भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 143

143.1

विश्वनाथ :
सन्न्यास-ज्ञान-कर्मादेस् त्रैविध्यं मुक्ति-निर्णयः ।
गुह्य-सारतमा भक्तिर् इत्य् अष्टादश उच्यते ॥
अनन्तराध्याये -
तद् इत्य् अनभिसन्धाय
फलं यज्ञ-तपः-क्रियाः ।
दान-क्रियाश् च विविधाः
क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ (गीता 17.25)
इत्य् अत्र भगवद्-वाक्ये मोक्ष-काङ्क्षि-शब्देन सन्न्यासिन एव उच्यन्ते । अन्ये वा यद्य् अन्य एव ते, तर्हि - सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् इति (गीता 12.11) त्वद्-उक्तानां सर्व-कर्म-फल-त्यागिनां तेषां स त्यागः कः । सन्न्यासिनां च को स सन्न्यास इति विवेकतो जिज्ञासुर् आह सन्न्यासस्येति । पृथग् इति यदि सन्न्यास-त्याग-शब्दौ भिन्नार्थौ तदा सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् वेदितुम् इच्छामि । यदि त्व् एकार्थौ ताव् अपि त्वन्-मते अन्य-मते वा तयोर् ऐक्यार्थम् अर्थाद् एकार्थत्वम् इति पृथग् वेदितुम् इच्छामि । हे हृषीकेशेति मद्-बुद्धेः प्रवर्तकत्वात् त्वम् एव इमं सन्देह-मुखापयसि । केशि-निसूदन इति तं च सन्देहं त्वम् एव केशिनम् इव विदारयसीति
भावः । महाबाहो इति त्वं महा-बाहु-बलान्वितो ऽहं किञ्चिद् बाहुबलान्वित इत्य् एतद् अंशेनैव मया सह सख्यं तव । न तु सार्वज्ञ्यादिभिर् अंशैर् अतस् त्वद्-दत्त-किञ्चित्-सख्य-भावाद् एव प्रश्ने मम निःशङ्कतेति भावः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc