भगवद्गीता · अध्याय 135
मधुसूदनः : त्रिविधाः कर्मानुष्ठातारो भवन्ति । केचिच् छास्त्र-विधिं ज्ञात्वाप्य् अश्रद्धया तम् उत्सृज्य काम-कार-मात्रेण यत् किंचिद् अनुतिष्ठन्ति ते सर्व-पुरुषार्थायोग्यत्वाद् असुराः । केचित् तु शास्त्र-विधिं ज्ञात्वा श्रद्दधानतया तद्-अनुसारेणैव निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति ते सर्व-पुरुषार्थ-योग्यत्वाद् देवा इति पूर्वाध्यायान्ते सिद्धम् । ये तु शास्त्रीयं विधिम् आलस्यादि-वशाद् उपेक्ष्य श्रद्दधानतयैव वृद्ध-व्यवहार-मात्रेण निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति । ते शास्त्रीय-विध्य्-उपेक्षा-लक्षणेनान्सुर-साधर्म्येण श्रद्धा-पूर्वकानुष्ठान-लक्षणेन
च देव-साधर्म्येणान्विताः किम् असुरेष्व् अन्तर्भवन्ति किं वा देवेष्व् इत्य् उभय-धर्म-दर्शनाद् एक-कोटि-निश्चायकादर्शनाच् च सन्दिहानो ऽर्जुन उवाच य इति ।
ये पूर्वाध्याये त निर्णीता न देववच् छास्त्रानुसारिणः किन्तु शास्त्र-विधिं श्रुति-स्मृति-चोदनाम् उत्सृज्यालस्यादि-वशाद् अनादृत्य नासुरवद् अश्रद्दधानाः किं तु वृद्ध-व्यवहारानुसारेण श्रद्धयान्विता यजन्ते देव-पूजादिकं कुर्वन्ति तेषां तु शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निश्चित-देवासुर-विलक्षणानां निष्ठा का कीदृशी तेषां शास्त्र-विध्य्-अनपेक्षा श्रद्धा-पूर्विका च सा यजनादि-क्रिया-व्यवस्थितिः । हे कृष्ण भक्तावकर्षण ! किं सत्त्वं सात्त्विकी । तथा सति सात्त्विकत्वात् ते देवाः । आहो इति पक्षान्तरे । किं रजस् तमो राजसी ताम्सी च । तथा सति राजस-तामसत्वाद् असुरास्
ते सत्त्वम् इत्य् एका कोटिः । रजस् तम इत्य् अपरा कोटिर् इति विभाग-ज्ञापनायाहो-शब्दः ॥17.1॥
विश्वनाथः :
अथ सप्तदशे वस्तु सात्त्विकं राजसं तथा ।
तामसं च विविच्योक्तं पार्थ-प्रश्नोत्तरं यथा ॥
नन्व् आसुर-सर्गम् उक्त्वा तद्-उपसंहारे -
यः शास्त्र-विधिम् उत्सृज्य वर्तते कामचारतः ।
न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥[गीता 16.24]
इति त्वयोक्तम् । तत्राहम् इदं जिज्ञास इत्य् आह य इति । ये शास्त्र-विधिम् उत्सृज्य काम-चारतो वर्तन्ते किन्तु काम-भोग-रहिता एव श्रद्धयान्विताः सन्तो यजन्ते तओप्-यज्ञ-ज्ञान-यज्ञ-जप-यज्ञादिकं कुर्वन्ति । तेषां का निष्ठा स्थितिः किम् आलम्बनम् इत्य् अर्थः । तत् किं सत्त्वम् । आहो स्वित् रजः । अथवा तमस् तद् ब्रूहीत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0