भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 136

136.1

बलदेवः :
सात्त्विकं राजसं वस्तु तामसं च विवेकतः ।
कृष्णः सप्तदशे ऽवादीत् पार्थ-प्रश्नानुसारतः ॥
वेदम् अधीत्य तद्-विधिना तद्-अर्थानुतिष्ठन्तः शास्त्रीय-श्रद्धा-युक्ता देवाः । वेदम् अवज्ञाय यथेच्छा-चारिणो वेद-बाह्यास् त्व् आसुरा इति पूर्वस्मिन्न् अध्याये त्वयोक्तम् । अथेयं मे जिज्ञासा ये शास्त्रेति । ये जनाः पाठतो ऽर्थतश् च दुर्गमं वेदं विदित्वालस्यादिना तद्-विधिम् उत्सृज्य लोकाचार-जातया श्रद्धयान्विताः सन्तो देवादीन् यजन्ते, तेषां शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निर्णीत-दैवासुर-विलक्षणानां का निष्ठा । सत्त्वं संश्रया तेषां स्थितिर् अथवा रजस् तमः संश्रयेति कोटि-द्वयावबोधायाहो-शब्दो मध्ये निवेशितः

136.2

भ्ग् 17.2
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc