Bhagavadbhaktistotra · श्लोक 21-40
तीर्थक्रियाव्यसनिनः स्वमनीषिकाभिर् उर्प्रेक्ष्य तत्त्वम् इति यद् यद् अमी वदन्ति ।
तत् तत्त्वम् एव भवतो ऽस्ति न किंचिद् अन्यत् संज्ञासु केवलम् अयं विदुषां विवादः ॥
सर्वज्ञबीजम् अविकारम् अलुप्तशक्तिम् निःश्रेयसाभ्युदयमार्गविधानहेतुम् ।
त्वाम् एव देव गुरवः प्रथमे ऽपि सम्यग् आराध्य तीर्थकरभा महिमानम् आपुः ॥
सर्वज्ञाता यद् अपि लक्षणया परस्य मुख्या तथापि भवतः परमेश्वरत्वात् ।
स्वातन्त्र्यम् अप्य् अनुपचारम् उपैति योगम् त्वय्य् एव नाथ जगतः खलु कर्तृभावात् ॥
दृश्येन कश्चिद् अपि गच्छति वस्तुजातम् अन्यो ऽनुमानसमयैर् अपरो ऽपि शब्दैः ।
प्रत्यक्षवस्तु भवतः पुनर् अक्रमेण सर्वं करामलकवद् विदितं प्रमेयम् ॥
अस्यात्मनो विषयिणः परतन्त्रवृत्तेर् अन्यश् च नाथ जगतः प्रकृतेः परस्य ।
संयोजने च विरतौ च परो ऽसि हेतुः संसारचक्रपरिवर्तनयन्त्रवाहः ॥
कुर्वन् मुहुः स्वयम् अतन्द्रितयापि बुद्ध्या कर्माणि शास्त्रविषयोपनिबन्धनानि ।
संयुज्यते समुचितेन तु यत्फलेन तच्चेष्टितस्य फलम् अप्रतिमं तवैव ॥
उत्साहशक्तिरहितान् विकलान् अपुण्यान् मन्दान् निरस्तसमयान्न् अघृणान्न् असत्यान् ।
अवाञ्छितेन विनियोजयता फलेन लुप्तस् त्वया पुरुषकारविशेषवाद ॥
कर्माणि वेदविहितानि सुखप्रदानि प्रेत्यैति तत्फलम् इदं फलम् अन्तवच् च ।
त्वच्छासने सुखम् अनन्तम् अशेषदोष- प्लोषाय भक्तिविहिताम् प्रणतिं यद् आहुः ॥
प्राकाम्यम् आत्मनि यदा प्रकटीकरोषि व्यक्तीः प्रतिक्षणम् अपूर्वतया दधानः ।
त्वय्य् एव सो ऽपि भगवन् भजते ऽर्थवत्ताम् प्रयो ऽविदग्धरचितः क्षणभङ्गवादः ॥
यत् तीर्थिकैर् जगति जन्मभिर् अप्रमेयैर् नासाद्यते पदम् इति स्वमतेषु गीतम् ।
बुद्ध्यैकजन्मिकम् इति ब्रुवतां विगृह्य येषां त्वया ननु कृतश् चरणः शिरःसु ॥
लुब्धा मलीमसधियः समयाद् अपेता राहोपरक्तमनसो वशिनो ऽप्य् असन्तः ।
त्वच्छासने विहितलिङ्गपरिग्रहेण मुच्यन्त इत्य् अतिमहांस् तव सिंहनादः ॥
अव्याहतस्य भगवन् भवदागमस्य चिन्तामणेर् इव महान् असमः प्रभावः ।
सम्यग् विधानविहितां यद् अवाप्य दीक्षां ज्ञानाद् ऋते ऽपि खलु केवलताम् उपैति ॥
ज्ञानं तिरःकृतम् इदम् पशुवासनाभिर् आस्तां यद् आत्मनि विमुक्तिफलस्य बीजम् ।
उद्धारिणेव भगवन् भवदागमेन सम्पादितं भवति मोक्षफलप्रपूर्त्यै ॥
जन्तोर् यदा तव कदाचिद् अनुग्रहेच्छा क्षीणाशयो भवति जन्मभिर् अप्रमेयैः ।
संसारजालम् अतिवाह्य तवैव शान्तिम् आत्यन्तिकीं व्रजति बोधविवर्जितो ऽपि ॥
एतच् चतुर्दशविधं भुवनं समस्तम् संसारमण्डलम् अवान्तरभेदभिन्नम् ।
त्वम् पासि हंसि विदधासि यादृच्छयेति मत्वा न लिप्यत इति प्रवदन्ति सन्तः ॥
ऐश्वर्यम् अप्रतिहतं सहजो विरागस् तृप्तिर् निसर्गजनिता वशितेन्द्रियेषु ।
आत्यन्तिकं सुखं अनावरणा च शक्तिर् ज्ञानं च सर्वविषयं भगवंस् तवैव ॥
यत्नाद् उपात्ततमसो ऽपि हि यद् दुरापम् आत्यन्तिकं सुखम् अपास्तसमस्तदुःखम् ।
नीताः खरोष्ट्रतरवो ऽपि तद् इत्य् अहो ते स्वातन्त्र्यम् अप्रतिहतं भुवनत्रये ऽपि ॥
येनामलस्फुरितरत्नशिखावितानो हैमीकृतो निपतता सकलः सुमेरुः ।
तस्यातुलं फलम् इदं तव शूक्रबिन्दोर् एकस्य यत् कनकभूषणम् आप लोकः ॥
कालेन संचितम् अपुण्यम् अनन्तकल्पं लोकत्रयस्य यद् अभूत् त्रिपुरप्रकारम् ।
दग्धं त्वया तद् इति सम्यग् अवेत्य कस्य मूढाद् ऋते भवति न त्वयि पक्षपातः ॥
क्षीरोदसारमथनप्रतिलब्धजन्म वित्रासितत्रिदशसंहति कालकूटम् ।
निर्मत्सरेण पिबता जगतो हिताय पीतस् त्वयैव सकलो ननु साधुवादः ॥
मूल पाठ: Bhagavadbhaktistotra · Edition: Raniero Gnoli Miscellanea Indica East and West 9.3 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0