ग्रंथ पाठ
भगवद्गीता · अध्याय 130
130.1
भगवद्गित 16
भ्ग् 16.1
श्री-भगवान् उवाच
अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः ।
दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम्
130.2
अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् ।
दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम्
130.3
तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीम् अभिजातस्य भारत
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0