भगवद्गीता · अध्याय 127
विश्वनाथः : अधः पश्व्-आदि-योनिषु ऊर्ध्वे देवादि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य गुणैः सत्त्वादि-वृत्तिभिर् जल-सेकैर् इव प्रवृद्धाः । विषया शब्दादयः प्रवालाः पल्लव-स्थानीया यासां ताः । किं च तस्य मूले सर्व-लोकैर् अलक्षितो महा-निधिः कश्चिद् अस्तीत्य् अनुमीयते यम् एव मूल-जटाभिर् अवलम्ब्य स्थितस्य तस्याश्वत्थ-वृक्षस्यापि बट-वृक्षस्येव शाखास्व् अपि बाह्या जटाः सन्तीत्य् आह अधश् चेति । ब्रह्म-लोक-मूलस्यापि तस्याधश् च मनुष्य-लोके कर्मानुबन्धीनि कर्मानुलम्बीनि मूलान्य् अनुसन्ततानि निरन्तरं विस्तृतानि भवन्ति । कर्म-फलानां यतस् ततो भोगान्ते पुनर् मनुष्य-जन्मन्य्
एव कर्मसु प्रवृत्तानि भवन्तीत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0