Bhagavadbhaktistotra · श्लोक 1-20
प्रत्यक्षवस्तुविषयाय जगद्धिताय विश्वस्थितिप्रलयसम्भवकारणाय ।
सर्वात्मने विजितकोपमनोभवाय तुभ्यं नमस् त्रिबुवनप्रभवे शिवाय ॥
सत्यं न वेद्मि किम् अहं यद् अगोचरो ऽसि वाचस्पतेर् अपि गिराम् किम् उतास्मदादेः ।
भक्तिस् तथापि भवतो गुणकीर्तनेषु यन् मां नियोजयति किं तद् अहं करोमि ॥
खार्केन्दुवह्निमरुदात्ममहीपयोभिर् अष्टभिर् एव तनुभिर् भवता समस्ते ।
व्याप्ते जगत्य् अपरम् इच्छति यो ऽत्र वक्तुम् को ऽन्यो हतत्रपतया सदृशो ऽस्ति तेन ॥
धृत्यादिभिः स्वतनुवृत्तिभिर् एव यद्वद् एको भवान् वहति सम्प्रति लोकयात्राम् ।
तद्वद् विभो यदि जगत्य् अपरो ऽस्ति कश्चिन् निर्मत्सराः किम् अपि न प्रवदन्ति सन्तः ॥
योगाद् अपास्ततम्सो भुवनत्रये ऽपि मुख्याः पितामहपुरन्दरविष्णवो ऽपि ।
अद्यापि देव न विदन्ति कृतप्रयत्नास् तत्त्वं तवेति तद् अहो महद् इन्द्रजालम् ॥
भावोद्भवस्थितिविपत्करणप्रवृत्तौ संज्ञा विभिन्नरचनास् त्वयि सम्भवन्ति ।
साम्ये स्थितः प्रतिनिवृत्तसमस्तकार्यो नेन्द्रो न विष्णुर् असि नापि पितामहो ऽसि ॥
केचिद् भवन्तम् अनुपाधिम् अनामरूपम् विज्ञानम् एव परमार्थतया प्रपन्नाः ।
अन्ये त्रिधातुपरिकल्पनया विशुद्धम् ऊचुः स्वशास्त्रसमयं परिपालयन्तः ॥
सांख्यैः समस्तजगदुद्भवकारणानि प्रोक्तानि यानि खलु सत्त्वरजस्तमांसि ।
रूपाणि तान्य् अपि तवैव समग्रशक्तेः किं नात्र यत् परिगतं भुवि शक्तिभिस् ते ॥
नित्यं विनाशिपदरूपम् अनेकम् एकम् उग्रं प्रशान्तम् अगुणं गुणसंनिबद्धम् ।
संसारिणं वशिनम् अधुर्वम् अस्वतन्त्रम् एवं भवन्तम् असकृत् कवयः स्तुवन्ति ॥
वाचाम् अतीतविषयो निरुपाख्यभावात् प्रोक्तो ऽसि शून्यम् इति कैश्चिद् असत्प्रतिज्ञैः ।
त्वाम् एव केचिद् अपि वाचकवाच्ययोगात् सन्तं विशेषणवशात् परिकल्पयन्ति ॥
आद्यन्तयोस् त्रिबुवनस्य भवन्तम् एव यं वैदिकाः पुरुषम् आहुर् अभेदम् आद्यम् ।
भूयस् तम् एव जननप्रलयान्तराले संसारजालम् इति जातविकारम् ऊचुः ॥
आत्मानम् आत्मनि यदा स्वयम् आत्मनैव संयम्य तिष्ठसि निमीलितसर्वशक्ते ।
लीनं तदा त्वयि जगत् खलु तावद् आस्ते यावत् तवोद्भवति नाथ पुनः सिसृक्षा ॥
त्वत्तः परं जगति नाथ न चास्ति किंचिन् नाणुः क्वचिन् न च महान् भवतः सकाशात् ।
सर्वात्मको ऽसि भवतैव समस्तम् एतद् अन्तःकृतं ननु जगन् मणिनेव सूत्रम् ॥
चेतांसि यानि सुखदुःखविशेषभाञ्जि ये च प्रधानपरिणामविकारभेदाः ।
त्वं देव जन्मनि पुनः प्रलये च तेषाम् हेतुः समस्तपयसाम् इव तोयराशिः ॥
अस्तास् त्वया सुरगुरो स्वतनु यदैव खात्मानलानिलजलावनिचन्द्रसूर्याः ।
लोके परस्य भवता ननु कारणस्य मूले तदैव निहितः सकले कुठारः ॥
स्तौति प्रसह्य तव षोडशधा विभज्य मूर्तिं प्रमाणरचनो मुनिर् अक्षपादः ।
द्रव्यादिवस्तुरचनाभिर् उपात्तभेदे वैशेषिके कणभुजापि ननु स्तुतो ऽसि ॥
बध्नाति काचिद् अपि शक्तिर् अनन्तशक्तेर् क्षेत्रज्ञम् अप्रतिहता भवपाशजालैः ।
ज्ञानासिना च विनिकृत्य गुणान् अशेषान् अन्या करोत्य् अभिमुखं पुरुषं विमुक्तौ ॥
एकां बत च्युतसमस्तभवप्रवृत्तिम् आहुर् विमुक्तिम् इति शान्ततमाम् अवस्थाम् ।
स्थित्युद्भवप्रलयिनीम् अपराम् अवस्थाम् संसारिणीम् इति वदन्ति तवैव सन्तः ॥
अज्ञानतीव्रतिमिरोपहतप्रकाशास् त्वद्दूषणं प्रति विनष्टधियो ऽपि सन्तः ।
तावत् त्यजन्ति न भवं भगवंस् त्वयैव यावत् स्वशक्तिकिरणैर् न विबोधिताः स्युः ॥
गुह्यं गुहाश्रयम् अजम् परमं पवित्रम् एकं विभुं सकलवाङ्मयबीजम् आद्यम् ।
सम्यक् प्रयुक्तम् अभिवाञ्छितह्तुभूतम् आहुर् भवन्तम् अपरे ननु शब्दतत्त्वम् ॥
मूल पाठ: Bhagavadbhaktistotra · Edition: Raniero Gnoli Miscellanea Indica East and West 9.3 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0