-निमग्नं जगत् स्वात्म-ज्ञानोपासनोपदेशेन समुद्दिधीर्षुस् तद्-अङ्ग-भूतां जीवात्म-याथात्म्य-बुद्धिम् उपदिश्य तद्-उपायतया निष्कामकम् अबुद्धिम् उपदिष्टवान् । अयम् एवार्थो विनिश्चयाय चतुर्भिर् अध्यायैर् विधान्तरैर् वर्ण्यते । तत्र कर्म-बुद्धि-निष्पाद्यत्वाज् जीवात्म-बुद्धेः श्रेष्ठं स्थितम् । तत्रार्जुनः पृच्छति ज्यायसीति । कर्मणा निष्कामाद् अपि चेत् तव तत्-साध्यत्वात् जीवात्म-बुद्धिर् ज्यायसी श्रेष्ठा मता । तर्हि तत्-सिद्धये मां घोरे हिंसाद्य्-अनेकायासे कर्मणि किं नियोजयसि तस्माद् युद्धस्वेत्य् आदिना कथं प्रेरयसि । आत्मानुभव-हेतु-भूता खलु सा बुद्धिर् निखिलेन्द्रिय-व्यापार-विरति-साध्या
तद्-अर्थं तत्-स्वजातीयाः शमादय एव युज्येरन् न तु सर्वेन्द्रिय-व्यापार-रूपाणि तद्-विजातीयानि कर्माणीति भावः । हे जनार्दन श्रेयो ऽर्थि-जन-याचनीय, हे केशव विधि-रुद्र-वश-कारिन् ।
क इति ब्रह्मणो नाम ईशो ऽहं सर्व-देहिनाम् ।
आवां तवाङ्ग-सम्भूतौ तस्मात् केशव-नाम-भाग् ॥
इति हरि-वंशे कृष्णं प्रति रुद्रोक्तिः । दुर्लङ्घ्याज्ञस् त्वं श्रेयो ऽर्थिना मयाभ्यर्थितो मम श्रेयो निश्चित्य ब्रूहीति भावः
भ्ग् 3.2
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम्
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0