भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 117

117.1

बलदेवः :
गुणाः स्युर् बन्धकास् ते तु परिचेयाः फलैस् त्रयः ।
मद्-भक्त्या तन्-निवृत्तिः स्याद् इति प्रोक्तं चतुर्दशे ॥
पूर्वाध्याये मिथः-सम्पृक्तानां प्रकृति-जीवेश्वराणां स्वरूपाणि विविच्य जानन्न् अमानित्वादि-धर्मैर् विशिष्टःब् प्रकृति-बन्धाद् विमुच्यते बन्ध-हेतुश् च गुण-सङ्ग इत्य् उक्तम् । तत्र के गुणाः, कस्मिन् गुणे कथं सङ्गः, कस्य गुणस्य सङ्गात् किं फलं, गुण-सङ्गिनः किंवा लक्षणं कथं वा गुणेभ्यो मुक्तिः इत्य् अपेक्षायां वक्ष्यमाणम् अर्थम् आत्म-रुच्य्-उत्पत्तये भगवान् स्तौति परम् इति द्वाभ्याम् ।
परं पूर्वोक्ताद् अन्यं प्रकृति-जीवान्तर्गतम् एव गुण-विषयकं ज्ञानं भूयो वक्ष्यामि यज्-ज्ञानानां प्रकृति-जीव-विषयकाणाम् उत्तमं श्रेष्ठं नवनीतवद् उद्धृतत्वात् । यज् ज्ञात्वोपलभ्य सर्वे मुनयस् तन्-मनन-शीला इतो लोके परम् आत्म-याथात्म्योपलब्धि-लक्षणां सिद्धिं गताः । यद् वा ज्ञायते ऽनेनेति ज्ञानम् उपदेशम्, तच् च प्राग् उक्तम् अपि भूयः पुनर् विधान्तरेण वक्ष्यामि । तच् च ज्ञानानां तपः-प्रभृतीनां ज्ञान-साधनानां मध्ये परम् उत्तमम् अत्युत्तमं तद्-अन्तरङ्ग-साधनत्वात् । यज् ज्ञात्वा सर्वे मुनय इतो लोकात् परां मोक्ष-लक्षणां
सिद्धिं गताः

117.2

भ्ग् 14.2
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc