भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 114

114.1

श्रीधरः :
पुं-प्रकृत्योः स्वतन्त्रत्वं वारयन् गुण-सङ्गतः ।
प्राहुः संसार-वैचित्र्यं विस्तरेण चतुर्दशे ॥
यावत् सञ्जायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥ इत्य् उक्तम् । स च क्षेत्र-क्षेत्रज्ञयोः संयोगो निरीश्वर-साङ्ख्यानाम् इव न स्वातन्त्र्येण । किन्तु ईश्वरेच्छयिवेति कथन-पूर्वकं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् अनेनोक्तं सत्त्वादि-गुणीकृतं संसार-वैचित्र्यं प्रपञ्चयिष्यन् एवम्भूतं वक्ष्यमानम् अर्थं स्तौति भगवान् परं भूय इति द्वाभ्याम् । परं परमात्म-निष्ठम् । ज्ञायते अनेनेति ज्ञानम् उपदेशः । तज् ज्ञानं भूयो ऽपि तुभ्यं प्रकर्षेण वक्ष्यामि
। कथम्भूतम् । ज्ञानानां तपः-कर्मादि-विषयाणां मध्य उत्तमम् । मोक्ष-हेतुत्वात् । तद् एवाह यज् ज्ञात्वा मुनयो मनन-शीलाः सर्वे । इतो देह-बन्धनात् । परां सिद्धिं मोक्षम् । गताः प्राप्ताः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc