भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 102

102.1

बलदेवः -
उपायेषु समस्तेषु शुद्धा भक्तिर् महा-बला ।
प्रापयेत् त्वरया यन् माम् इत्य् आह द्वादशे हरिः ॥
जीवात्मानं यथावज् ज्ञात्वा विज्ञाय च तद्-अंशी हरिर् ध्येय इति अविनाशि तु तद् विद्धि [गीता 2.17] इत्य् आदिभिर् द्वितीयादिष्व् एकः पन्था वर्णितः । जीवात्मानं हरेर् अंशं ज्ञात्वैव तद्-अंशी हरिस् तच्-छ्रवणादि-भक्तिभिर् ध्येय इति मय्य् आसक्त-मनाः पार्थ [गीता 7.1] इत्य् आदिभिः सप्तमादिषु द्वितीय-पन्थाः प्रदर्शितः । तेष्व् एव प्रयाण-काले [गीता 8.10] इत्य् आदिना योगोपसृष्टा । ज्ञान-यज्ञेन चाप्य् अन्ये [गीता 9.15] इत्य् अनेन ज्ञानोपसृष्टा च भक्तिर् उक्ता । भक्ति-षट्कात् प्राक् षष्ठान्ते केवलां भक्तिम् उपदेक्ष्यता योगिनाम् अपि सर्वेषां [गीता 6.47] इत्य् आदि-पद्येन स्वैकान्तिनाम्
युक्ततमतां चाभिहिता । तत्रार्जुनः पृच्छति एवम् इति । एवं मय्य् आसक्त-मनाः पार्थ [गीता 7.1] इत्य् आदि-त्वद्-उक्त-विधया सतत-युक्ता ये त्वां श्यामसुन्दरं कृष्णं परितः कायादि-व्यापारैर् उपासते, ये चाक्षरं जीव-स्वरूपं चक्षुर्-आदिभिर् अव्यक्तं पर्युपासते धारणाध्यान-समाधिभिः साक्षात्-कर्तुम् ईहन्ते परमात्म-कामास् तेषाम् उभयेषां मध्ये योग-वित्तमाः शीघ्रोपायिनः के भवन्ति ? अयं भावः । स्वानुभव-पूर्वकस्य हरि-ध्यानस्य बन्ध-मूलत्वात् तेन निर्विघ्ना तत्-प्राप्तिर् इत्य् एके । नीरूपस्यातिसूक्ष्मस्य जीवात्मनो दुर्ध्यानत्वात् किं
तद्-ध्यानेन ? किन्तु हरि-भक्तिर् एव सर्व-विघ्न-विमर्दिनी हरि-प्रापणीत्य् एके । तस्याम् एव निरतास् तेषाम् उभयेषाम् उपायेषु कः श्रेयान् उपाय इति तं भणेति

102.2

भ्ग् 12.2
श्री-भगवान् उवाच
मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc