भगवद्गीता · अध्याय 101
विश्वनाथः ---
द्वादशे सर्व-भक्तानां ज्ञानिभ्यः श्रैष्ठ्यम् उच्यते ।
भक्तेष्व् अपि प्रशस्यन्ते ये ऽद्वेषादि-गुणान्विताः ॥
भक्ति-प्रकरणस्योपक्रमे -
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता 6.47]
इति भक्तेः सर्वोत्कर्षो यथा श्रुतेः । तथैवोपसंहारे ऽपि तस्या एवं सर्वोत्कर्षं श्रोतु-कामः पृच्छति । एवं सतत-युक्ता मत्-कर्म-कृन् मत्-परमः [गीता 11.55] इति त्वद्-उक्त-लक्षणा भक्तास् त्वां श्यामसुन्दराकारं ये च अव्यक्तं निर्विशेषम् अक्षरं एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् [बौ 3.8.9] इत्य् आदि-श्रुत्य्-उक्तं ब्रह्म उपासते । तेषाम् उभयेषां योग-विदां मध्ये के ऽतिशयेन योगविदश् च त्व-प्रान्तौ श्रेष्ठम् उपायं जानन्ति न लभन्ते वा । ते योग-वित्तरा इति वक्तव्ये योग-वित्तमा इत्य् उक्तिर्
योग-वित्तराणाम् अपि बहूनां मध्ये के योगवित्तमा इत्य् अर्थं बोधयति
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0