भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 109

109.1

विश्वनाथः :
नमो ऽस्तु भगवद्-भक्त्यै कृपया स्वांश-लेशतः ।
ज्ञानादिष्व् अपि तिष्ठेत् तत् सार्थकी-करणा यया ॥
षट्के तृतीये ऽत्र भक्त्--मिश्रं ज्ञानं निरूप्यते ।
तन्-मध्ये केवला भक्तिर् अपि भङ्ग्या प्रकृष्यते ॥
त्रयोदशे शरीरं च जीवात्म-परमात्मनोः ।
ज्ञानस्य साधनं जीवः प्रकृतिश् च विशिष्यते ॥
तद् एवं द्वितीयेन षट्केन केवलया भक्त्या भगवत्-प्राप्तिः । ततो ऽन्या अहंग्रहोपासनाद्यास् तिस्र उपासनाश् चोक्ताः । अथ प्रथम-षत्कोदितानां निष्कामकर्म-योगिनां भक्ति-मिश्र-ज्ञाणाद् एव मोक्षस् तच् च ज्ञानं सङ्क्षेपाद् उक्तम् अपि पुनः क्षेत्र-क्षेत्रज्ञादि-विवेचनेन विवरितुं तृइतीयं षट्कम् आरभते ॥
तत्र किं क्षेत्रं कः क्षेत्रज्ञ इत्य् अपेक्षायाम् आह इदम् इति । इदं सेन्द्रियं भोगायतनं शरीरं क्षेत्रं संसारस्य प्ररोह-भूमित्वात् । तद् यो वेत्ति बन्ध-दशायाम् अहं-ममेत्य् अभिमन्यमानं स्व-सम्बन्धित्वेनैव जानाति, मोक्ष-दशायाम् अहं-ममेत्य्-अभिमान-रहितः स्व-सम्बन्ध-रहितम् एवयो जानाति, तम् उभयावस्थं जीवं क्षेत्रज्ञम् इति प्राहुः । कृषीबलवत् स एव क्षेत्रज्ञस् तत्-फल-भोक्ता च । यद् उक्तं भगवता --
अदन्ति चैकं फलम् अस्य गृध्ना
ग्रामेचरा एकम् अरण्य-वासाः ।
हंसा य एकं बहुरूपम् इज्यैर्
मायामयं वेद स वेद वेदम् ॥ इति । [भ्प् 11.12.23]
अस्यार्थः गृध्नन्तीति गृध्रा ग्रामेचरा बद्ध-जीवा अस्य वृक्षस्यकं फलं दुःखम् अदन्ति, परिणामतः स्वर्गादेर् अपि दुःख-रूपत्वात् । अरण्य-वासा हंसा मुक्त-जीवा एक-फलं सुखम् अदन्ति, सर्वथा सुख-रूपस्यापवर्गस्याप्य् एतज्-जन्यत्वात् । एवम् एकम् अपि संसार-वृक्षं बहुविध-नरक-स्वर्गापवर्ग-प्रापकत्वाद् बहु-रूपं माया-शक्ति-समुद्भूतत्वान् मायामयम् । इज्यैः पूज्यैर् गुरुभिः कृत्वा यो वेदेति तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् वेदितारः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc