भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 137

137.2

श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच त्रिविधेति । अयम् अर्थः शास्त्र-तत्त्व-ज्ञानतः प्रवर्तमानानां परमेश्वर-पूजा-विषया सात्त्विकी एकविधैव भवति श्रद्धा । लोकाचार-मात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति । तत्र हेतुः स्वभावजा । स्वभावः पूर्व-कर्म-संस्कारः । तस्माज् जाता । स्वभावम् अन्यथा कर्तुं समर्थं शास्त्रोत्थं विवेक-ज्ञानम् । तत् तु तेषां नास्ति । अतः केवलं पूर्व-स्वभावेन भवन्ती श्रद्धा त्रिविधा भवति । ताम् इमां त्रिविधां श्रद्धां शृण्व् इति । तद् उक्तं व्यवसायात्मिका बुद्धिर्
एकेह कुरुनन्दन इत्य् आदिना

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc