भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 131

131.1

श्रीधरः :
आसुरीं सम्पदं त्यक्त्वा दैवीम् एवाश्रिता नराः ।
मुच्यन्त इति निर्णेतुं तद्-विवेको ऽथ षोडशे ॥
पूर्वाध्यायास् तु एतद्-बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारतेत्य् उक्तम् । तत्र क एतत् तत्त्वं बुध्यते । को वा न बुध्यते । इत्य् अपेक्षायां तत्त्व-ज्ञाने ऽधिकारिणो ऽनधिकारिणश् च विवेकार्थं षोडशाध्यायस्यारम्भः । निरूपिते हि कार्यार्थे ऽधिकारि-जिज्ञासा भवति । तद् उक्तं भट्टैः --
भारो यो येन वोढव्यः स प्राग् आन्दोलिता यदा ।
तदा कण्डस्य वोढेति शक्यं कर्तुं निरूपणम् ॥ इति ।
तत्राधिकारि-विशेषण-भूतां दैवीं सम्पदम् आह अभरम् इति त्रिभिः । अभयं भयाभावः । सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता । ज्ञान-योग आत्म-ज्ञानोपाये व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यस्य अन्नादेर् यथोचितं संविभागः । दमो बाह्येन्द्रिय-संयमः । यज्ञो यथाधिकारं दर्श-पौर्णमासादिः । स्वाध्यायो ब्रह्म-यज्ञादिः । जप-यज्ञो वा । तप उत्तराध्याये वक्ष्यमाणं शारीरादि । आर्जवम् अवक्रता

131.2

किं चाहिंसेति । अहिंसा पर-पीडावर्जनम् । सत्यं यथा-दृष्टार्थ-भाषणम् । अक्रोधस् ताडितस्यापि चित्ते क्षोभानुत्पत्तिः । त्याग औदार्यम् । शान्तिश् चित्तोपरतिः । पैशुनं परोक्षे पर-दोष-प्रकाशनम् । तद्-वर्जनम् अपैशुनम् । भूतेषु दीनेषु दया । अलोलुपतम् अलोलुपत्वं लोभाभावः । अवर्ण-लोप आर्षः । मार्दवं मृदुत्वम् अक्रूरता । ह्रीर् अकार्य-प्रवृत्तौ लोक-लज्जा । अचापलं व्यर्थ-क्रिया-राहित्यम्

131.3

किं च तेज इति । तेजः प्रागल्भ्यम् । क्षमा परिभवादिषु उत्पद्यमानेषु क्रोध-प्रतिबन्धः । धृतिर् दुःखादिभिर् अवसीदतश् चित्तस्य स्थिरीकरणम् । शौचं बाह्याभ्यन्तर-शुद्धिः । अद्रोहो जिघांसा-राहित्यम् । आतिमानिता आत्मन्य् अतिपूज्यत्वाभिमानः । तद्-अभावो नातिमानिता । एतान्य् अभयादीनि षड्-विंशति-प्रकाराणि दैवीं सम्पदम् अभिजातस्य भवन्ति । देव-योग्यां सात्त्विकीं सम्पदम् अभिलक्ष्य तद्-आभिमुख्येन जातस्य । भावि-कल्याणस्य पुंसो भवन्तीत्य् अर्थः

131.13

मधुसूदनः : अनन्ताराध्याये अधश् च मूलान्य् अनुसन्ततानि कर्मानुबन्धीनि मनुष्य-लोके [गीता 15.2] इत्य् अत्र मनुष्य-देहे प्राग्-भवीय-कर्मानुसारेण व्यज्यमाना वासनाः संसारस्यावान्तर-मूलत्वेनोक्तास् ताश् च दैव्यासुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमे ऽध्याये सूचिताः । तत्र वेद-बोधित-कर्मात्म-ज्ञानोपायआनुष्ठान-प्रवृत्ति-हेतुः सात्त्विकी शुभ-वासना दैवी प्रकृतिर् इत्य् उच्यते । एवं वैदिक-निषेधातिक्रमेण स्वभाव-सिद्ध-राग-द्वेषानुसारि-सर्वानर्थ-हेतु-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासनासुरी राक्षसी च प्रकृतिर् उच्यते । तत्र च विषय-भोग-प्राधान्येन राग-प्राबल्याद् आसुरीत्वं हिंसा-प्राधान्येन द्वेष-प्राबल्याद्
राक्षसीत्वम् इति विवेकः । सम्प्रति तु शास्त्रानुसारेण तद्-विहित-प्रवृत्ति-हेतु-भूता सात्त्विकी शुभ-वासना दैवी सम्पत् । शास्त्रातिक्रमेण तन्-निषिद्ध-विषय-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासना राक्षस्य् आसुर्योर् एकीकरणेनासुरी सम्पद् इति द्वैराश्येनशुभाशुभ-वासनाभेदं द्वया ह प्राजापत्या देवाश् चासुराश् च इत्य् आदि-श्रुति-प्रसिद्धं शुभानाम् आदानायाशुभानां हानाय च प्रतिपादयितुं षोडशो ऽध्याय आरभ्यते । तत्रादौ श्लोक-त्रयेन्णादेयां दैवीं सम्पदम् ।
शास्त्रोपदिष्टे ऽर्थे सन्देहं विनानुष्टान-निष्ठत्वम् एकाकी सर्व-परिग्रह-शून्यः कथं जीविष्यामीति भय-राहित्यं वाभयम् । सत्त्वस्यान्तः-करणस्य शुद्धिर् निर्मलता तस्याः सम्यक्ता भगवत्-तत्त्व-स्फूर्ति-योग्यता सत्त्व-संशुद्धिः पर-वञ्चन-मायानृतादि-परिवर्जनं वा । परस्य व्याजेन वशीकरणं पर-वञ्चनम् । हृदये ऽन्यथा कृत्वा बहिर् अन्यथा व्यवहरणं माया, अन्यथादृष्ट-कथनम् अनृतम् इत्य् आदि । ज्ञानं शास्त्राद् आत्म-तत्त्वस्यावगमः । चित्तैकाग्रतया तस्य स्वानुभवारूढत्वं योगः । तयोर् व्यावस्थितिः सर्वदा तन्-निष्ठता ज्ञान-योग-व्यवस्थितिः । यदा
त्व् अभयं सर्व-भूताभय-दान-सङ्कल्प-पालनम् । एतच् चान्येषाम् अपि परमहंस-धर्माणाम् उपलक्षणम् । सत्त्व-संशुद्धिः श्रवणादि-परिपाकेणान्तः-करणस्यासम्भावना-विपरीत-भावनादि-मल-राहित्यम् । ज्ञानम् आत्म-साक्षात्कारः । योगो मनो-नाश-वासना-क्षयानुकूलः पुरुष-प्रयत्नस् ताभ्यां विशिष्टा संसारि-विलक्षणावस्थितिर् जीवन्-मुक्तिर् ज्ञान-योग-व्यवस्थितिर् इत्य् एवं व्याख्यायते तदा फल-मूर्तैव दैवी सम्पद् इयं द्रष्टव्या । भगवद्-भक्तिं विनान्तः-करण-संशुद्धेर् अयोगात् तया सापि कथिता ।
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc