भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 145

145.2

श्रीधर : तत्रोत्तरं श्री-भगवान् उवाच - काम्यानाम् इति । काम्यानां पुत्र-कामो यजेत स्वर्ग-कामो यजेतेत्य् एवम् आदि कामोपबन्धेन विहितानां कर्मणां न्यासं परित्यागं सन्न्यासं कवयो विदुः । सम्यक्-फलैःसह सर्व-कर्मणाम् अपि न्यासं सन्न्यासं पण्डिता विदुर् जानन्तीत्य् अर्थः । सर्वेषां काम्यानां नित्य-नैमित्तिकानां च कर्मणां फल-मात्र-त्यागं प्राहुस् त्यागं प्राहुस् त्यागं विचक्षणा निपुणाः । न तु स्वरूपतः कर्म-त्यागम् ।
ननु नित्य-नैमित्तिकानां फलाश्रवणाद् अविद्यमानस्य फलस्य कथं त्यागः स्यात् । नहि बन्ध्यायाः पुत्र-त्यागः सम्भवन्ति ।
उच्यते यद्यपि स्वर्ग-कामः पशुकाम इत्य् आदिवद् अहरहः सन्ध्याम् उपासीत यावज्-जीवम् अग्निहोत्रं जुहोतीत्य् आदिषु फल-विशेषो न श्रूयते तथाप्य् अपुरुषार्थे व्यापारे प्रेक्षावन्तं प्रवर्तयितुम् अशक्नुवन् विधिर् विश्वजिता यजेतेत्य् आदिष्व् इव सामान्यतः किम् अपि फलम् आक्षिपत्य् एव । न चातीव-गुरुम् अतः श्रद्धया स्व-सिद्धिर् एव विधेः प्रयोजनम् इति मन्तव्यम् । पुरुष-प्रवृत्त्य्-अनुपपत्तेर् दुष्परहरत्वात् । श्रूयते च नित्यादिष्व् अपि फलम् - सर्व एते पुण्य-लोका भवतीति । कर्मणा पितृ-लोक इति । धर्मेण पापम् अपनुदन्ति इत्य् एवम् आदिषु । तस्माद् युक्तम् उक्तं सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणा
इति ।
ननु फल-त्यागेन पुनर् पै निष्फलेषु कर्मसु प्रवृत्तिर् एव न स्यात् । तन् न, सर्वेषाम् अपि कर्मणां संयोग-पृथक्त्वेन विविदिषार्थतया विनियोगात् । तथा च श्रुतिः - तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति । ततश् च श्रुति-पदोक्तं सर्वं फलं बन्धकत्वेन त्यक्त्वा विविदिषार्थं सर्व-कर्मानुष्ठानं घटत एव । विविदिषा च नित्यानित्य-वस्तु-विवेकेन निवृत्त-देहाद्य्-अभिमानतया बुद्धेः प्रत्यक्-प्रवणता । तावत् पर्यन्तं च सत्त्व-शुद्ध्य्-अर्थं ज्ञानाविरुद्धं यथोचितम् अवश्यकं कर्म कुर्वतस् तत्-फल-त्याग एव कर्म-त्यागो नाम । न स्वरूपेण
। तथा च श्रुतिः कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतां समाः (ईशो 2) इति । ततः परन्तु सर्व-कर्म-निवृत्तिः स्वत एव भवति । तद् उक्तं नैष्कर्म्य-सिद्धौ -
प्रत्यक्-प्रवणतां बुद्धेः कर्माणि उत्पाद्य शुद्धितः ।
कृतार्थान्यस्तम् आयान्ति प्रावृडस्ते घना इव ॥
उक्तं च भगवता - यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदि । वशिष्ठेन चोक्तम् -
न कर्माणि त्यजेद् योगी
कर्मभिस् त्यज्यते ह्य् असौ ।
कर्मणो मूल-भूतस्य
सङ्कल्पस्यैव नाशतः ॥ इति ।
ज्ञान-निष्ठा-विक्षेपकत्वम् आलक्ष्य त्यजेद् वा । तद् उक्तं श्री-भागवते -
तावत् कर्माणि कुर्वीत
न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा
श्रद्धा यावन् न जायते ॥ (भ्प् 11.20.9)
ज्ञान-निष्ठो विरक्तो वा
मद्-भक्तो वानपेक्षकः ।
सलिङ्गानाश्रमांस् त्यक्त्वा
चरेद् अविधि-गोचरः ॥ (भ्प् 11.18.28) इत्य् आदि ।
अलम् अतिप्रसङ्गेन प्रकृतम् अनुसरामः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc