भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 115

115.1

मधुसूदनः : पूर्वाध्याये - यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि [गीता 13.26] इत्य् उक्तं तत्र निरीश्वर-साङ्ख्यम् अतिनिराकरणेन क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वं वक्तव्यम् । एवं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तं तत्र कस्मिन् गुण कथं सङ्गः के वा गुणाः कथं वा ते बध्नन्तीति वक्तव्यम् । तथा भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् इत्य् उक्तं तत्र भूत-प्रकृति-शब्दितेभ्यो गुणेभ्यः कथं मोक्षणं स्यान् मुक्तस्य च किं
लक्षणम् इति वक्तव्यं, तद् एतत् सर्वं विस्तरेण वक्तुं चतुर्दशो ऽध्याय आरभ्यते । तत्र वक्ष्यमाणम् अर्थं द्वाभ्यां स्तुवन् श्रोतॄणां रुच्य्-उत्पत्तये श्री-भगवान् उवाच परम् इति । ज्ञायते ऽनेन ज्ञानं परमात्म-ज्ञान-साधनं परं श्रेष्ठं पर-वस्तु-विषयत्वात् । कीदृशं तत् ? ज्ञानानां ज्ञान-साधनानां बहिरङ्गाणां यज्ञादीनां मध्य उत्तमम् उत्तम-फलत्वात् । न त्वम् आनित्वादीनां तेषाम् अन्तरङ्गत्वेनोत्तम-फलत्वात् । परम् इत्य् अनेनोत्कृष्ट-विषयत्वम् उक्तम् । उत्तमम् इत्य् अनेन तूत्कृष्ट-फलत्वम् इति भेदः । ईदृशं
ज्ञानम् अहं प्रवक्ष्यामि भूयः पुनः पूर्वेष्व् अध्यायेष्व् असकृद् उक्तम् अपि यज् ज्ञानं ज्ञात्वानुष्ठाय मुनयो मनन-शीलाः संन्यासिनः सर्वे परां सिद्धिं मोक्षाख्याम् इतो देह-बन्धनाद् गताः प्राप्ताः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc