भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 134

134.1

श्रीधरः :
उक्ताधिकार-हेतूनां श्रद्धा मुख्या तु सात्त्विकी ।
इति सप्तदशे गौण-श्रद्धा-भेदस् त्रिधोच्यते ॥
पूर्वाध्यायान्ते यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-चारतः । न स सिद्धिम् अवाप्नोति [गीता 16.24] इत्य् अनेन शास्त्रोक्त-विधिम् उत्सृज्य काम-चारेण वर्तमानस्य ज्ञाने ऽधिकारो नास्तीत्य् उक्तम् । तत्र शास्त्रम् उत्सृज्य काम-चारं विना श्रद्दया वर्तमानानां किम् अधिकारो ऽस्ति नास्ति वेति बुभुत्सया ऽर्जुन उवाच य इति । अत्र च शास्त्र-विधिम् उत्सृज्य यजन्त इत्य् अनेन शास्त्रार्थं बुद्ध्या तम् उल्लङ्घ्य वर्तमानो न गृह्यते । तेषां श्रद्धया यजनानुपत्तेः । आस्तिक्य-बुद्धिर् हि श्रद्धा । न चासौ शास्त्र-विरुद्धे ऽर्थे शास्त्र-ज्ञानवतां सम्भवति । तान् एवाधिकृत्य त्रिविधा भवति श्रद्धेति । यजन्ते सात्त्विका देवान् इत्य् आद्य् उत्तरानुपपत्तेश् च । अतो नात्र शास्त्रोल्लङ्घिनो गृह्यन्ते । अपि तु क्लेश-बुद्ध्य्-आलस्याद् वा शास्त्रार्थ-ज्ञाने प्रयत्नम् अकृत्वा केवलम् आचार-परम्परा-वशेन श्रद्धया
क्वचिद् देवताराधनादौ प्रवर्तमाना गृह्यन्ते । अतो ऽयम् अर्थः ये शास्त्र-विधिम् उत्सृज्य दुःख-बुद्ध्यालस्य-द्वारा अनादृत्य केवलम् आचार-प्रामाण्येन श्रद्धया ऽन्विताः सन्तो यजन्ते तेषां का निष्ठा । का स्थितिः । क आश्रयः । ताम् एव विशेषेण पृच्छति किं सत्त्वम् । आहो किं वा रजः । अथवा तम इति । तेषां तादृशी देव-पूजादि-प्रवृत्तिः किं सत्त्व-संश्रिता । रजः-संश्रिता वा । तमः-संश्रिता वेत्य् अर्थः । श्रद्धायाः सत्त्व-संश्रिता तर्हि तेषाम् अपि सात्त्विकत्वाद् यथोक्तात्म-ज्ञाने ऽधिकारः स्यात् । अन्यथा नेति प्रश्न-तात्पर्यार्थः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc