भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता (टीका सहित) · अध्याय 4

4.1

इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-
शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये
तृतीयो ऽध्यायः
॥3॥
भ्ग् 4
अथ चतुर्थो ऽध्यायः
(शङ्कर-भाष्यः)
यो ऽयं योगो ऽध्याय-द्वयेनोक्तो ज्ञान-निष्ठा-लक्षणः स सन्न्यासः कर्म-योगोपायः । यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च गीतासु च सर्वास्व् अयम् एव योगो विवक्षितो भगवता । अतएव परिसमाप्तः प्रवृत्तिं वेदार्थं मन्वानस् तं वंश-कथनेन स्तौति श्री-भगवान् ।
श्री-भगवान् उवाच
इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत्

4.1

इमम् अध्याय-द्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहम् । जगत्-परिपालयितॄणां क्षत्रियाणां बलाधानाय । तेन योग-बलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुं, ब्रह्म-क्षत्रे परिपालिते जगत् परिपालयितुम् अलम् । अव्ययम् अव्यय-फलत्वात् । न ह्य् अस्य सम्यग् दर्शन-निष्ठा-लक्षणस्य मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुर् इक्ष्वाकवे स्व-पुत्रायादिराजायाब्रवीत्

4.2

==============================
एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप

4.2

एवं क्षत्रिय-परम्परा-प्राप्तम् इमं राजर्षयो राजानश् च ते ऋषयश् च राजर्षयो विदुर् इमं योगम् । स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्न-सम्प्रदायः संवृत्तो हे परन्तप ! आत्मनो विपक्ष-भूताः पर उच्यन्ते तान् शौर्य-तेजो-गभस्तिभिर् भानुर् इव तापयतीति परन्तपः शत्रु-तापन इत्य् अर्थः

4.3

==============================
दुर्लभान् अजितेन्द्रियान् प्राप्य नष्टं योगम् इमम् उपलभ्य लोकं चापुरुषार्थ-सम्बन्धिनम् -
स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः ।
भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम्

4.3

स एवायम् मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः । भक्तो ऽसि मे सखा चासीति । रहस्यं हि यस्माद् एतद् उत्तमं योगो ज्ञानम् इत्य् अर्थः

4.4

==============================
भगवता विप्रतिषिद्धम् उक्तम् इति मा भूत् कस्यचिद् बुद्धिर् इति परिहारार्थं चोद्यम् इव कुर्वन्न् अर्जुन उवाच -
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति

4.4

अपरम् अर्वाग् वसुदेव-गृहे भवतो जन्म परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वत आदित्यस्य । तत् कथम् एतद् विजानीयाम् अविरुद्धार्थतया यस् त्वम् एवादौ प्रोक्तवान् इमं योगम् । स एव त्वम् इदानीं मह्यं प्रोक्तवान् असीति

4.5

==============================
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन् श्री-भगवान् उवाच पदर्थो ह्य् अर्जुनस्य प्रश्नः -
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप

4.5

बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन तान्य् अहं वेद जाने सर्वाणि न त्वं वेत्थ जानीषे । धर्माधर्मादि-प्रतिबद्ध-ज्ञान-शक्तित्वात् । अहं पुनर् नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावत्वाद् अनावरण-ज्ञान-शक्तिर् इति वेदाहम् । हे परन्तप

4.6

==============================
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावे ऽपि जन्म ? इत्य् उच्यते -
अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् ।
प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया

4.6

अजो ऽपि जन्म-रहितो ऽपि सन्, तथाव्ययात्माक्षीण-ज्ञान-शक्ति-स्वभावो ऽपि सन्, तथा भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वर ईशन-शीलो ऽपि सन् । प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वम् इदं जगद् वर्तते । यया मोहितं जगत् सत् स्वम् आत्मानं वासुदेवं न जानाति । तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य संभवामि देहवान् इव भवामि जात इवात्म-माययात्मनो मायया, न परमार्थतो लोकवत्

4.7

==============================
तच् च जन्म कदा किम्-अर्थं च ? इत्य् उच्यते -
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम्

4.7

यदा यदा हि धर्मस्य ग्लानिर् हानिर् वर्णाश्रमादि-लक्षणस्य प्राणिनाम् अभ्युदय-निःश्रेयस-साधनस्य भवति । भारत ! अभ्युत्थानम् उद्भवो ऽधर्मस्य तदात्मानं सृजाम्य् अहं मायया

4.8

==============================
किम्-अर्थम् ?
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म-संस्थापनार्थाय संभवामि युगे युगे

4.8

परित्राणाय परिरक्षणाय साधूनां सन्-मार्ग-स्थानाम् । विनाशाय च दुष्कृतां पाप-कारिणाम् । किं च धर्म-संस्थापनार्थाय धर्मस्य सम्यक्-स्थापनं तद्-अर्थं सम्भवामि । युगे युगे प्रतियुगम्

4.9

==============================
जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन

4.9

तज्-जन्म माया-रूपं, कर्म च साधु-परित्राणादि, मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यो वेत्ति तत्त्वतस् तत्त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर् जन्म पुनर् उत्पत्तिं नैति न प्राप्नोति, माम् एत्य् आगच्छति, स मुच्यते हे ऽर्जुन

4.10

==============================
नैष मोक्ष-मार्ग इदानीं प्रवृत्तः । किं तर्हि ? पूर्वम् अपि -
वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः ।
बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः

4.10

वीत-राग-भय-क्रोधाः - रागश् च भयं च क्रोधश् च राग-भय-क्रोधाः, वीता विगता राग-भय-क्रोधा येभ्यस् ते वीत-राग-भय-क्रोधाः । मन्-मया ब्रह्म-विद ईश्वराभेद-दर्शिनः । माम् एव परमेश्वरम् उपाश्रिताः । केवल-ज्ञान-निष्ठा इत्य् अर्थः । बहवो ऽनेके ज्ञान-तपसा ज्ञानम् एव च परमात्म-विषयं तपः । तेन ज्ञान-तपसा । पूताः परां शुद्धिं गताः सन्तः । मद्-भावम् ईश्वर-भावं मोक्षम् आगताः समनुप्राप्ताः । इतर-तपो-निरपेक्षा ज्ञान-निष्ठा इत्य् अस्य लिङ्गं ज्ञान-तपसेति विशेषणम्

4.11

==============================
तव तर्हि राग-द्वेषौ स्तः । येन केभ्यश्चित् एवात्म-भावं प्रयच्छसि, न सर्वेभ्यः । इत्य् उच्यते -
ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

4.11

ये यथा येन प्रकारेण येन प्रयोजनेन यत्-फलार्थितया मां प्रपद्यन्ते तांस् तथैव तत्-फल-दानेन भजाम्य् अनुगृह्णाम्य् अहम् इत्य् एतत् । तेषां मोक्षं प्रत्यनर्थित्वात् । न ह्य् एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति । अतो ये यत्-फलार्थिनस् तांस् तत्-फल-प्रदानेन, ये यथोक्त-कारिणस् त्व् अफलार्थिनो मुमुक्षवश् च तान् ज्ञान-प्रदानेन । ये ज्ञानिनः सन्न्यासिनो मुमुक्षवश् च तान् मोक्ष-प्रदानेन, तथार्तानार्ति-हरणेन इत्य् एवं यथा प्रपद्यन्ते ये तांस् तथैव भजामीत्य् अर्थः । न पुनार् राग-द्वेष-निमित्तं मोह-निमित्तं वा कंचिद् भजामि । सर्वथापि सर्वावस्थस्य ममेश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः । यत्-फलार्थितया यस्मिन् कर्मण्य् अधिकृता ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते हे पार्थ सर्वशः सर्व-प्रकारैः

4.12

==============================
यदि तवेश्वरस्य रागादि-दोषाभावात् सर्व-प्राणिष्व् अनुजिघृक्षायां तुल्यायां सर्व-फल-प्रदान-समर्थे च त्वयि सति वासुदेवः सर्वं [गीता 7.19] इति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात् त्वाम् एव सर्वे न प्रतिपद्यन्ते ? इति शृणु तत्र कारणम् -
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा

4.12

काङ्क्षन्तो ऽभीप्सन्तः कर्मणां सिद्धिं फल-निष्पत्तिं प्रार्थयन्तो यजन्त इहास्मिन् लोके देवता इन्द्राद्ग्न्य्-आद्याः । अथ यो ऽन्यां देवताम् उपास्ते ऽन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद, यथा पशुः । एवं स देवानाम् [बौ 1.4.10] इति श्रुतेः । तेषां हि भिन्न-देवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान् मानुषे लोके । मनुष्य-लोके हि शास्त्राधिकारः । क्षिप्रं हि मानुषे लोके इति विशेषणात् । अन्येष्व् अपि कर्म-फल-सिद्धिं दर्शयति भगवान् । मानुषे लोके वर्णाश्रमादि-कर्माधिकार इति विशेषः । तेषां च वर्णाश्रमाधिकारिणां कर्मिणां फल-सिद्धिः क्षिप्रं भवति कर्मजा कर्मणो जाता

4.13

==============================
मानुष एव लोके वर्णाश्रमादि-कर्माधिकारः । नान्येषु लोकेष्व् इति नियमः किं-निमित्तः ? इति । अथवा वर्णाश्रमादि-प्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वश [गीता 4.11] इत्य् उक्तं कस्मात् पुनः कारणान् नियमेन तवैव वर्त्मानुवर्तन्ते, नान्यस्य किम् ? उच्यते -
चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः ।
तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम्

4.13

चातुर्वर्ण्यं चत्वार एव वर्णाश् चातुर्वर्ण्यं मयेश्वरेण सृष्टम् उत्पादितं ब्राह्मणो ऽस्य मुखम् आसीत् [ऋक् 8.4.19.2, यजुः 32.11] इत्य् आदि श्रुतेः । गुण-कर्म-विभागशो गुण-विभागशः कर्म-विभागशश् च । गुणाः सत्त्व-रजस्-तमांसि । तत्र सात्त्विकस्य सत्त्व-प्रधानस्य ब्राह्मणस्य शमो दमस् तपः [गीता 18.42] इत्य् आदीनि कर्माणि । सत्त्वोप-सर्जन-रजः-प्रधानस्य क्षत्रियस्य शौर्य-तेजः-प्रभृतीनि कर्माणि । तम-उपसर्जन-रजः-प्रधानस्य वैश्यस्य कृष्य्-आदीनि कर्माणि । रज-उपसर्जन-तमः-प्रधानस्य शूद्रस्य शुश्रूषैव कर्म । इत्य् एवं गुण-कर्म-विभागशश् चातुर्गुण्यं मया सृष्टम् इत्य् अर्थः । तच् चेदं चातुर्वर्ण्यं नान्येषु लोकेषु । अतो मानुषे लोके इति विशेषणम् । हन्त तर्हि चातुर्वर्ण्य-सर्गादेः कर्मणः कर्तृत्वात्
तत्-फलेन युज्यसे ऽतो न त्वं नित्य-मुक्तो नित्येश्वरश् चेति । उच्यते - यद्यपि माया-संव्यवहारेण तस्य कर्मणः कर्तारम् अपि सन्तं मां परमार्थतो विद्ध्य् अकर्तारं, अतएवाव्ययम् असंसारिणं च मां विद्धि

4.14

==============================
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतस् तेषाम् अकर्तैवाहम् । यतो -
न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते

4.14

न मां तानि कर्माणि लिम्पन्ति देहाद्य्-आरम्भकत्वेनाहङ्काराभावात् । न च तेषां कर्मणां फले मे मम स्पृहा तृष्णा । येषां तु संसारिणाम् अहं कर्तेत्य् आभिमानः कर्मसु स्पृहा तत्-फलेषु च तान् कर्माणि लिम्पन्तीति युक्तम् । तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं यो ऽन्ये ऽपि माम् आत्मत्वेनाभिजानाति नाहं कर्ता न मे कर्म-फले स्पृहेति न कर्मभिर् न बध्यते । तस्यापि न देहाद्य्-आरम्भकानि कर्माणि भवन्तीत्य् अर्थः

4.15

==============================
नाहं कर्ता, न मे कर्म-फले स्पृहेति -
एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्

4.15

एवं ज्ञात्वा कृतम् कर्म पूर्वैर् अप्य् अतिक्रान्तैर् मुमुक्षुभिः । कुरु तेन कर्मैव त्वम् । न तुष्णीम् आसनं नापि संन्यासः कर्तव्यः । तस्मात् त्वत्-पूर्वैर् अप्य् अनुष्ठितत्वाद् यद्य् अनात्मज्ञस् त्वं तद् आत्म-शुद्ध्य्-अर्थम् । तत्त्वविच् चेत् लोक-संग्रहार्थम् । पूर्वे जनकादिभिः पूर्वतरं कृतम् । नाधुनातन-कृतं निवर्तितम्

4.16

==============================
तत्र कर्म चेत् कर्तव्यं त्वद्-वचनाद् एव करोम्य् अहम् । किं विशेषितेन ? पूर्वैः पूर्वतरं कृतम् [गीता 4.15] इति । उच्यते -- यस्मान् महद् वैषम्यं कर्मणि । कथम् ?
किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः ।
तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात्

4.16

किं कर्म किम् चाकर्मेति कवयो मेधाविनो ऽप्य् अत्रास्मिन् कर्मादि-विषये मोहिता मोहं गताः । अतस् ते तुभ्यम् अहं कर्माकर्म च प्रवक्ष्यामि यज् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे ऽशुभात् संसारात्

4.17

==============================
न चैतत् त्वया मन्तव्यं, कर्म नाम देहादि-चेष्टा लोक-प्रसिद्धं, अकर्म नाम तद्-अक्रिया तूष्णीम् आसनम् । किं तत्र बोद्धव्यम् ? इति । कस्मात् ? उच्यते -
कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः

4.17

कर्मणः शास्त्र-विहितस्य हि यस्माद् अप्य् अस्ति बोद्धव्यम् । बोद्धव्यम् चास्त्य् एव विकर्मणः प्रतिषिद्धस्य । तथाकर्मणश् च तूष्णीम्भावस्य बोद्धव्यम् अस्तीति त्रिष्व् अप्य् अध्याहारः कर्तव्यः । यस्माद् गहना विषमा दुर्ज्ञाना कर्मण इत्य् उपलक्षणार्थं कर्मादीनां कर्माकर्म-विकर्मणां गतिर् याथात्म्यं तत्त्वम् इत्य् अर्थः

4.18

==============================
किं पुनस् तत्त्वं कर्मादेर् यद् बोद्धव्यम् वक्ष्यामीति प्रतिज्ञातम् ? उच्यते --
कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत्

4.18

कर्मणि । कर्म क्रियत इति कर्म व्यापार-मात्रं, तस्मिन् कर्मण्य् अकर्म कर्माभावं यः पश्येत् । अकर्मणि च कर्माभावे कर्तृ-तन्त्रत्वात् प्रवृत्ति-निवृत्त्योर् वस्त्व् अप्राप्यैव हि सर्व एव क्रियाकारकादि-व्यवहारो ऽविद्याभूमाव् एव कर्म यः पश्येत् पश्यति । स बुद्धिमान् मनुष्येषु, स युक्तो योगी च कृत्स्न-कर्म-कृत् समस्त-कर्म-कृच् च स इति स्तूयते कर्माकर्मणोर् इतरेतर-दर्शी ।
ननु किम् इदं विरुद्धम् उच्यते कर्मण्य् अकर्म यः पश्येद् इति । अकर्मणि च कर्म इति । न हि कर्माकर्म स्याद् अकर्म वा कर्म, तत्र विरुद्धं कथं पश्येद् द्रष्टा ? न । अकर्मैव परमार्थतः सत्-कर्मवद् अवभासते मूढ-दृष्टेर् लोकस्य, तथा कर्मैवाकर्मवत् । तत्र यथाभूत-दर्शनार्थम् आह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि । अतो न विरुद्धम् बुद्धिमत्त्वाद्य्-उपपत्तेश् च । बोद्धव्यम् इति च यथाभूत-दर्शनम् उच्यते । न च विपरीत-ज्ञानाद् अशुभान् मोक्षणं स्यात् यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [गीता 4.16] इति चोक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिस् तद्-विपर्यय-ग्रहण-निवृत्त्य्-अर्थं भगवतो वचनं कर्मण्य् अकर्म यः इत्य् आदि ।
न चात्र कर्माधिकरण-कर्मास्ति, कुण्डे बदराणीव । नाप्य् अकर्माधिकरणं कर्मास्ति कर्माभावत्वाद् अकर्मणः । अतो विपरीत-गृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायाम् उदकं शुक्तिकायां वा रजतम् ।
ननु कर्म कर्मैव सर्वेषां न क्वचिद् व्यभिचरति । तन् न नौ-स्थस्य नावि गच्छन्त्यां तटस्थेस्व् अगतिषु नगेषु प्रतिकूल-गति-दर्शनात् । दूरेषु चक्षुषासन्निकृष्टेषु गच्छत्सु गत्य्-अभाव-दर्शनात् । एवम् इहाप्य् अकर्मण्य् अहं करोमीति कर्म-दर्शनं कर्मणि चाकर्म-दर्शनं विपरीत-दर्शनं येन, तन्-निराकरणार्थम् उच्यते कर्मण्य् अकर्म यः पश्येत् इत्य् आदि ।
तद् एतद् उक्त-प्रतिवचनम् अप्य् असकृद् अत्यन्त-विपरीत-दर्शन-भाविततया मोमुह्यमानो लोकः श्रुतम् अप्य् असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्या-प्रसङ्गम् अवतार्यावतार्य चोदयतीति पुनः पुनर् उत्तरम् आह भगवान् । दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः । अव्यक्तो ऽयम् अचिन्त्यो ऽयं [गीता 2.25], न जायते म्रियते [गीता 2.27] इत्य् आदिनात्मनि कर्माभावः श्रुति-स्मृति-न्याय-प्रसिद्ध उक्तो वक्ष्यमाणश् च । तस्मिन्न् आत्मनि कर्माभावे ऽकर्मणि कर्म-विपरीत-दर्शनम् अत्यन्त-निरूढम् । यतः किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः [गीता 4.16] देहाद्य्-आश्रयं कर्मात्मन्य् अध्यारोप्य । अहं कर्ता ममैतत् कर्म, मयास्य कर्मणः फलं भोक्तव्यम् इति च । तथा अहं तूष्णीं भवामि, येनाहं निरायासो ऽकर्मा सुखी स्याम् इति कार्य-करणाश्रय-व्यापारोपरमं तत्-कृतं
चसुखित्वम् आत्मन्य् अध्यारोप्य न करोमि किंचित् तूष्णीं सुखम् आसम् इत्य् अभिमन्यते लोकः । तत्रेदं लोकस्य विपरीत-दर्शनापनयनायाह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि ।
अत्र च कर्म कर्मैव सत् कार्य-करणाश्रयं कर्म-रहितो ऽविक्रिय आत्मनि सर्वैर् अध्यस्तम् । यतः पण्डितो ऽप्य् अहं करोमीति मन्यते । अथ आत्म-समवेततया सर्व-लोक-प्रसिद्धे कर्मणि नदी-कुल-स्थेष्व् इव गतिः प्रतिलौम्येन । अतो ऽकर्म कर्माभावं यथा-भूतं गत्य्-अभावम् इव वृक्षेषु यः पश्येत् । अकर्मणि च कार्य-करण-व्यापारोपरमे कर्मवद् आत्मन्य् अध्यारोपिते तूष्णीम् अकुर्वन् सुखम् आसे इत्य् अहङ्काराभिसन्धि-हेतुत्वात् तस्मिन्न् अकर्मणि च कर्म यः पश्येत् । य एवं कर्माकर्म-विभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु । स युक्तो योगी कृत्स्न-कर्म-कृच् च । सो ऽशुभान् मोक्षितः कृत-कृत्यो भवतीत्य् अर्थः ।
अयं श्लोको ऽन्यथा व्याख्यातः कैश्चित् । कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे ऽनुष्ठीयमानानां तत्-फलाभावाद् अकर्माणि तान्य् उच्यन्ते गौण्या वृत्त्या । तेषां चाकरणम् अकर्म । तच् च प्रत्यवाय-फलत्वात् कर्मोच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मण्य् अकर्म यः पश्येत् फलाभावात् । यथा धेनुर् अपि गौर् अगौर् उच्यते क्षीराख्यं फलं न प्रयच्छतीति तद्वत् । तथा नित्याकरणे त्व् अकर्मणि कर्मः आश्येन् नरकादि-प्रत्यवाय-फलं प्रयच्छतीति । नैतद् युक्तं व्याख्यानम् । एवं-ज्ञानाद् अशुभान् मोक्षानुपपत्तेः । यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [गीता 4.16] इति भगवतोक्तं वचनं बोध्येत । कथम् ? नित्यानाम् अनुष्ठानाद् अशुभात् स्यान् नाम मोक्षणम् । न तु तेषां फलाभाव-ज्ञानात् । न हि नित्यानां फलाभाव-ज्ञानम् अशुभ-मुक्ति-फलत्वेन
चोदितं नित्य-कर्म-ज्ञानं वा । न च भगवतिवेहोक्तम् ।
एतेनाकर्मणि कर्म-दर्शनं प्रत्युक्तम् । न ह्य् अकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते, नित्यस्य तु कर्तव्यता-मात्रम् । न चाकरणान् नित्यस्य प्रत्यवायो भवतीति विज्ञानात् किंचित् फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि कर्माकर्मेति मिथा-दर्शनाद् अशुभान् मोक्षणम् । बुद्धिमत्त्वं, युक्तता, कृत्स्न-कर्म-कृत्त्वादि च फलम् उपपद्यते स्तुतिर् वा । मिथ्या-ज्ञानम् एव हि साक्षाद् अशुभ-रूपं कुतो ऽन्यस्माद् अशुभान् मोक्षणम् ? न हि तमस् तमसो निवर्तकं भवति ।
ननु कर्मणि यद् अकर्म-दर्शनम् अकर्मणि वा कर्म-दर्शनं, न तन्-मिथ्या-ज्ञानम् । किं तर्हि गौणं फल-भावाभाव-निमित्तम् ? न, कर्माकर्म-विज्ञानाद् अपि गौणात् फलस्याश्रवणात् । नापि श्रुत-हान्य-श्रुत-परिकल्पनया कश्चिद् विशेषो लभ्यते । स्व-शब्देनापि शक्यं वक्तुं नित्य-कर्मणां फलं नास्त्य् अकरणाच् च तेषां नरक-पातः स्याद् इति । तत्र व्याजेन पर-व्यामोह-रूपेण कर्मण्य् अकर्म यः पश्येद् इत्य् आदिना किम् ? तत्रैव व्याचक्षाणेन भगवतोक्तं वाक्यं लोक-व्यामोहार्थम् इति व्यक्तं कल्पितं स्यात् । न चैतच् छद्म-रूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनर् उच्यमानं सुबोधं स्याद् इत्य् एवं वक्तुं युक्तम् । कर्मण्य् एवाधिकारस् ते [गीता 2.47] इत्य् अत्र हि स्फुटतर उक्तो ऽर्थो न पुनर् वक्तव्यो भवति । सर्वत्र च प्रशस्तं
बोद्धव्यं च कर्तव्यम् एव, न निष्प्रयोजनं बोद्धव्यम् इत्य् उच्यते ।

न च मिथ्या-ज्ञानं बोद्धव्यं भवति तत्-प्रत्युपस्थापितं वा वस्त्व्-आभासम् । नापि नित्यानाम् अकरणाद् अभावात् प्रयवाय-भावोत्पत्तिः । नासतो विद्यते भावो [गीता 2.16] इति वचनात् । तत्-कथम् असतः सज् जायते [छाउ 6.2.2] इति च दर्शितम् । असतः सज्-जन्म-प्रतिषेधाद् असतः सद्-उत्पत्तिं ब्रुवता ऽसद् एव सद् भवेत् । सच् चासद् भवेद् इत्य् उक्तं स्यात् । तच् चायुक्तं, सर्व-प्रमाण-विरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रं दुःख-स्वरूपत्वात् । दुःखस्य च बुद्धि-पूर्वकतया कार्यत्वानुपपत्तेः । तद्-अकरणे च नरक-पाताभ्युपगमे ऽनर्थायैव । उभयथापि करणे ऽकरणे च शास्त्रं निष्फलं कल्पितं स्यात् । स्वाभ्युपगम-विरोधश् च नित्यं निष्फलं कर्मेत्य् अभ्युपगम्य मोक्ष-फलायेति ब्रुवतः । तस्माद् यथा-श्रुत एवार्थः कर्मण्य् अकर्म य इत्य् आदेः । तथा च व्याख्यातो
ऽस्माभिः श्लोकः

4.19

==============================
तद् एतत् कर्मण्य् अकर्मादि-दर्शनं स्तूयते -
यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः ।
ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः

4.19

यस्य यथोक्त-दर्शिनः सर्वे यावन्तः समारम्भाः कर्माणि समारभ्यन्त इति समारम्भाः । काम-संकल्प-वर्जिताः कामैस्तत्-कारणैश् च सङ्कल्प-वर्जिता मुधैव चेष्टा-मात्रा अनुष्ठीयन्ते । प्रवृत्तेन चेल् लोक-सङ्ग्रहार्थं, निवृत्तेन चेज् जीवन-मात्रार्थं, तं ज्ञानाग्नि-दग्ध-कर्माणं कर्मादाव् अकर्मादि-दर्शनं ज्ञानं, तद् एवाग्निस् तेन ज्ञानाग्निना दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य । तम् आहुः परमार्थतः पण्डितं बुधाः ब्रह्म-विदः

4.20

==============================
यस् तु कर्मादाव् अकर्मादि-दर्शी सो ऽकर्मादि-दर्शनाद् एव निष्कर्मा सन्न्यासी जीवन-मात्रार्थ-चेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि प्राग्-विवेकतः प्रवृत्तः । यस् तु प्रारब्ध-कर्मा सन्न् उत्तर-कालम् उत्पन्नात्म-सम्यग्-दर्शनः स्यात्, स सर्व-कर्मणि प्रयोजनम् अपश्यन् स-साधनं कर्म परियजत्य् एव । स कुतश्चिन् निमित्तात् कर्म-परित्यागासम्भवे सति कर्मणि तत्-फले च सङ्ग-रहिततया स्व-प्रयोजनाभावाल् लोक-सङ्ग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तो ऽपि नैव किंचित् करोति ज्ञानाग्नि-दग्ध-कर्मत्वात् तदीयं कर्माकर्मैव सम्पद्यत इत्य् एतम् अर्थं दर्शयिष्यन्न् आह -
त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः ।
कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः

4.20

त्यक्त्वा कर्मस्व् अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्य-तृप्तो निराकाङ्क्षो विषयेष्व् इत्य् अर्थः । निराश्रय आश्रय-रहितः । आश्रयो नाम यद् आश्रित्य पुरुषार्थं सिसाधयिषति । दृष्टादृष्ट-फल-साधनाश्रय-रहित इत्य् अर्थः । विदुषा क्रियमाणं कर्म परमार्थतो ऽकर्मैव । तस्य निष्क्रियात्म-दर्शन-सम्पन्नत्वात् । तेनैवम्भूतेन स्व-प्रयोजनाभावात् स-साधनं कर्म परित्यक्तव्यम् एवेति प्राप्ते, ततो निर्गमासम्भवाल् लोक-सङ्ग्रह-चिकीर्षया शिष्ट-विगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मण्य्-अभिप्रवृत्तो ऽपि निष्क्र्यात्म-दर्शन-सम्पन्नत्वान् नैव किंचित् करोति सः

4.21

==============================
यः पुनः पूर्वोक्त-विपरीतः प्राग् एव कर्माम्भाद् ब्रह्मणि सर्वान्तरे प्रत्यग्-आत्मनि निष्क्रिये संजातात्म-दर्शनः, स दृष्टादृष्टेष्ट-विषयाशीर् विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनम् अप्यश्यन् स-साधनं कर्म संन्यस्य शरीर-यात्रा-मात्र-चेष्टो यतिर् ज्ञान-निष्ठो मुच्यत इति । एतद् अर्थं दर्शयितुम् आह-
निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः ।
शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम्

4.21

निराशीर् निर्गता आशिषो यस्मात् स निराशीः । यत-चित्तात्मा चित्तम् अन्तः-करणम् । आत्मा बाह्यः कार्य-करण-संघातः । ताव् उभाव् अपि यतौ संयतौ यस्य स यत-चित्तात्मा । त्यक्त-सर्व-परिग्रहः - त्यक्तः सर्वः परिग्रहो येन स त्यक्त-सर्व-परिग्रहः । शारीरं शरीर-स्थिति-मात्र-प्रयोजनं केवलं तत्रापि अभिमान-वर्जितं कर्म कुर्वन् । नाप्नोति न प्राप्नोति किल्बिषम् अनिष्ट-रूपं पापं धर्मं च । धर्मो ऽपि मुमुक्षोर् अनिष्ट-रूपं किल्बिषम् एव । बन्धापादकत्वात् । तस्मात् ताभ्यां मुक्तो भवति, संसारान् मुक्तो भवतीत्य् अर्थः ।
किं च शारीरं केवलं कर्मेत्य् अत्र किं शरीर-निर्वर्त्यं शारीरं कर्माभिप्रेतम् ? आहो स्विच् छरीर-स्थिति-मात्र-प्रयोजनं शारीरं कर्म ? इति । किं चातो यदि शरीर-निर्वर्त्यं शारीरं कर्म यदि वा शरीर-स्थिति-मात्र-प्रयोजनं शरीरम् ? इति । उच्यते -- यदा शरीर-निर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात् तदा दृष्टादृष्ट-प्रयोजनं कर्म प्रतिषिद्धम् अपि शरीरेण कुर्वन् नाप्नोति किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत । शास्त्रीयं च कर्म दृष्टादृष्ट-प्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्य् अपि ब्रुवतो ऽप्राप्त-प्रतिषेध-प्रसङ्गः । शारीरं कर्म कुर्वन् इति विशेषणात् केवल-शब्द-प्रयोगाच् च वाङ्-मनस-निर्वर्त्यं कर्म विधि-प्रतिषेध-विषयं धर्माधर्म-शब्द-वाच्यं कुर्वन् प्राप्नोति किल्बिषम् इत्य् उक्तं स्यात्
।
तत्रापि वाङ्-मनसाभ्यां विहितानुष्ठान-पक्षे किल्बिष-प्राप्ति-वचनं विरुद्धम् आपद्येत । प्रतिषिद्ध-सेवि-पक्षे ऽपि भूतार्थानुवाद-मात्रम् अनर्थकं स्यात् । यदा तु शरीर-स्थिति-मात्र-प्रयोजनं शारीरं कर्माभिप्रेतं भवेत्, तदा दृष्टादृष्ट-प्रयोजनं कर्म विधि-प्रतिषेध-गम्यं शरीर-वाङ्-मनस-निर्वर्त्यम् अन्यद् अक्रुवंस् तैर् एव शरीरादिभिः शरीर-स्थिति-मात्र-प्रयोजनं केवल-शब्द-प्रयोगात् अहं करोमि इत्य् अभिमान-वर्जितः शरीरादि-चेष्टा-मात्रं लोक-दृष्ट्या कुर्वन् नाप्नोति किल्बिषम् । एवम्भूतस्य पाप-शब्द-वाच्य-किल्बिष-प्राप्त्य्-असम्भवात् किल्बिषं संसारं नाप्नोति । ज्ञानाग्नि-दग्ध-सर्व-कर्मत्वाद् अप्रतिबन्धेन मुच्यते एवेति पूर्वोक्त-सम्यग्-दर्शन-फलानुवाद एवैषः । एवं शरीरं केवलं कर्म इत्य् अस्यार्थस्य परिग्रहे
निरवद्यं भवति

4.22

==============================
त्यक्त-सर्व-परिग्रहस्य यतेर् अन्नादेः शरीर-स्थिति-हेतोर्ः परिग्रहस्याभावाद् याचनादिना शरीर-स्थितौ कर्तव्यतायां प्राप्तायां अयाचितम् असंक् प्तम् उपपन्नं यदृच्छया [म्भ् 14.46.19; बौधयन-धर्म-सूत्र 21.8.12] इत्य् आदिना वचनेनानुज्ञातं यतेः शरीर-स्थिति-हेतोर् अन्नादेः प्राप्ति-द्वारम् आविष्कुर्वन्न् आह -
यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते

4.22

यदृच्छा-लाभ-सन्तुष्टः प्रार्थितोपनतो लाभो यदृच्छा-लाभः, तेन सन्तुष्टः संजातालं-प्रत्ययः । द्वन्द्वातीतो द्वन्द्वैः शीतोष्णादिभिर् हन्यमानो ऽप्य् अविषण्ण-चित्तो द्वन्द्वातीत उच्यते । विमत्सरो विगत-मत्सरो निर्वैर-बुद्धिः । समस् तुल्यो यदृच्छा-लाभस्य सिद्धाव् असिद्धौ च, य एवम्भूतो यतिर् अन्नादेः शरीर-स्थिति-हेतोर् लाभालाभयोः समो हर्ष-विषाद-वर्जितः, कर्मादाव् अकर्मादि-दर्शी, यथा-भूतात्म-दर्शन-निष्ठः सन् शरीर-स्थिति-मात्र-प्रयोजने भिक्षाटनादि-कर्मणि शरीरादि-निर्वर्त्ये नैव किंचित् करोमीति [गीता 5.8] गुणा गुणेषु वर्तन्त [गीता 3.28] इत्य् एवं सदा सम्परिचक्षाण आत्मनः कर्तृत्वाभावं पश्यन्न् एव किंचिद् भिक्षाटनादिकं कर्म करोति । लोक-व्यवहार-सामान्य-दर्शनेन तु लौकिकैर् आरोपित-कर्तृत्वे
भिक्षाटनादौ कर्मणि कर्ता भवति । स्वानुभवेन तु शास्त्र-प्रमाणादि-जनितेनाकर्त्रैव । स एवं पराध्यारोपित-कर्तृत्वं शरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते, बन्ध-हेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वाद् इत्य् उक्तानुवाद एवैषः

4.23

==============================
त्यक्त्वा कर्म-फलासङ्गं [गीता 4.20] इत्य् अनेन श्लोकेन यः प्रारब्ध-कर्मा सन् यदा निष्क्रिय-ब्रह्मात्म-दर्शन-सम्पन्नः स्यात् तदा तस्यात्मनः कर्तृ-कर्म-प्रयोजनाभाव-दर्शिनः कर्म-परित्यागे प्राप्ते कुतश्चिन् निमित्तात् तद्-असम्भवे सति पूर्ववत् तस्मिन् कर्मण्य् अभिप्रवृत्तस्यापि नैव किंचित् करोति स [गीता 4.20] इतिकर्माभावः प्रदर्शितः । यस्यैवं कर्माभावो दर्शितस् तस्यैव -
गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते

4.23

गत-सङ्गस्य सर्वतो निवृत्तासक्तेर् मुक्तस्य निवृत्त-धर्माधर्मादि-बन्धनस्य, ज्ञानावस्थित-चेतसो ज्ञान एवावस्थितं चेतो यस्य सो ऽयं ज्ञानावस्थित-चेताः । तस्य यज्ञाय यज्ञ-निर्वृत्त्य्-अर्थम् आचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण फलेन वर्तत इति समग्रं कर्म तत्-समग्रं प्रविलीयते विनश्यतीत्य् अर्थः

4.24

==============================
कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम् अकुर्वत् समग्रं प्रविलीयत इत्य् उच्यते ? यतः -
ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना

4.24

ब्रह्मार्पणं येन करणेन ब्रह्मविद् हविर् अग्नाव् अर्पयति । तद् ब्रह्मैवेति पश्यति तस्यात्म-व्यतिरेकेणाभावं पश्यति । यथा शुक्तिकायां रजताभावं पश्यति तद् उच्यते ब्रह्मैवार्पणम् इति । यथा यद् रजतं तच् छुक्तिकैवेति । ब्रह्म अर्पणम् इत्य् असमस्ते पदे यद्-अर्पण-बुद्ध्या गृह्यते लोके तद् अस्य ब्रह्म-विदो ब्रह्मैवेत्य् अर्थः ।
ब्रह्म हविस् तथा यद् धविर् बुद्ध्या गृह्यमाणं तद् ब्रह्मैवासय् । तथा ब्रह्माग्नौ इति समस्तं पदम् । अग्निर् अपि ब्रह्मैव । यत्र हूयते ब्रह्मणा कर्त्रा ब्रह्मैव कर्तेत्य् अर्थः । यत् तेन हुतं हवन-क्रिया तद् ब्रह्मैव । यत् तेन गन्तव्यं फलं तद् अपि ब्रह्मैव । ब्रह्म-कर्म-समाधिना ब्रह्मैव कर्म ब्रह्म-कर्म तस्मिन् समाधिर् यस्य स ब्रह्म-कर्म-समाधिस् तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम् ।
एवं लोक-सङ्ग्रहं चिकीर्षुणापि क्रियमाणं करम्, परमार्थतो ऽकर्म ब्रह्म-बुद्ध्य्-उपमृदित्वात् । एवं सति निवृत्त-कर्मणो ऽपि सर्व-कर्म-सन्न्यासिनः सम्यग्-दर्शन-स्तुत्य्-अर्थं यज्ञत्व-सम्पादनं ज्ञानस्य सुतराम् उपपद्यते । यद्-अर्पणाद्य्-अधियज्ञे प्रसिद्धं तद् अस्याध्यात्मं ब्रह्मैव परमार्थ-दर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । तस्माद् ब्रह्मैवेदं सर्वम् इत्य् अभिजानतो विदुषः सर्व-कर्माभावः ।
कारक-बुद्ध्य्-अभावाच् च । नहि कारक-बुद्धि-रहितं यज्ञाख्यं कर्म दृष्टम् । सर्वम् एवाग्नि-होत्रादिकं कर्म शब्द-समर्पित-देवता-विशेष-सम्प्रदानादि-कारक-बुद्धिमत्-कर्त्र्-अभिमान-फलाभिसन्धिमच् च दृष्टम् । नोपमृदित-क्रियाकारक-फल-भेद-बुद्धिमत् कर्तृत्वाभिमान-फलाभिसन्धि-रहितं वा । इदं तु ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धि कर्मातो ऽकर्मैव तत् ।
तथा च दर्शितं कर्मण्य् अकर्म यः पश्येत् [गीता 4.18], कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः [गीता 4.20], गुणा गुणेषु वर्तन्ते [गीता 3.28], नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित् [गीता 5.8] इत्य् आदिभिः । तथा च दर्शयंस् तत्र तत्र क्रिया-कारक-फल-भेद-बुद्ध्य्-उपमर्दं करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादि-हानिः । तथा मति-पूर्वकाम् अतिपूर्वकादीनां कर्मणां कार्य-विशेषस्यारम्भकत्वं दृष्टम् । तथेहापि ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धेर् बाह्य-चेष्टा-मात्रेण कर्मापि विदुषो ऽकर्म सम्पद्यते । अत उक्तं समग्रं प्रविलीयते [गीता 4.23] इति ।
अत्र केचिद् आहुः - यद् ब्रह्म तद् अर्पणादीनि । ब्रह्मैव किलार्पणादिना पञ्च-विधेन कारकात्मना व्यवस्थितं सत् तद् एव कर्म करोति । तत्र नार्पणादि-बुद्धिर् निवर्त्यते । किन्त्व् अर्पणादिषु ब्रह्म-बुद्धिर् आधीयते । यथा प्रतिमादौ विष्ण्व्-आदि-बुद्धिः, यथा वा नामादौ ब्रह्म-बुद्धिर् इति । सत्यम् एवम् अपि स्याद् यदि ज्ञान-यज्ञ-स्तुत्य्-अर्थं प्रकरणं न स्यात् । अत्र तु सम्यग्-दर्शनं ज्ञान-यज्ञ-शब्दितम् अनेकान् यज्ञ-शब्दितान् क्रिया-विशेषान् उपन्यस्य श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [गीता 4.33] इति ज्ञानं स्तौति । अत्र च समर्थम् इदं वचनं ब्रह्मार्पणम् इत्य् आदि ज्ञानस्य यज्ञत्व-सम्पादने, अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । ये त्व् अर्पणादिषु प्रतिमायां विष्णु-दृष्टिवद् ब्रह्म-दृष्टिः
क्षिप्यते । नामादिष्व् इव चेति ब्रुवते, न तेषां ब्रह्म-विद्योक्तेह विवक्षिता स्यात् । अर्पणादि-विषयत्वाज् ज्ञानस्य । न च दृष्टि-सम्पादन-ज्ञानेन मोक्ष-फलं प्राप्यते । ब्रह्मैव तेन गन्तव्यम् इति चोच्यते ।
विरुद्धं च सम्यग्-दर्शनम् अन्तरेण मोक्ष-फलं प्राप्यत इति । प्रकृति-विरोधश् च । सम्यग्-दर्शनं च प्रकृतं कर्मण्य् अकर्म यः पश्येत् [गीता 4.18] इत्य् अत्रान्ते च सम्यग्-दर्शनं तस्यैवोपसंहारात् । श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [गीता 4.33] ज्ञानं लब्ध्वा परां शान्तिं [गीता 4.39] इत्य् आदिना सम्यग्-दर्शन-स्तुतिम् एव कुर्वन्न् उपक्षीणो ऽध्यायः । तत्राकस्माद् अर्पणादौ ब्रह्म-दृष्टिर् अप्रकरणे प्रतिमायाम् इव विष्णु-दृष्टिर् उच्यत इत्य् अनुपपन्नम् । तस्माद् यथा-व्याख्यातार्थ एवायं श्लोकः

4.25

==============================
तत्राधुना सम्यग्-दर्शनस्य यज्ञत्वं सम्पाद्य तत्-स्तुत्य्-अर्थम् अन्ये ऽपि यज्ञा उपक्षिप्यन्ते -
दैवम् एवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति

4.25

दैवम् एव देवा इज्यन्ते येन यज्ञेनासौ दैवो यज्ञस् तम् एवापरे यज्ञं योगिनः कर्मिणः पर्युपासते, कुर्वन्तीत्य् अर्थः । ब्रह्माग्नौ सत्यं ज्ञानम् अनन्तं ब्रह्म [तैत्तु 2.1] विज्ञानम् आनन्दं ब्रह्म [बौ 3.9.28], यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः [बौ 3.4.1], इत्य् आदि वचनोक्तम् अशनायापिपासादि-सर्व-संसार-धर्म-वर्जितं नेति नेति [बौ 4.4.22] इति निरस्ताशेष-विशेषं ब्रह्म-शब्देनोच्यते । ब्रह्म च तद्-अग्निश् च स होमाधिकरणत्व-विवक्षया ब्रह्माग्निस् तस्मिन् ब्रह्माग्नाव् अपरे ऽन्ये ब्रह्म-विदो यज्ञं यज्ञ-शब्द-वाच्य आत्मा आत्म-नामसु यज्ञ-शब्दस्य पाठात् [निरुक्ति 14.11] तम् आत्मानं यज्ञं परमार्थतः परम् एव ब्रह्म सन्तं बुद्ध्याद्य्-उपाधि-संयुक्तम् अध्यस्त-सर्वोपाधि-धर्मकम् आहुति-रूपं यज्णिनैवात्मनैवोक्त-लक्षणोपजुह्वति प्रक्षिपन्ति,
सोपाधिकस्यात्मनो निरुपाधिकेन पर-ब्रह्म-स्वरूपेणैव यद् दर्शनं, स तस्मिन् होमस् तं कुर्वन्ति, ब्रह्मात्मैकत्व-दर्शन-निष्ठाः सन्न्यासिन इत्य् अर्थः । सो ऽयं सम्यग्-दर्शन-लक्षणो यज्ञो दैव-यज्ञादिषु यज्ञेषूपक्षिप्यन्ते ब्रह्मार्पणम् इत्य् आद्-श्लोकैः प्रस्तुतः श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [गीता 4.33] इत्य् आदिना स्तुत्य्-अर्थम्

4.26

==============================
श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति

4.26

श्रोत्रादीनीन्द्रियाण्य् अन्ये योगिनः संयमाग्निषु प्रतीन्द्रियं संयमो भिद्यत इति बहु-वचनम् । संयमा एवाग्नयस् तेषु जुह्वति । इन्द्रिय-संयमम् एव कुर्वन्तीत्य् अर्थः । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति, इन्द्रियाण्य् एवाग्नयस् तेष्व् इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिर् अविरुद्ध-विषय-ग्रहणं होमं मन्यन्ते

4.27

==============================
किं च -
सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे ।
आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते

4.27

सर्वाणीन्द्रिय-कर्माणि इन्द्रियाणां कर्माणीन्द्रिय-कर्माणि । तथा प्राण-कर्माणि प्राणो वायुर् आध्यात्मिकस् तत्-कर्माण्य् आकुञ्चन-प्रसारणादीनि तानि चापर आत्म-संयम-योगाग्नौ, आत्मनि संयम आत्म-संयमः । स एव योगाग्निस् तस्मिन्न् आत्म-संयम-योगाग्नौ जुह्वति प्रक्षिपन्ति । ज्ञान-दीपिते स्नेहेनेव प्रदीपिते विवेक-विज्ञानेनोज्ज्वल-भावम् आपादिते प्रविलापयन्तीत्य् अर्थः

4.28

==============================
द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे ।
स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः

4.28

द्रव्य-यज्ञास् तीर्थेषु द्रव्य-विनियोगं यज्ञ-बुद्ध्या कुर्वन्ति ये ते द्रव्य-यज्ञाः । तपो-यज्ञास् तपो यज्ञो येषां तपस्विनां ते तपो-यज्ञाः । योग-यज्ञाः प्राणायाम-प्रत्याहारादि-लक्षणो योगो यज्ञो येषां ते योग-यज्ञाः । तथापरे स्वाध्याय-ज्ञान-यज्ञाश् च स्वाध्यायो यथा-विधि ऋग्-आद्य्-अभ्यासो यज्ञो येषां ते स्वाध्याय-यज्ञाः । ज्ञान-यज्ञा ज्ञानं शास्त्रार्थ-परिज्ञानं यज्ञो येषां ते ज्ञान-यज्ञाः । स्वाध्याय-यज्ञा ज्ञान-यज्ञाश् च यतयो यतन-शीलाः । शंसित-व्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशित-व्रताः

4.29

==============================
किं च -
अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे ।
प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः

4.29

अपाने ऽपान-वृत्तौ जुह्वति प्रतिक्षिपन्ति प्राणं प्राण-वृत्तिं, पूरकाख्यं प्राणायामं कुर्वन्तीत्य् अर्थः । प्राणे ऽपानं तथापरे जुह्वति । रेचकाख्यं च प्राणायामं कुर्वन्तीत्य् एतत् । प्राणापान-गती मुख्य-नासिकाभ्यां वायोर् निर्गमनं प्राणस्य गतिस् तद्-विपर्ययेणाधो-गमनम् अपानस्य गतिस्, ते प्राणापान-गती । एते रुद्ध्वा निरुध्य प्राणायाम-परायणाः प्राणायाम-तत्-पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्य् अर्थः

4.30

==============================
किं च -
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।
सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः

4.30

अपरे नियताहारा नियतः परिमित आहारो येषां ते नियताहाराः सन्तः, प्राणान् वायु-भेदान् प्राणेष्व् एव जुह्वति । यस्य यस्य वायोर् जयः क्रियत इतरान् वायु-भेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति । सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपितकल्मषा यज्ञैर् यथोक्तैः क्षपितो नाशितः कल्मषो येषां ते यज्ञ-क्षपित-कल्मषाः

4.31

==============================
एवं यथोक्तान् यज्ञान् निर्वत्र्य ---
यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् ।
नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम

4.31

यज्ञ-शिष्टामृत-भुजो यज्ञानां शिष्टं यज्ञ-शिष्टं यज्ञ-शिष्टं च तद् अमृतं च यज्ञ-शिष्टामृतं तद् भुञ्जत इति यज्ञ-शिष्टामृत-भुजः । यथोक्तान् यज्ञान् कृत्वा तच्-छिष्टेन कालेन यथा-विधि-चोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञ-शिष्टामृत-भुजो यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश् चेत् । कालातिक्रमापेक्षयेति सामर्थ्याद् गम्यते । नायं लोकः सर्व-प्राणि-साधारणो ऽप्य् अस्ति यथोक्तानां यज्ञानाम् एको ऽपि यज्ञो यस्य नास्ति सो ऽयज्ञस् तस्य । कुतो ऽन्यो विशिष्ट-साधन-साध्यः कुरु-सत्तम

4.32

==============================
एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे

4.32

एवं यथोक्ता बहु-विधा बहु-प्रकारा यज्ञा वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेण अवगम्यमाना ब्रह्मणो मुखे वितता उच्यन्ते । तद् यथा वाचि हि प्राणं जुहुमः इत्य् आदयः । कर्मजान् कायिक-वाचिक-मानस-कर्मोद्भवान् विद्धि तान् सर्वान् अनात्मजान्, निर्व्यापारो ह्य् आत्मा । अत एवं ज्ञात्वा विमोक्ष्यसे ऽशुभात् । न मद्-व्यापारा इमे, निर्व्यापारो ऽहम् उदासीन इत्य् एवं ज्ञात्वास्मात् सम्यग्-दर्शनान् मोक्ष्यसे संसार-बन्धनाद् इत्य् अर्थः

4.33

==============================
ब्रह्मार्पणम् [गीता 4.24] इत्य् आदि लोकेन सम्यग्-दर्शनस्य यज्ञत्वं संपादितम् । यज्ञाश् चानेक उपदिष्टाः । तैः सिद्ध-पुरुषार्थ-प्रयोजनैर् ज्ञानं स्तूयते । कथम् ? ---
श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते

4.33

श्रेयान् द्रव्य-मयात् द्रव्य-साधन-साध्याद् यज्ञाज् ज्ञान-यज्ञो हे परंतप । द्रव्य-मयो हि यज्ञः फलस्यारम्भकः, ज्ञान-यज्ञो न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः । कथम् ? यतः सर्वं कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्ष-साधने सर्वतः संप्लुतोदक-स्थानीये परिसमाप्यते अन्तर्भवतीत्य् अर्थः । यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंचित् प्रजाः साधु कुर्वन्ति यस् तद् वेद यत् स वेद [छाउ 4.1.4] इति श्रुतेः

4.34

==============================
तद् एतद् विशिष्टां ज्ञानं तर्हि केन प्राप्यत इत्य् उच्यते ---
तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः

