भगवद्गीता · अध्याय 144
बलदेव :
गीतार्थान् इह सङ्गृह्णन् हरिर् अष्टादशे ऽखिलान् ।
भक्तेस् तत्र प्रपत्तेश् च सो ऽब्रवीद् अतिगोप्यताम् ॥
सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (गीता 5.13) इत्य् आदौ सन्न्यास-शब्देन किम् उक्तम् -- त्यक्त्वा कर्म-फलासङ्गं (गीता 4.20) इत्यादौ त्याग-शब्देन च किम् उक्तं भगवता तत्र सन्दिहानो ऽर्जुनः पृच्छति सन्न्यासस्येति । सन्न्यास-त्याग-शब्दौ शैल-तरु-शब्दाव् इव विजातीयार्थौ किं वा कुरु-पाण्डव-शब्दाव् इव सजातीयार्थौ । यद्य् आद्यस् तर्हि सन्न्यासस्य त्यागस्य च तत्त्वं पृथग्-वेदितुम् इच्छामि । यद्यन्तस् तर्हि तत्रावान्तरोपाधि-मात्रं भेदकं भावि, तच् च वेदितुम् इच्छामि । हे महाबाहो कृष्ण हृषीकेशेति धी-वृत्ति-प्रेरकत्वात् त्वम् एव मत्-सन्देहम् उत्पादयसि । केशि-निसूदनेति त्वं मत्-सन्देहं केशिनम् इव विनाशयेति
भ्ग् 18.2
श्रीभगवान् उवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0