भगवद्गीता · अध्याय 107
श्रीधरः :
भक्तानाम् अहम् उद्धर्ता संसाराद् इत्य् अवादि यत् ।
त्रदोशे ऽथ तत्-सिद्ध्यै तत्त्व-ज्ञानम् उदीर्यते ॥
तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात्, भवामि न चिरात् पार्थ [गीता 12.7] इति पूर्वं प्रतिज्ञातम् । न चात्म-ज्ञानं विना संसाराद् उद्धरणं सम्भवतीति तत्त्व-ज्ञानोपदेशार्थं प्रकृति-पुरुष-विवेकाध्याय आरभ्यते । तत्र यत् सप्तमे ऽध्याये अपरा परा चेति प्रकृति-द्वयम् उक्तं तयोर् अविवेकाज् जीव-भावम् आपन्नस्य चिद्-अंशस्यायं संसारः । याभ्यां च जीवोपभोगार्थम् ईश्वरस्य सृष्ट्य्-आदिषु प्रवृत्तिः । तद् एव प्रकृति-द्वयं क्षेत्र-क्षेत्रज्ञ-शब्द-वाच्यं परस्परं विविक्तं तत्त्वतो निरूपयिष्यन् भगवान् उवाच इदम् इति । इदं
भोगायतनं शरीरं क्षेत्रम् इत्य् अभिधीयते । संसारस्य प्ररोह-भूमित्वात् । एतद् यो वेत्ति अहं ममेति मन्यते तं क्षेत्रज्ञ इति प्राहुः । कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् विवेकज्ञाः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0