4.34

तत् विद्धि विजानीहि येन विधिना प्राप्यते इति । आचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घ-नमस्कारस् तेन । कथं बन्धः ? कथं मोक्षः ? का विद्या ? का चाविद्या ? इति परिप्रश्नेन, सेवया गुरु-शुश्रूषया एवम् आदिना । प्रश्रयेणावर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्त-विशेषणं ज्ञानिनः । ज्ञानवन्तो ऽपि केचिद् यथावत् तत्त्व-दर्शन-शीलाः, अपरे न । अतो विशिनष्टि तत्त्व-दर्शिन इति । ये सम्यग्-दर्शिनस् तैर् उपदिष्टं ज्ञानं कार्य-क्षमं भवति । नेतरद् इति भगवतो मतम्

4.35

==============================
तथा च सतीदमपि समर्थं वचनम् --
यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव ।
येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि

4.35

यज् ज्ञात्वा यज् ज्ञानं तैर् उपदिष्टम् अधिगम्य प्राप्य पुनर् भूयो मोहम् एवं यथेदानीं मोहं गतो ऽसि पुनर् एवं न यास्यसि हे पाण्डाव । किं च ---- येन ज्ञानेन भूतान्य् अशेषेण ब्रह्मादीनि स्तम्ब-पर्यन्तानि द्रक्ष्यसि साक्षाद् आत्मनि प्रत्यग् आत्मनि मत्-संस्थानीमानि भूतानीत्य् अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति । क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्-प्रसिद्धं द्रक्ष्यसीत्य् अर्थः

4.36

==============================
किं चैतस्य ज्ञानस्य माहात्म्यम् ---
अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः ।
सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि

4.36

अपि चेद् असि पापेभ्यः पाप-कृद्भ्यः सर्वेभ्यो ऽतिशयेन पाप-कृत् पाप-कृत्तमः सर्वं ज्ञान-प्लवेनैव ज्ञानम् एव प्लवं कृत्वा वृजिनं वृजिनार्णवं पाप-समुद्रं संतरिष्यसि । धर्मो ऽपीह मुमुक्षोः पापम् उच्यते

4.37

==============================
ज्ञानं कथं नाशयति पापम् ? इति स-दृष्टान्तम् उच्यते ---
यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा

4.37

यथैधांसि काष्ठानि समिद्धः सम्यग् इद्धो दीप्तो ऽग्निर् भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानम् एव अग्निर् ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोतीत्य् अर्थः । न हि साक्षाद् एव ज्ञानाग्निः कर्माणीन्धनवत् भस्मीकर्तुं शक्नोति । तस्मात् सम्यग् दर्शनं सर्व-कर्मणां निर्बीजत्वे कारणम् इत्य् अभिप्रायः । सामर्थ्याद् येन कर्मणा अरीरम् आरब्धं तत् प्रवृत्त-फलत्वाद् उपभोगेनैव क्षीयते । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्ये [छाउ 6.14.1] अतो यान्य् अप्रवृत्त-फलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञान-सहभावीनि चातीतानेक-जन्म-कृतानि च तान्य् एव सर्वाणि भस्मसात् कुरुते

4.38

==============================
यतः एवम् अतः---
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते ।
तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति

4.38

न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धि-करम् इह विद्यते । तज् ज्ञानं स्वयम् एव योग-संसिद्धो योगेन कर्म-योगेन समाधि-योगेन च संसिद्धः संस्कृतो योग्यताम् आपन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्य् अर्थः

4.39

==============================
येनैकान्तेन ज्ञान-प्राप्तिर् भवति स उपाय उपदिश्यते ---
श्रद्धावांल् लभते ज्ञानं तत्-परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति

4.39

श्रद्धावान् श्रद्धालुर् लभते ज्ञानम् । श्रद्धालुत्वे ऽपि भवति कश्चिन् मन्द-प्रस्थानः, अत आह --- तत्-परः । गुरूपासदनादाव् अभियुक्तो ज्ञान-लब्ध्य्-उपाये श्रद्धावान् । तत्-परो ऽप्य् अजितेन्द्रियः स्यात् इत्य् अत आह --- संयतेन्द्रियः । संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणि स संयतेन्द्रियः । य एवंभूतः श्रद्धावान् तत्-परः संयतेन्द्रियश् च सो ऽवश्यं ज्ञानं लभते । प्रणिपातादिस् तु बाह्यो ऽनैकान्तिको ऽपि भवति, मायावित्वादि-संभवात् । न तु तत् श्रद्धावत्त्वादौ इत्य् एकान्ततो ज्ञान-लब्ध्य्-उपायः । किं पुनर् ज्ञान-लाभात् स्याद् इत्य् उच्यते -- ज्ञानं लब्ध्वा परं मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रम् एवाधिगच्छति । सम्यग्-दर्शनात् क्षिप्रम् एव मोक्षो भवतीति सर्व-शास्त्र-न्याय-प्रसिद्धः सुनिश्चितो ऽर्थः

4.40

==============================
अत्र संशयो न कर्तव्यः, पापिष्ठो हि संशयः । कथम् इत्य् उच्यते ---
अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति ।
नायं लोको ऽस्ति न परो न सुखं संशयात्मनः

4.40

अज्ञश् चानात्मज्ञश् चाश्रद्दधानश् च गुरु-वाक्य-शास्त्रेष्व् अविश्वासवांश् च संशयात्मा च संशय-चित्तश् च विनश्यति । अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणो ऽपि लोको ऽस्ति । तथा न परो लोकः । न सुखम्, तत्रापि संशयोत्पत्तेः संशयात्मनः संशय-चित्तस्य । तस्मात् संशयो न कर्तव्यः

4.41

==============================
कस्मात् ? ----
योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय

4.41

योग-संन्यस्त-कर्माणं परमार्थ-दर्शन-लक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थ-दर्शिना धर्माधर्माख्यानि तं योग-संन्यस्त-कर्माणम् । कथं योग-संन्यस्त-कर्मा ? इत्य् आह - ज्ञान-संछिन्न-संशयं ज्ञानेनात्मेश्वरैकत्व-दर्शन-लक्षणेन संछिन्नः संशयो यस्य यो ज्ञान-संछिन्न-संशयः । य एवं योग-संन्यस्त-कर्मा तम् आत्मवन्तम् अप्रमत्तं गुण-चेष्टा-रूपेण दृष्टानि कर्माणि न निबध्नन्त्य् अनिष्टादि-रूपं फलं नारभन्ते । हे धनंजय

4.42

==============================
यस्मात् कर्म-योगानुष्ठानाद् अशुद्धि-क्षय-हेतुक-ज्ञान-संछिन्न-संशयो न निबध्यते कर्मभिर् ज्ञानाग्नि-दग्ध-कर्मत्वाद् एव, यस्माच् च ज्ञान-कर्मानुष्ठान-विषये संशयवान् विनश्यति ---
तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत

4.42

तस्मात् पापिष्ठम् अज्ञान-संभूतम् अज्ञानाद् अविवेकाज् जातं हृत्-स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोक-मोहादि-दोष-हरं सम्यग् दर्शनं ज्ञानं तद् एवासिः खड्गस् तेन ज्ञानासिना आत्मनः स्वस्य, आत्म-विषयत्वात् संशयस्य । न हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येत । अत आत्म-विषयो ऽपि स्वस्यैव भवति । छित्त्वा एनं संशयं स्व-विनाश-हेतु-भूतम्, योगं सम्यग्-दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुर्व् इत्य् अर्थः । उत्तिष्ठ चेदानीं युद्धाय भारत इति

मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc