ग्रंथ पाठ
भगवद्गीता · अध्याय 116
116.1
विश्वनाथः :
गुणाः स्युर् बन्धकास् ते तु फलैर् ज्ञेयाश् चतुर्दशे ।
गुणात्यये चिह-ततिर् हेतुर् भक्तिश् च वर्णिता ॥
पूर्वाध्याये कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तम् । तत्र के गुणाः, कीदृशो गुण-सङ्गः, कस्य गुणस्य सङ्गात् किं फलं स्यात्, गुण-युक्तस्य किंवा लक्षणम् । कथं वा गुणेभ्यो मोचनम् इत्य् अपेक्षायां वक्ष्यमानम् अर्थं स्तुवानो वक्तुं प्रतिजानीते परम् इति । ज्ञायते æनेनेति ज्ञानम् उपदेशः परम् अत्युत्तमम्
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0