भगवद्गीता · अध्याय 146
विश्वनाथ : प्रथमं प्राच्यं मतम् आश्रित्य सन्न्यास-त्याग-शब्दयोर् भिन्न-जातीयार्थत्वम् आह काम्यानाम् इति । पुत्र-कामो यजेत स्वर्ग-कामो यजेत इत्य् एवं कामोपबन्धेन विहितानां काम्यानां कर्मणां न्यासं स्वरूपेणैव त्यागं सन्न्यासं विदुर् न तु नित्यानाम् अपि सन्ध्योपास्तादीनाम् इति भावः । सर्वेषां काम्यानां नित्यानाम् अपि कर्मणां फलं कर्मणा पितृलोकः इति । धर्मेण पापम् उपनुदति इत्य् आद्याः श्रुतयः प्रतिपादयन्त्य् एव इत्य् अतस् त्यागे फलाभिसन्धि-रहितं सर्व-कर्म-करणम् । सन्न्यासे तु फलाभिसन्धि-रहितं नित्य-कर्म-करणम् । काम्य-कर्मणां तु स्वरूपेणैव त्याग
इति भेदो ज्ञेयः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0