भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 23

23.1

मधुसूदनः : एवं तावत् प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हि-आदौ निष्काम-कर्म-निष्ठा । ततो ऽन्तःकरण-शुद्धिः । ततः शम-दमादि-साधन-पुरःसरः सर्व-कर्म-संन्यासः । ततो वेदान्त-वाक्य-विचार-सहिता भगवद्-भक्ति-निष्ठा । ततस् तत्त्व-ज्ञान-निष्ठा तस्याः फलं च त्रिगुणात्मकाविद्या-निवृत्त्या जीवन्-मुक्तिः प्रारब्ध-कर्म-फल-भोग-पर्यन्तं तद्-अन्ते च विदेह-मुक्तिः । जीवन्-मुक्ति-दशायां च परम-पुरुषार्थालम्बनेन पर-वैराग्य-प्राप्तिर् दैव-सम्पद्-आख्या च शुभ-वासना तद्-उपकारिण्य्-आदेया
। आसुर-सम्पदस् तु राजसी तामसी चेति हेयोपादेय-विभागेन कृत्स्न-शास्त्रार्थ-परिसमाप्तिः ।
तत्र योगस्थः कुरु कर्माणि [गीता 2.48] इत्यादिना सूत्रिता सत्त्व-शुद्धि-साधन-भूता निष्काम-कर्म-निष्ठा सामान्य-विशेष-रूपेण तृतीय-चतुर्थाभ्यां प्रपञ्च्यते । ततः शुद्धान्तःकरणस्य शम-दमादि-साधन-सम्पत्ति-पुरःसरा विहाय कामान् यः सर्वान् [गीता 2.71] इत्य् आदिना सूत्रिता सर्व-कर्म-संन्यास-निष्ठा सङ्क्षेप-विस्तर-रूपेण पञ्चम-षष्ठाभ्याम् । एतावता च त्वं-पदार्थो ऽपि निरूपितः । ततो वेदान्त-वाक्य-विचार-सहिता युक्त आसीत मत्-परः [गीता 2.61] इत्य् आदिना सूत्रितानेक-प्रकारा भगवद्-भक्ति-निष्ठाध्याय-षट्केन प्रतिपाद्यते । तावता च तत्-पदार्थो ऽपि निरूपितः । प्रत्य् अध्यायं
चावान्तर-सङ्गतिम् अवान्तर-प्रयोजन-भेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस् तत्त्वं-पदार्थैक्य-ज्ञान-रूपा वेदाविनाशिनं नित्यं [गीता 2.21] इत्य् आदिना सूत्रिता तत्त्व-ज्ञान-निष्ठा त्रयोदशे प्रकृति-पुरुष-विवेक-द्वारा प्रपञ्चिता । ज्ञान-निष्ठायां च फलं त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता 2.45] इत्य् आदिना सूत्रिता त्रैगुण्य-निवृत्तिश् चतुर्दशे सैव जीवन्-मुक्तिर् इति गुणातीत-लक्षण-कथनेन प्रपञ्चिता । तदा गन्तासि निर्वेदं [गीता 2.52] इत्य् आदिना सूत्रिता पर-वैराग्य-निष्ठा संसार-वृक्ष-च्छेद-द्वारेण पञ्च-दशे । दुःखेष्व् अनुद्विग्न-मनाः [गीता 2.56] इत्य् आदिना स्थित-प्रज्ञ-लक्षणेन
सूत्रिता पर-वैराग्योपकारिणी दैवी सम्पद् आदेया याम् इमां पुष्पितां वाचं [गीता 2.42] इत्य् आदिना सूत्रिता तद्-विरोधिन्य् आसुरी सम्पच् च हेया षोडशे । दैव-सम्पदो ऽसाधारणं कारणं च सात्त्विकी श्रद्धा निर्द्वन्द्वो नित्य-सत्त्व-स्थो [गीता 2.45] इत्य् आदिना सूत्रिता तद्-विरोधि-परिहारेण सप्तदशे । एवं सफला ज्ञान-निष्ठाध्याय-पञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्त-सर्वोपसंहार इति कृत्स्न-गीतार्थ-सङ्गतिः ।
तत्र पूर्वाध्याये साङ्ख्य-बुद्धिम् आश्रित्य ज्ञान-निष्ठा भगवतोक्ता एषा ते ऽभिहिता साङ्ख्ये बुद्धिः [गीता 2.39] इति । तथा योग-बुद्धिम् आश्रित्य कर्म-निष्ठोक्ता योगे त्व् इमां शृणु इत्य् आरभ्य कर्मण्य् एवाधिकारस् ते ... मा ते सङ्गो ऽस्त्व् अकर्मणि [गीता 2.47] इत्य् अन्तेन । न चानयोर् निष्ठयोर् अधिकारि-भेदः स्पष्टम् उपदिष्टो भगवता । न चैकाधिकारिकत्वम् एवोभयोः समुच्चयस्य विवक्षितत्वाद् इति वाच्यम् । दूरेण ह्य् अवरं करम् बुद्धि-योगाद् धनञ्जय [गीता 2.49] इति कर्म-निष्ठाया बुद्धि-निष्ठापेक्षया निकृष्टत्वाभिधानात् । यावान् अर्थ उदपाने [गीता 2.46] इत्य् अत्र च ज्ञान-फले सर्व-कर्म-फलान्तर्भावस्य दर्शितत्वात् । स्थित-प्रज्ञ-लक्षणम्
उक्त्वा च एषा ब्राह्मी स्थितिः पार्थ [गीता 2.72] इति सप्रशंसम् ज्ञान-फलोपसंहारात् । या निशा सर्व-भूतानां [गीता 2.69] इत्य् आदौ ज्ञानिनो द्वैत-दर्शनाभावेन कर्मानुष्ठानासम्भवस्य चोक्तत्वात् । अविद्या-निवृत्ति-लक्षणे मोक्ष-फले ज्ञान-मात्रस्यैव लोकानुसारेण साधनत्व-कल्पनात् । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽनयनाय [श्वेतु 3.8] इति श्रुतेश् च ।
ननु तर्हि तेजस्-तिमिरयोर् इव विरोधिनोर् ज्ञान-कर्मणोः समुच्चयासम्भवाद् भिन्नाधिकारिकत्वम् एवास्तु । सत्यम् । नैवं सम्भवति एकम् अर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञान-निष्ठोपदेष्टुम् उचिता न वा ज्ञानाधिकारिणं प्रति कर्म-निष्ठा । एकम् एव प्रति विकल्पेनोभयोपदेश इति चेत्, न । उत्कृष्ट-निकृष्टयोर् विकल्पानुपपत्तेः । अविद्या-निवृत्त्य्-उपलक्षितात्म-स्वरूपे मोक्षे तारतम्यासम्भवाच् च । तस्माज् ज्ञान-कर्म-निष्ठयोर् भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगाद् एकाधिकारिकत्वे च विरुद्धयोः समुच्चयासम्भवात् कर्मापेक्षया ज्ञान-प्रशस्त्यानुपपत्तेश् च विकल्पाभ्युपगमे चोत्कृष्टम्
अनायास-साध्यं ज्ञानं विहाय निकृष्टम् अनेकायास-बहुलं कर्मानुष्ठातुम् अयोग्यम् इति मत्वा पर्याकुलीभूत-बुद्धिर् अर्जुन उवाच ज्यायसी चेद् इति ।
हे जनार्दन ! सर्वैर् जनैर् अर्द्यते याच्यते स्वाभिलषित-सिद्धय इति त्वं तथाभूतो मयापि श्रेयो ऽनिश्चयार्थं याच्यस इति नैवानुचितम् इति सम्बोधनाभिप्रायः । कर्मणो निष्कामाद् अपि बुद्धिर् आत्म-तत्त्व-विषया ज्यायसी प्रशस्ततरा चेद् यदि ते तव मता तत् तदा किं कर्मणि घोरे हिंसाद्य्-अनेकायास-बहुले माम् अतिभक्तं नियोजयसि कर्मण्य् एवाधिकारस् त इत्य् आदिना विशेषेण प्रेरयसि । हे केशव सर्वेश्वर । सर्वेश्वरस्य सर्वेष्ट-दायिनस् तव मां भक्तं शिष्यस् ते ऽहं शाधि माम् इत्य् आदिना त्वद्-एक-शरणतयोपसन्नं प्रति प्रतारणा नोइचितेत्य् अभिप्रायः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc