भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 125

125.2

श्रीधरः : किं च अधश् चेति । हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । तेषु च ये दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । किं च, गुणैः सत्त्वादि-वृत्तिभिर् जल-सेचनैर् इव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किं च, विषया रूपादयः प्रवालाः पल्लव-स्थानीया यासां ताः । शाखाग्र-स्थानीयाभिर् इन्द्रिय-वृत्तिभिः संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च । मूलान्य् अनुसन्ततानि विरूढानि । मुख्यं मूलम् ईश्वर एव । इमानि त्व् अन्तरालानि
मूलानि तत्-तद्-भोग-वासना-लक्षणानि । तेषां कार्यम् आह मनुष्य-लोके कर्मानुबन्धीनीति । कर्मैवानुबन्ध्य् उत्तर-काल-भावि येषां तानि । ऊर्ध्वाधो-लोकेषूपभुक्त-तत्-तद्-भोग-वासनादिभिर् हि कर्म-क्षये मनुष्य-लोकं प्राप्तानां तत्-तद्-अनुरूपेषु कर्मसु प्रवृत्तिर् भवति । तस्मिन्न् एव हि कर्माधिकारो नान्येषु लोकेषु । अतो मनुष्य-लोक इत्य् उक्तम्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc