भगवद्गीता · अध्याय 142
श्रीधर :
न्यास-त्याग-विभागेन सर्व-गीतार्थ-सङ्ग्रहम् ।
स्पष्टम् अष्टादशे प्राह परमार्थ-विनिर्णये ॥
अत्र च -
सर्व-कर्माणि मनसा
सन्न्यस्यास्ते सुखं वशी । (गीता 5.13)
सन्न्यास-योग-युक्तात्मा (गीता 9.28)
इत्य् आदिषु कर्म-सन्न्यास उपदिष्टः । तथा -
त्यक्त्वा कर्म-फलासङ्गं
नित्य-तृप्तो निराश्रयः ।
सर्व-कर्म-फल-त्यागं
ततः कुरु यतात्मवान् ॥ (गीता 4.20)
इत्य् आदिषु च फल-मात्र-त्यागेन कर्मानुष्ठानम् उपदिष्टम् । न च परस्पर-विरुद्धं सर्वज्ञः परम-कारुणिको भगवान् उपदिशेत् । अतः कर्म-सन्न्यासस्य तद्-अनुष्ठानस्य चाविरोध-प्रकारं बुभुत्सुर् अर्जुन उवाच सन्न्यासस्येति । भो हृषीकेश सर्वेन्द्रिय-नियामक । हे केशी-निसूदन केशी-नाम्नो महतो हयाकृतेः दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुम् आगच्छतो अत्यन्तं व्यात्ते मुखे वाम-बाहुं प्रवेश्य तत्-क्षणम् एव विवृद्धेन तेनैव बाहुना कर्कटिका-फलवत् तं विदार्य निसूदितवान् । अतएव हे महाबाहो इति सम्बोधनम् । सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् विवेकेन वेदितुम् इच्छामि
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0