भगवद्गीता (टीका सहित) · अध्याय 3
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये द्वितीयो ऽध्यायः ॥
भ्ग् 3
तृतीयो ऽध्यायः शङ्कर-भाष्यम्
शास्त्रस्य प्रवृत्ति-निवृत्ति-विषय-भूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिर् योगे बुद्धिर् इति च । तत्र प्रजहाति यदा कामान् इत्य् आरभ्य आ अध्याय-परिसमाप्तेः साङ्ख्य-बुद्ध्य्-आश्रितानां संन्यासं कर्तव्यम् उक्त्वा तेषां तन्-निष्ठतयैव च कृतार्थता उक्ता एषा ब्राह्मी स्थितिः इति । अर्जुनाय च कर्मण्य् एवाधिकारस् ते, मा सङ्गो ऽस्त्व् अकर्मणि इति कर्म एव कर्तव्यम् उक्तवान् योग-बुद्धिम् आश्रित्य, न तत एव श्रेयः-प्राप्तिम् उक्तवान् । तद् एतद् आलक्ष्य पर्याकुलीभूत-बुद्धिर् अर्जुन उवाच - कथं भक्ताय श्रेयो ऽर्थिने यत् साक्षात् श्रेयः-साधनं साङ्ख्य-बुद्धि-निष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थ-युक्ते पारम्पर्येणापि अनैकान्तिक-श्रेयः-प्राप्ति-फले नियुञ्ज्याद् इति युक्तः पर्याकुलीभावो ऽर्जुनस्य । तद्-अनुरूप-प्रश्नः ज्यायसी
चेत् इत्य् आदिः । प्रश्नापाकरण-वाक्यं च भगवता उक्तं यथोक्त-विभाग-विषये शास्त्रे ।
केचित् तु अर्जुनस्य प्रश्नार्थम् अन्यथा कल्पयित्वा तत्-प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति । यथा च आत्मना सम्बन्ध-ग्रन्थे गीतार्थो निरूपितस् तत्-प्रतिकूलं चेह पुनः प्रश्न-प्रतिवचनयोर् अर्थं निरूपयन्ति । कथं ? तत्र सम्बन्ध-ग्रन्थे तावत् सर्वेषाम् आश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निरूपितो ऽर्थ इत्य् उक्तम् । पुनः विशेषितं च यावज्-जीव-श्रुति-चोदितानि कर्माणि परित्यज्य केवलाद् एव ज्ञानान् मोक्षः प्राप्यत इत्य् एतद् एकान्तेनैव प्रतिषिद्धम् इति ।
इह त्व् आश्रम-विकल्पं दर्शयता यावज्-जीव-श्रुति-चोदितानाम् एव कर्मणां परित्याग उक्तः । तत् कथम् ईदृशं विरुद्धम् अर्थम् अर्जुनाय ब्रूयाद् भगवान्, श्रोता वा कथं विरुद्धम् अर्थम् अवधारयेत् । तत्रैतत् स्याद् गृहस्थानाम् एव श्रौत-कर्म-परित्यागेन केवलाद् एव ज्ञानान् मोक्षः प्रतिषिध्यते न त्व् आश्रमान्तराणाम् इति ।
एतद् अपि पूर्वोत्तर्-विरुद्धम् एव । कथं, सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निश्चितो ऽर्थ इति प्रतिज्ञाय इह कथं तद्-विरुद्धं केवलाद् एव ज्ञानान् मोक्षं ब्रूयाद् आश्रमान्तराणाम् ।
अथ मतं श्रौत-कर्मापेक्षयैतद्-वचनं केवलाद् एव ज्ञानात् श्रौत-कर्म-रहिताद् गृहस्थानां मोक्षः प्रतिषिध्यते इति । तत्र गृहस्थानां विद्यमानम् अपि स्मार्तं कर्माविद्यमानवद् उपेक्ष्य ज्ञानाद् एव केवलान् न मोक्ष इत्य् उच्यत इति । एतद् अपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्त-कर्मणा समुच्चिताद् ज्ञानान् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणाम् इति कथं विवेकिभिः शक्यम् अवधारयितुम् ।
किं च, यदि मोक्ष-साधनत्वेन स्मार्तानि कर्माणि ऊर्ध्व-रेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैर् एव समुच्चयो न श्रौतैः ।
अथ श्रौतैः स्मार्तैश् च गृहस्थस्यैव समुच्चयो मोक्षाय ऊर्ध्व-रेतसां तु स्मार्त-कर्म-मात्र-समुच्चिताज् ज्ञानान् मोक्ष इति । तत्रैवं सति गृहस्थस्यायास-बाहुल्यं श्रौतं स्मार्तं च बहु-दुःख-रूपं कर्म शिरसि अरोपितं स्यात् ।
अथ गृहस्थस्यैवायास-बाहुल्य-कारणान् मोक्षः स्यान् नाश्रमान्तराणां श्रौत-नित्य-कर्म-रहितत्वाद् इति । तद् अप्य् असत् । सर्वोपनिषत्सु इतिहास-पुराण-योग-शास्त्रे च ज्ञानाङ्गत्वेन मुमुक्षोः सर्व-कर्म-संन्यास-विधानाद् आश्रम-विकल्प-समुच्चय-विधानाच् च श्रुति-स्मृत्योः ।
सिद्धस् तर्हि सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयः ? न, मुमुक्षोः सर्व-कर्म-संन्यास-विधानात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [बौ 3.5.1], तस्मात् संन्यासम् एषां तपसाम् अतिरिक्तम् आहुः [नाउ 2.79], न्यास एवात्यरेचयेत् [नाउ 2.78], इति । न कर्मणा न प्रजया धनेन त्यागेनैके ऽमृतत्वम् आनशुः [नाउ 2.12] इति च । ब्रह्मचर्याद् एव प्रव्रजेत् [जावाउ 4] इत्य् आद्याः श्रुतयः ।
त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज ॥
संसारम् एव निःसारं दृष्ट्वा सार-दिदृक्षया ।
प्रव्रजन्त्य् अकृतोद्वाहाः परं वैराग्यम् आश्रिताः ॥ इति बृहस्पतिर् अपि कचं प्रति ।
कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पार-दर्शिनः ॥ [म्भ् 12.241.7] इति शुकानुशासनम् ।
इहापि सर्व-कर्माणि मनसा संन्यस्य इत्य् आदि । मोक्षस्य चाकार्यत्वान् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवाय-परिहारार्थम् अनुष्ठेयानि इति चेत्, न । असंन्यासि-विषयत्वात् प्रत्यवाय-प्राप्तेः । न हि अग्निकार्याद्य्-अकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यो यथा ब्रह्मचारिणाम् असंन्यासिनाम् अपि कर्मिणाम् । न तवन् नित्यानां कर्मणाम् अभावाद् एव भाव-रूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या कथम् असतः सज्जायते [छाउ 6.2.2] इति असतः सज्जन्मासम्भव-श्रुतेः ।
यदि विहिताकरणाद् असम्भाव्यम् अपि प्रत्यवायं ब्रूयाद् वेदस् तदा अनर्थ-करो वेदः अप्रमाणम् इत्य् उक्तं स्यात् । विहितस्य करणाकरणयोः दुःख-मात्र-फलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इति अनुपपन्नार्थं कल्पितं स्यात् । न चैतद् इष्टम् । तस्मान् न संन्यासिनां कर्माणि अतो ज्ञान-कर्मणोः समुच्चयानुपपत्तिः । ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् इति । अर्जुनस्य प्रश्नानुपपत्तेश् च ।
यदि हि भगवता द्वितीये अध्याये ज्ञानं कर्म च समुच्चयेन त्वयानुष्ठेयम् इत्य् उक्तं स्यात् ततो ऽर्जुनस्य प्रश्नो ऽनुपपन्नो ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन इति । अर्जुनाय चेद् बुद्धि-कर्मणी त्वयानुष्ठेये इति उक्ते या कर्मणो ज्यायसी बुद्धिः सा अप्य् उक्ता एवेति तत् किं कर्मणि घोरे मां नियोजयसि केशव इति प्रश्नो न कथंचन उपपद्यते ।
न चार्जुनस्यैव ज्यायसी बुद्धिर् नानुष्ठेयेति भगवतोक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन ज्यायसी चेद् इति प्रश्नः स्यात् । यदि पुनर् एकस्य पुरुषस्य ज्ञान-कर्मणोर् विरोधाद् युगपद् अनुष्ठानं न सम्भवतीति भिन्न-पुरुषानुष्ठेयत्वं भगवता पूर्वम् उक्तं स्यात् ततो ऽयं प्रश्न उपपन्नः ज्यायसी चेद् इत्य् आदिः ।
