भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 138

138.2

मधुसूदनः : ये शास्त्र-विधिम् उत्सृज्य श्रद्धया यजन्ते ते श्रद्धा-भेदाद् भिद्यन्ते । तत्र ये सात्त्विक्या श्रद्धयान्वितास् ते देवाः शास्त्रोक्त-साधने ऽधिक्रियन्ते तत्-फलेन चयुज्यन्ते । ये तु राजस्या तामस्या च श्रद्धयान्वितास् ते ऽसुरा न शास्त्रीय-साधने ऽधिक्रियन्ते न वा तत्-फलेन युज्यन्त इति विवेकेनार्जुनस्य सन्देहम् अपनिनीषुः श्रद्धा-भेदं श्री-भगवान् उवाच त्रि-विधेति । यथा श्रद्धयान्विताः शास्त्र-विधिम् उत्सृज्य यजन्ते सा देहिनां स्वभावजा, जन्मान्तर-कृतो धर्माधर्मादि-शुभाशुभ-संस्कार इदानीन्तन-जन्मारम्भकः स्वभावः । स त्रि-विधः सात्त्विको राजसस् तामसश् चेति । तेन जनिता श्रद्धा त्रि-विधा भवति सात्त्विकी राजसी तामसी च । कारणानुरूपत्वात् कार्यस्य । या त्व् आरब्धे जन्मनि शास्त्र-संस्कार-मात्रजा
विदुषां सा कारणैक-रूपत्वाद् एक-रूपा सात्त्विक्य् एव । न राजसी तामसी चेति प्रथम-च-कारार्थः । शास्त्र-निरपेक्षा तु प्राणि-मात्र-साधारणी स्वभाव-जा । सैव स्वभाव-त्रैविध्यात् त्रिविधेत्य् एव-कारार्थः । उक्त-विधा-त्रय-समुच्चयार्थश् चरमश् च-कारः । यतः प्राग्-भवीय-वासनाख्य-स्वभावस्याभिभावकं शास्त्रीयं विवेक-विज्ञानम् अनादृत-शास्त्राणां देहिनां नास्ति अतस् तेषां स्वभाव-वशात् त्रिधा भवन्तीं तां श्रद्धां शृणु । श्रुत्वा च देवासुर-भावं स्वयम् एवावधारयेत्य् अर्थः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc