भगवद्गीता · अध्याय 99
श्रीधरः -
निर्गुणोपासनस्यैवं स-गुणोपासनस्य च ।
श्रेयः कतरद् इत्य् एतन् निर्णेतुं द्वादशोद्यमः ॥
पूर्वाध्यायान्ते मत्-कर्म-कृन् मत्-परम [गीता 11.55] इत्य् एवं भक्ति-निष्ठस्य श्रेष्ठत्वम् उक्तम् । कौन्तेय प्रतिजानीहीत्य् [गीता 9.31] आदिना च तत्र तत्र तस्यैव श्रेष्ठत्वं निर्णीतम् । तथा तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यत [गीता 7.17] इत्य् आदिना सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि [गीता 4.36] इत्य् आदिना च ज्ञान-निष्ठस्य श्रेष्ठत्वम् उक्तम् । एवम् उभयोः श्रैष्ठ्ये ऽपि विशेष-जिज्ञासया श्री-भगवन्तं प्रत्य् अर्जुन उवाच एवम् इति । एवं सर्व-कर्मार्पणादिना सतत-युक्तास् त्वन्-निष्ठाः सन्तो ये भक्तास् त्वां विश्व-रूपं सर्वज्ञं सर्व-शक्तिं
पर्युपासते ध्यायन्ति । ये चाप्य् अक्षरं ब्रह्माव्यक्तं निर्विशेषम् उपासते । तेषाम् उभयेषां मध्ये के ऽतिशयेन योग-विदो ऽतिश्रेष्ठा इत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0