भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 22

22.1

श्रीधरः :
साङ्ख्ये योगे च वैषम्यं मत्वा मुग्धाय जिष्णवे ।
तयोर् भेद-निरासाय कर्म-योगे उदीर्यते ॥
एवं तावद् अशोच्यान् अन्वशोचस् त्वम् [गीता 2.11] इत्य् आदिना प्रथमं मोक्ष-साधनत्वेन देहात्म-विवेक-बुद्धिर् उक्ता । तद्-अनन्तरम् एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु [गीता 2.39] इत्य् आदिना कर्म चोक्तम् । न च तयोर् गुण-प्रधान-भावः स्पष्टं दर्शितः । तत्र बुद्धि-युक्तस्य स्थित-प्रज्ञस्य निष्कामत्व-नियतेन्द्रियत्व-निरहङ्कारत्वाद्य्-अभिधानाद् एषा ब्राह्मी स्थितिः पार्थ [गीता 2.72] इति सप्रशंसम् उपसंहाराच् च बुद्धि-कर्मणोर् मध्ये बुद्धेः श्रेष्ठत्वं भगवतो ऽभिप्रेतं मन्वानो ऽर्जुन उवाच ज्यायसी चेद् इति । कर्मणः सकाशात् मोक्षान्तरङ्गत्वेन बुद्धिर् ज्यायसी अधिकतरा श्रेष्ठा
चेत् तव संमता तर्हि किम् अर्थं तस्माद् युध्यस्वेति तस्माद् उत्तिष्टेति च वारं वारं वदन् घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc