भगवद्गीता · अध्याय 126
मधुसूदनः : तस्यैव संसार-वृक्षस्यावयव-सम्बन्धिन्य् अपरा कल्पनोच्यते अधश् चेति । पूर्वं हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । इदानीं तु तद्-गतो विशेष उच्यते । तेषु ये कपूय-चरणा दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृता विस्तारं गताः । ये तु रमणीय-चरणाः सुकृतिनस् त ऊर्ध्वं देवादि-योनिषु प्रसृता अतो ऽधश् च मनुष्यत्वाद् आरभ्य विरिञ्चि-पर्यन्तम् ऊर्ध्वं च तस्माद् एवारभ्य सत्य-लोक-पर्यन्तं प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । कीदृशस् ताः ? गुणैः सत्त्व-रजस्-तमो भिर्
देहेन्द्रिय-विषयाकार-परिणतैर् जल-सेचनैर् इव प्रवृद्धाः स्थूलीभूताः । किं च, विषयाः शब्दादयः प्रवालाः पल्लवा इव यासां संसार-वृक्ष-शाखानां तास् तथा शाखाग्र-स्थानीयाभिर् इन्द्रिय-वृत्तिभिः सम्बन्धाद् रागाधिष्ठानत्वाच् च ।संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च मूलान्य् अवान्तराणि तत्-तद्-भोग-जनित-राग-द्वेषादि-वासना-लक्षणानि मूलानीव धर्माधर्म-प्रवृत्ति-कारकाणि तस्य संसार-वृक्षस्यानुसन्ततानि अनुस्यूतानि । मुख्यं च मूलं ब्रह्मैवेति न दोषः । कीदृशान्य् अवान्तर-मूलानि ? कर्म धर्माधर्म-लक्षणम्
अनुबन्धुं पश्चाज् जनयितुं शीलं येषां तानि कर्मानुबन्धीनि । कुत्र ? मनुष्य-लोके मनुष्यश् चासौ लोकअश् चेत्य् अधिकृतो ब्राह्मण्यादि-विशिष्टो देहो मनुष्य-लोकस् तस्मिन् बाहुल्येन कर्मानुबन्धीनि । मनुष्याणां हि कर्माधिकारः प्रसिद्धः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0