अविवेकतः प्रश्न-कल्पनायाम् अपि भिन्न-पुरुषानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्यते । न चाज्ञान-निमित्तं भगवत्-प्रतिवचनं कल्प्यम् । अस्माच् च भिन्न-पुरुषानुष्ठेयत्वेन ज्ञान-कर्म-निष्ठयोर् भगवतः प्रतिवचन-दर्शनात्, ज्ञान-कर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलाद् एव ज्ञानान् मोक्ष इत्य् एषो ऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च । ज्ञान-कर्मणोर् एकं वद निश्चित्य इति च एक-विषयैव प्रार्थनानुपपन्नोभयोः समुच्चय-सम्भवे ।
कुरु कर्मैव तस्मात् त्वम् इति च ज्ञान-निष्ठा-सम्भवम् अर्जुनस्यावधारणेन दर्शयिष्यति ।
अर्जुन उवाच
ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव
ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर् ज्ञानम् । हे जनार्दन ! यदि बुद्धि-कर्मणी समुच्चिते इष्टे तदैकं श्रेयः-साधनम् इति कर्मणो ज्यायसी बुद्धिर् इति कर्मणो ऽतिरिक्त-करणं बुद्धेर् अनुपपन्नम् अर्जुनेन कृतं स्यात् । न हि तद् एव तस्मात् फलतो ऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः । अश्रेयस्करं च कर्म कुर्व् इति मां प्रतिपादयति, तत् किं नु कारणम् इति भगवत उपालम्भम् इव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसा-लक्षणे मां नियोजयसि केशव इति च यद् आह, तच् च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवतोक्तो ऽर्जुनेन चावधारित चेत्, तत् किं कर्मणि घोरे मां नियोजयसि इत्य् आदि कथं युक्तं वचनम्
==============================
किं च -
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम्
व्यामिश्रेणेव, यद्यपि विवक्ताभिधायी भगवान्, तथापि मम मन्द-बुद्धेर् व्यामिश्रम् इव भगवद्-वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसीव, मम बुद्धि-व्यामोहापनयाय हि प्रवृत्तस् त्वं तु कथं मोहयसि ? अतः ब्रवीमि । बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्न-कर्तृकयोः ज्ञान-कर्मणोर् एक-पुरुषानुष्ठानासंभवं यदि मन्यसे, तत्रैवं सति तत् तयोर् एकं बुद्धिं कर्म वा इदम् एवार्जुनस्य योग्यं बुद्धि-शक्त्य्-अवस्थानुरूपम् इति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयो ऽहम् आप्नुयां प्राप्नुयाम् ।
यदि हि कर्म-निष्ठायां गुण-भूतम् अपि ज्ञानं भगवतोक्तं स्यात् । तत् कथं तयोर् एकं वद इत्य् एक-विषयैवार्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वम् उक्तम् अन्यतरद् एव ज्ञान-कर्मणोः वक्ष्यामि, नैव द्वयम् इति, येन उभय-प्राप्त्य्-असंभवम् आत्मनो मन्यमान एकम् एव प्रार्थयेत्
==============================
प्रश्नानुरूपम् एव प्रतिवचनं -
श्री-भगवान् उवाच
लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम्
लोके ऽस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्वि-विधा द्वि-प्रकारा निष्ठा स्थितिः अनुष्ठेय-तात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदय-निःश्रेयस-प्राप्ति-साधनं वेदार्थ-संप्रदायम् आविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघापाप । तत्र का सा द्विविधा निष्ठा इत्य् आह - तत्र ज्ञान-योगेन ज्ञानम् एव योगस् तेन सांख्यानाम् आत्मानात्म-विषय-विवेक-विज्ञानवतां ब्रह्मचर्याश्रमाद् एव कृत-संन्यासानां वेदान्त-विज्ञान-सुनिश्चितार्थानां परमहंस-परिव्राजकानां ब्रह्मण्य् एवावस्थितानां निष्ठा प्रोक्ता । कर्म-योगेन कर्म एव योगः कर्म-योगस् तेन कर्म-योगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्य् अर्थः ।
यदि चैकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्यानुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम्, कथम् इहार्जुनाय उपसन्नाय प्रियाय विशिष्टाभिन्न-पुरुष-कर्तृके एव ज्ञान-कर्म-निष्ठे ब्रूयात् ? यदि पुनर् अर्जुनो ज्ञानं कर्म च द्वयं श्रुत्वा स्वयम् एवानुष्ठास्यति अन्येषां तु भिन्न-पुरुषानुष्ठेयतां वक्ष्यामि इति मतं भगवतः कल्प्येत, तदा राग-द्वेषवान् अप्रमाण-भूतो भगवान् कल्पितः स्यात् । तच् चायुक्तम् । तस्मात् कयापि युक्त्या न समुच्चयो ज्ञान-कर्मणोः ॥
यद् अर्जुनेनोक्तं कर्मणो ज्यायस्त्वं बुद्धेस् तच् च स्थितम् अनिराकरणात् । तस्याश् च ज्ञान-निष्ठायाः संन्यासिनाम् एवानुष्ठेयत्वम् , भिन्न-पुरुषानुष्ठेयत्व-वचनात् । भगवत एवम् एवानुमतम् इति गम्यते
==============================
मां च बन्ध-कारणे कर्मण्य् एव नियोजयसि इति विषण्ण-मनसम् अर्जुनम् कर्म नारभे इत्य् एवं मन्वानम् आलक्ष्य आह भगवान् - न कर्मणामन् आरम्भाद् इति । अथवा - ज्ञान-कर्म-निष्ठयोः परस्पर-विरोधाद् एकेन पुरुषेण युगपद् अनुष्ठातुम् अशक्यत्वे सति इतरेतरानपेक्षयोर् एव पुरुषार्थ-हेतुत्वे प्राप्ते कर्म-निष्ठाया ज्ञान-निष्ठा-प्राप्ति-हेतुत्वेन पुरुषार्थ-हेतुत्वम्, न स्वातन्त्र्येण । ज्ञान-निष्ठा तु कर्म-निष्ठोपाय-लब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थ-हेतुः अन्यानपेक्षा, इत्य् एतम् अर्थं प्रदर्शयिष्यन् आह भगवान् -
न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते ।
न च संन्यसनाद् एव सिद्धिं समधिगच्छति
न कर्मणा क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्त-दुरित-क्षय-हेतुत्वेन सत्त्व-शुद्धि-कारणानां तत्-कारणत्वेन च ज्ञानोत्पत्ति-द्वारेण ज्ञान-निष्ठा-हेतूनाम्,
ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ।
यथादर्शतल-प्रख्ये पश्यत्य् आत्मानम् आत्मनि ॥ [म्भ् 12 208.8] इत्य् आदि स्मरणात् ।
अनारम्भाद् अननुष्ठानात् नैष्कर्म्यं निष्कर्म-भावं कर्म-शून्यतां ज्ञान-योगेन निष्ठां निष्क्रियात्म-स्वरूपेणैवावस्थानम् इति यावत् । पुरुषो नाश्नुते न प्राप्नोतीत्य् अर्थः ।
कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुत इति वचनात् तद्-विपर्ययात् तेषाम् आरम्भान् नैष्कर्म्यम् अश्नुत इति गम्यते । कस्मात् पुनः कारणात् कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात् । न ह्य् उपायम् अन्तरेण उपेय-प्राप्तिर् अस्ति । कर्म-योगोपायत्वं च नैष्कर्म्य-लक्षणस्य ज्ञान-योगस्य, श्रुतौ इह च प्रतिपादनात् । श्रुतौ तावत् प्रकृतस्यात्म-लोकस्य वेद्यस्य वेदनोपायत्वेन तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन [बौ 4.4.22] इत्य् आदिना कर्म-योगस्य ज्ञान-योगोपायत्वं प्रतिपादितम् । इहापि च - संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः [क्रईता 5.6], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [क्रईता 5.11], यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् [क्रईता 18.5] इत्य् आदि प्रतिपादयिष्यति
