ग्रंथ पाठ
भगवद्गीता · अध्याय 103
103.2
श्रीधरः - तत्र प्रथमाः श्रेष्ठा इत्य् उत्तरं श्री-भगवान् उवाच मयीति । मयि परमेश्वरे सर्वज्ञादि-गुण-विशिष्टे । मन आवेश्यैकाग्रं कृत्वा । नित्य-युक्ता मद्-अर्थ-कर्मानुष्ठानादिना मन्-निष्ठाः सन्तः श्रेष्ठया श्रद्धया युक्ता ये माम् आराधयन्ति ते युक्ततमा ममाभिमताः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0