भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 108

108.1

मधुसूदनः :
ध्यानाभ्यास-वशीकृतेन मनसा तन् निर्गुणं निष्क्रियं
ज्योतिः किंचन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।
अस्माकं तु तद् एव लोचन-चमत्काराय भूयाच् चिरं
कालिन्दी-पुलिनेषु यत् किम् अपि तन् नीलं महो धावति ॥
प्रथम-मध्यम-षट्कयोस् तत्-त्वं-पदार्थाव् उक्ताव् उत्तरस् तु षट्को वाक्यार्थ-निष्ठः सम्यग्-धी-प्रधानो ऽधुनारभ्यते । तत्र - तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् भवामि [गीता 12.7] इति प्राग् उक्तम् । न चात्म-ज्ञान-लक्षणान् मृत्योर् आत्म-ज्ञानं विनोद्धरणं सम्भवति । अतो यादृशेनात्म-ज्ञानेन मृत्यु-संसार-निवृत्तिर् येन च तत्त्व-ज्ञानेन युक्ता अद्वेष्टृत्वादि-गुण-शालिनः संन्यासिनः प्राग्व्याख्यातास् तदात्म-तत्त्व-ज्ञानं वक्तव्यम् । तच् चाद्वितीयेन परमात्मना सह जीवस्याभेदम् एव विषयीकरोति । तद्-भेद-भ्रम-हेतुकत्वात् सर्वानर्थस्य ।
तत्र जीवानां संसारिणां प्रतिक्षेत्रं भिन्नानाम् असंसारिणैकेन परमात्मना कथम् अभेदः स्याद् इत्य् आशङ्कायां संसारस्य भिन्नत्वस्य चाविद्या-कल्पितानात्म-धर्मत्वान् न जीवस्य संसारित्वं भिन्नत्वं चेति वचनीयम् । तद् अर्थं देहेन्द्रियान्तः-करणेभ्यः क्षेत्रेभ्यो विवेकेन क्षेत्रज्ञः पुरुषो जीवः प्रतिक्षेत्रम् एक एव निर्विकार इति प्रतिपादनाय क्षेत्र-क्षेत्रज्ञ-विवेकः क्रियते ऽस्मिन्न् अध्याये । तत्र ये द्वे प्रकृती भूम्य्-आदि-क्षेत्र-रूपतया जीव-रूप-क्षेत्रज्ञतया चापर-पर-शब्द-वाच्ये सूचिते तद्-विवेकेन तत्त्वं
निरूपयिष्यन् श्री-भगवान् उवाच इदं शरीरम् इति ।
इदम् इन्द्रियान्तः-करण-सहितं भोगायतनं शरीरं हे कौन्तेय ! क्षेत्रम् इत्य् अभिधीयते । सस्यस्येवास्मिन्न् असकृत् कर्मणः फलस्य निर्वृत्तेः । एतद् यो वेत्ति अहं ममेत्य् अभिमन्यते तं क्षेत्रज्ञ इति प्राहुः कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् विवेक-विदः । अत्र चाभिधीयत इति कर्मणि प्रयोगेण क्षेत्रस्य जडत्वात् कर्मत्वं क्षेत्रज्ञ-शब्दे च द्वित्यां विनवेति-शब्दम् आहरन् स्वप्रकाशत्वात् कर्मत्वाभावम् अविवेकिन एवाहुः स्थूल-दृशाम् अगोचरत्वाद् इति कथयितुं विलक्षण-वचन-व्यक्त्यैकत्र कर्तृ-पदोपादानेन च निर्दिशति भगवान्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc