भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 24

24.1

विश्वनाथः :
निष्कामम् अर्पितं कर्म तृतीये तु प्रपञ्च्यते ।
काम-क्रोध-जिगीषायां विवेको ऽपि प्रदर्श्यते ॥
पूर्व-वाक्येषु ज्ञान-योगान् निष्काम-कर्म-योगाच् च निस्त्रैगुण्य-प्रापकस्य गुणातीत-भक्ति-योगस्य उत्कर्षम् आकलय्य तत्रैव स्वौत्सुक्यम् अभिव्यञ्जन् स्व-धर्मे संग्रामे प्रवर्तकं भगवन्तं सख्य-भावेनोपालभते । ज्यायसी श्रेष्ठा बुद्धिर् व्यवसायात्मिका गुणातीता भक्तिर् इत्य् अर्थः । घोरे युद्ध-रूपे कर्मणि किं नियोजयसि प्रवर्तयसि । हे जनार्दन जनान् स्वजनान् स्वाज्ञया पीडयसीत्य् अर्थः । न च तवाज्ञा केनापि अन्यथा कर्तुं शक्यत इत्य् आह । हे केशव को ब्रह्मा ईशो महादेवः । ताव् अपि वयसे वशीकरोषि

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc