Bhagavadbhaktistotra · श्लोक 41-60
शान्तात्मनापि भवता भगवन् प्रसह्य नेत्रोद्भवेन दहता दहनेन कामम् ।
अल्पीयसो ऽपि महतां समतिक्रमस्य मन्ये जनाय विषमः कथितो विपाकः ॥
स्नेहाद् विधाय दयितां वपुषो ऽर्धभागे धुर्यस् तथापि भगवञ् छमिनां त्वम् एव ।
त्रैलोक्यविस्मयकृतां तव चेष्टितानाम् अद्यापि कश्चिद् अपि नानुकृतिं करोति ॥
उच्चैस् तिरःकृतम् इदम् भुवनं समस्तं योगप्रभावजनितेन बलेन येन ।
तस्य प्रजापतिसुतस्य हृतः प्रसह्य गर्वस् त्वयेति बत कस्य न विस्मयो ऽत्र ॥
अङ्गुष्ठकेन भवता विनिपीडितस्य यस्यासवो न विगताः सहसा कथंचित् ।
यत्नात् स एव विजितो हरिणा चिरेण नीत्या दशानन इति क्व नु विस्मयो ऽयम् ॥
मन्दाकिनी कनकपङ्कजपारिजात- पुष्पाधिवासितजला नभसः पतन्ती ।
लग्ना तुषारकणिकेव जटाग्रभागे केनापरेण भवतेव धृतानुगृह्य ॥
आस्तां तवान्यद् अपि तावद् अतुल्यकक्ष्यम् ऐश्वर्यम् ईश्वरपदस्य निमित्तभूतम् ।
त्वच्छेपसो ऽपि भगवन् न गतो ऽवसानं विष्णुः पितामहयुतः किम् उतापरस्य ॥
श्वेतस्य मृत्युदमनान्तरवर्तिनो ऽपि सूनापशोर् इव वधावसरे स्थितस्य ।
त्राणं निगृह्य भवता यद् अकारि तस्य तत् कस्य विस्मयम् अलं न करोति लोके ॥
प्रीतेन यद्वद् उपमन्युर् अपास्तमन्युः क्षीरोदसंविभजनेन कृतस् त्वयासौ ।
तद्वद् विभो यदि जगत्य् अपरो ऽसि कश्चिन् निर्मुच्य मत्सरम् अमी प्रवदन्ति सन्तः ॥
वृत्रद्विषः सकुलिशस्य भुजस्य शक्तिर् उत्तम्भिता विहसता भवता तथैव ।
पूष्णस् तथैव दशनेषु भगस्य चाक्ष्णोर् दक्षस्य च क्रतुफले ममता निरस्ता ॥
विष्णुप्रजापतिपुरन्दरलोकपालैस् तिर्यक्सुरासुरनरैर् अपरैश् च दिव्यैः ।
लोके यथा पशुपते तव कल्पितानि स्थानानि तद्वद् अपरस्य वदन्तु कस्य ॥
शक्रात्मजस्य निजशार्ङ्गरथाङ्गपाणौ कृष्णे स्थिते ऽपि शकलीकृतदानवेन्द्रे ।
द्रोणापगेयकृपकर्णभयार्दितस्य शां शांकर त्वम् अकृथ भृशम् अर्जुनस्य ॥
आराधितेन भगवन् भवता हिरण्य- वृष्टिं मरुत्तनृपतेः किरता यियक्षोः ।
ये ख्यापिता जगति भक्तजनप्रसादास् तन् नास्तुतं तव विभो परमेश्वरत्वम् ॥
तीव्रव्रतस्य कणधूमनिपाततप्त- सर्वेन्द्रियस्य भवता भृगुनन्दनस्य ।
तुष्टेन शर्म यद् अकारि तदा स शुक्रः शीतोष्णवातजलदैर् दिवि भासमानः ॥
एतानि पासि भुवनानि यदा विगृह्य सेयं विभूतिर् अतुला तव तावद् आस्ताम् ।
दक्षप्रसूतिम् अपि ते भ्वनत्रये ऽस्मिन् कश्चिन् न वेत्ति भवता सह को विवादः ॥
उन्मार्गवर्ति गुणदोषविवेकमन्दम् उग्रं मलीमसम् असंयतम् अल्पसारम् ।
भीतार्थिनाशन दयापर लोकनाथ देव प्रसीद मम चित्तम् इदं प्रशाधि ॥
एतानि देव चपलानि दुराशयानि लुब्धानि रम्यविषयोपनिबन्धनानि ।
दुर्दान्तवाजिसदृशान्य् अविधेयभावाद् वश्यानि मे कुरु सदैव षडिन्द्रियानि ॥
नन्दीश्वरस्य मनुजस्य सतो ऽतिकाष्ठं कालेन मृत्युम् अचिरेण निनीषितस्य ।
सर्वात्मना समतया यद् अकारि तुष्ट्या नाश्चर्यम् एतद् अभवन् न च भावि नास्ति ॥
संसारपाशवशम् एतद् अनीशम् ईश मिथ्या कुतर्कतिमिरोपहतप्रकाशम् ।
चेतो मम क्षपितमन्मथ दग्धकाल सत्सेविते पथि नियोजय देवदेव ॥
कायानुबन्धिभिर् अनेकविधैर् अपायै रागादिभिश् च मनसि प्रतिलब्धभावैः ।
मूढः पृथक् पृथग् अहम् प्रविलुप्यमानस् त्वत्तः परं कथय कं शरणं व्रजामि ॥
आयासकेन खलु कामपिशाचकेन क्रोधग्रहेण च पुनर् निरवग्रहेण ।
ग्रस्तस्य विक्लवधियः प्रविमुक्तिहेतोर् यत् कृत्यम् अत्र मम तत्र तवैव शक्तिः ॥
मूल पाठ: Bhagavadbhaktistotra · Edition: Raniero Gnoli Miscellanea Indica East and West 9.3 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0