भगवद्गीता · अध्याय 111
श्रीधरः : तद् एवं संसारिणः स्वरूपम् उक्तम् । इदानीं तस्यैव पारमार्थिकम् असंसारि-स्वरूपम् आह क्षेत्रज्ञम् इति । त च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व-क्षेत्रेष्व् अनुगतं माम् एव विद्धि । तत्त्वम् असि इति श्रुत्या लक्षितेन चिद्-अंशेन मद्-रूपस्योक्तत्वात् आदरार्थम् एव तज्-ज्ञानं स्तौति । क्षेत्र-क्षेत्रज्ञयोर् यद् एवं वैलक्षणेयन् ज्ञानं तद् एव मोक्ष-हेतुत्वान् मम ज्ञनं मतम् । अन्यत् तु वृथा-पाण्डित्यम् । बन्ध-हेतुत्वाद् इत्य् अर्थः । तद् उक्तं --
तत् कर्म यन् न बन्धाय
सा विद्या या विमुक्तये ।
आयासायापरं कर्म
विद्यान्या शिल्प-नैपुणम् ॥ इति ।
मधुसूदनः : एवं देहेन्द्रियादि-विलक्षणं स्व-प्रकाशं क्षेत्रज्ञम् अभिधाय तस्य पारमार्थिकं तत्त्वम् असंसारि-परमात्मनैक्यम् आह क्षेत्रज्ञम् अपीति ।
सर्व-क्षेत्रेषु य एकः क्षेत्रज्ञः स्वप्रकाश-चैतन्य-रूपो नित्यो विभुश् च तम् अविद्याध्यारोपित-कर्तृत्व-भोक्तृत्वादि-संसार-धर्मं क्षेत्रज्ञम् अविद्यक-रूप-परित्यागेन माम् ईश्वरम् असंसारिणम् अद्वितीय-ब्रह्मानन्द-रूपं विद्धि जानीहि । हे भारत ! एवं च क्षेत्रं माया-कल्पितं मिथ्या । क्षेत्रज्ञश् च परमार्थ-सत्यस् तद्-भ्रमाधिष्ठानम् इति क्षेत्र-क्षेत्रज्ञयोर् यज् ज्ञानं तद् एव मोक्ष-साधनत्वाज् ज्ञानम् अविद्या-विरोधि-प्रकाश-रूपं मम मतम् अन्यत् त्व् अज्ञानम् एव तद्-विरोधित्वाद् इत्य् अभिप्रायः ।
अत्र जीवेश्वरयोर् आविद्यको भेदः पारमार्थिकस् त्व् अभेद इत्य् अत्र युक्तयो भाष्य-कृद्भिर् वर्णिताः । अस्माभिस् तु ग्रन्थ-विस्तर-भयात् प्राग् एव बहुधोक्तत्वाच् च नोपन्यस्ताः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0