भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 110

110.1

बलदेवः :
कथिताः पूर्व-षट्काभ्याम् अर्थाज् जीवादयो ऽत्र ये ।
स्वरूपाणि विशोध्यन्ते तेषां षट्के ऽन्तिमे स्फुटम् ॥
भक्तौ पूर्वोपदिष्टायां ज्ञानं द्वारं भवत्य् अतः ।
देह-जीवेश-विज्ञानं तद् वक्तव्यं त्रयोदशे ॥
आद्य-षट्के निष्काम-कर्म-साध्यं ज्-ज्ञानोपयोगितया दर्शितम् । मध्य-षत्के तु भक्ति-शब्दितं परमात्मोपासनं तन्-महिम-निगद-पूर्वकम् उपदिष्टम् । तच् च केवलं तद्-वश्यताकरं सत् तत्-प्रापकम् । आर्तादीनां तु तम् उपासीनानाम् आर्ति-विनाशादि-करं तद्-एकान्ति-प्रसङ्गेन केवलं सत् तत्-प्रापकं च ।
योगेन ज्ञानेन चोपसृष्टं त्व् ऐश्वर्य-प्रधान-तद्-रूपोपलम्भकं मोचकं चेत्य् उक्तम् । तथास्मिन्न् अन्त्य-षत्के प्रकृति-पुरुष-तत्-संयोग-हेतुक-जगत् तद्-ईश्वर-स्वरूपाणि कर्म-ज्ञान-भक्ति-स्वरूपाणि च विविच्यन्ते । ज्ञान-वैशद्याय एतावत् त्रयोगशे ऽस्मिन्न् अध्याये देह-जीव-परेश-स्वरूपाणि विवेचनीयानि । देहादि-विविक्तस्यापि जीवात्मनो देह-सम्बन्ध-हेतुस् तद्-विवेकानुसन्धि-प्रकारश् च विमर्शनीयः । तद् इदम् अर्थजातम् अभिधातुं भगवान् उवाच इदम् इति । हे कौन्तेय इदं सेन्द्रिय-प्राणं शरीरं भोक्तुर् जीवस्य भोग्य-सुख-दुःखादि-प्ररोहकत्वात् क्षेत्रम् इत्य् अभिधीयते तत्त्व-ज्ञैः । एतच् छरीरं देवो ऽहं मानवो ऽहं स्थूलो ऽहम्
इत्य् अज्ञैर् आत्म-भेदेन प्रतीयमानम् अपि यः शय्यासनादिवद्-आत्मनो भन्नम् आत्म-भोग-मोक्ष-साधनं च वेत्ति, तं वेद्याच् छरीरात् तद्-वेदितृतया भिन्नं तद्-विदः क्षेत्र-क्षेत्रज्ञ-स्वरूप-ज्ञाः क्षेत्रज्ञम् इति प्राहुः । भोग-मोक्ष-साधनत्वं शरीरस्योक्तं श्री-भगवते -
अदन्ति चैकं फलम् अस्य गृध्ना
ग्रामेचरा एकम् अरण्य-वासाः ।
हंसा य एकं बहु-रूपम् इज्यैर्
माया-मयं वेद स वेद वेदम् ॥ इति । [भ्प् 11.12.23]
शरीरात्मवादी तु क्षेत्रज्ञो न, क्षेत्रत्वेम तज्-ज्ञानाभावात्

110.2

भ्ग् 13.2
क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc