भाषा

ENहिગુ
ग्रंथ पाठ

Bhagavadbhaktistotra · श्लोक 61-65

61

या सा जगत्परिभवस्य निमित्तभूता हेतुः स्वयं सुरपतेर् अपि लाघवस्य ।
सा मां विडम्बयति नाथ सदैव तृष्णा भिन्धि प्रसह्य भगवन् न पुनर्भवाय ॥

62

येनावृतः पशुर् अयं हृतबोधशक्तिस् तत्त्वं न वेत्ति जगते हितम् आत्मने वा ।
छिन्धि प्रसह्य भगवन् मम तत् समस्तम् अज्ञानजं तिमिरम् अस्तु महाप्रकाशः ॥

63

सर्वापदां निलयम् अध्रुवम् अस्वतन्त्रम् आसन्नपातम् अविवेकम् असारसंज्ञम् ।
यावच् छरीरकम् इदम् न विपद्यते मे तावन् नियोजय विभो कुशलक्रियासु ॥

64

यत् खिद्यते कमलयोनिर् अपि स्तुवानः साक्षाच् चतुर्भिर् अपि नाम मुखैर् भवन्तम् ।
तत् के वयं तव गुणस्तवनक्रियासु भक्तिः प्रमाणम् इति सर्वम् इदं क्षमस्व ॥

65

कृत्वा मया तव नुतिं जगदेकबन्धो भक्त्या स्वबुद्धिसदृशीम् अवधूतनाम्न ।
पुण्यं यद् अल्पम् अपि किंचिद् उपात्तम् अत्र लोकस्य तेन भगवंस् त्वयि भक्तिर् अस्तु ॥

मूल पाठ: Bhagavadbhaktistotra · Edition: Raniero Gnoli Miscellanea Indica East and West 9.3 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc