भगवद्गीता · अध्याय 100
मधुसूदनः - पूर्वाध्यायान्ते -
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥ [गीता 11.55] इत्य् उक्तम् ।
तत्र मच्-छब्दार्थे सन्देहः किं निराकारम् एव सर्व-स्वरूपं वस्तु मद्-छब्देनोक्तं भगवता किं वा साकारम् इति । उभयत्रापि प्रयोग-दर्शनात् ।
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ [गीता 7.19]
इत्य् आदौ निराकारं वस्तु व्यपदिष्टम् । विश्व-रूप-दर्शनानन्तरं च -
नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥ [गीता 11.53]
इति साकारं वस्तु । उभयोश् च भगवद्-उपदेशयोर् अधिकारि-भेदेनैव व्यवस्थया भवितव्यम् अन्यथा विरोधात् । तत्रैवं सति मया मुमुक्षुणा किं निराकारम् एव वस्तु चिन्तनीयं किं वा साकारम् इति स्वाधिकार-निश्चयाय स-गुण-निर्गुण-विद्ययोर् विशेष-बुभुत्सया अर्जुन उवाच एवम् इति ।
एवं मत्-कर्म-कृद् [गीता 11.55] इत्य्-आद्य्-अनन्तरोक्त-प्रकारेण सतत-युक्ता नैरन्तर्येण भगवत्-कर्मादौ सावधानतया प्रवृत्ता भक्ताः साकार-वस्त्व्-एक-शरणाः सन्तस् त्वाम् एवं-विधं साकारं ये पर्युपासते सततं चिन्तयन्ति । ये चापि सर्वतो विरक्तास् त्यक्त-सर्व-कर्माणो ऽक्षरं न क्षरत्य् अश्नुते वेत्य् अक्षरम् एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् [बौ 3.8.9] इत्य् आदि-श्रुति-प्रतिषिद्ध-सर्वोपाधि निर्गुणं ब्रह्म । अतएवाव्यक्तं सर्व-करणागोचरं निराकारं त्वां पर्युपासते तेषाम् उभयेषां मध्ये के योग-वित्तमाः अतिशयेन
योग-विदः । योगं समाधिं विन्दन्ति विदन्तीति वा योग-विद उभये ऽपि । तेषां मध्ये के श्रेष्ठा योगिनः केषां ज्ञानं मयानुसरणीयम् इत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0