।
ननु चाभयं सर्व-भूतेभ्यो दत्त्वा नैष्कर्म्यम् आचरेत् इत्य् आदौ कर्तव्य-कर्म-संन्यासाद् अपि नैष्कर्म्य-प्राप्तिं दर्शयति । लोके च कर्मणाम् अनारम्भान् नैष्कर्म्यम् इति प्रसिद्धतरम् । अतश् च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तम् । अत आह- न च संन्यसनाद् एवेति । नापि संन्यसनाद् एव केवलात् कर्म-परित्याग-मात्राद् एव ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां ज्ञान-योगेन निष्ठां समधिगच्छति न प्राप्नोति
==============================
कस्मात् पुनः कारणात् कर्म-संन्यास-मात्राद् एव केवलात् ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां पुरुषो नाधिगच्छति इति हेत्व्-आकाङ्क्षायाम् आह -
न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् ।
कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः
न हि यस्मात् क्षणम् अपि कालं जातु कदाचित् कश्चित् तिष्ठत्य् अकर्म-कृत् सन् । कस्मात् ? कार्यते प्रवर्त्यते हि यस्माद् अवश एवास्वतन्त्र एव कर्म सर्वः प्राणी प्रकृति-जैः प्रकृतितो जातैः सत्त्व-रजस्-तमोभिः गुणैः । अज्ञ इति वाक्य-शेषः, यतो वक्ष्यति गुणैर् यो न विचाल्यते इति । सांख्यानां पृथक्-करणात् अज्ञानाम् एव हि कर्म-योगः, न ज्ञानिनाम् । ज्ञानिनां तु गुणैर् अचाल्यमानानां स्वतश् चलनाभावात् कर्म-योगो नोपपद्यते । तथा च व्याख्यातम् वेदाविनाशिनम् [क्रईता 2.21] इत्य् अत्र
==============================
यत् त्व् अनात्मज्ञः चोदितं कर्म नारभते इति तद् असद् एवेत्य् आह -
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते
कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तः-अरणो मिथ्याचारो मृषाचारः पापाचारः स उच्यते
==============================
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन ।
कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते
यस् तु पुनः कर्मण्य् अधिकृतो ऽज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्-पाण्य्-आदिभिः । किम् आरभते इत्य् आह-कर्म-योगम् असक्तः सन् फलाभिसन्धि-वर्जितः स विशिष्यते इतरस्मात् मिथ्याचारात्
==============================
यतः एवम् अतः-
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः
नियतं नित्यं शास्त्रोपदिष्टम् । यो यस्मिन् कर्मण्य् अधिकृतः फलाय चाश्रुतं तन् नियतं कर्म, तत् कुरु त्वं हे अर्जुन ! यतः कर्म ज्यायो ऽधिकतरं फलतः । हि यस्माद् अकर्मणो ऽकरणात् अनारम्भात् । कथम् ? शरीर-यात्रा शरीर-स्थितिर् अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणो ऽकरणात् । अतो दृष्टः कर्माकर्मणोर् विशेषो लोके
==============================
यच् च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यम् इति तद् अप्य् असत् । कथम् ?
यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः ।
तद् अर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर
यज्ञो वै विष्णुः [तैत्त्स् 1.7.4] इति श्रुतेर् यज्ञ ईश्वरः । तद्-अर्थं यत् क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणो ऽन्यत्रान्येन कर्मणा लोको ऽयम् अधिकृतः कर्म-कृत् कर्म-बन्धनः [तैत्त्.भा. 3.1.6] कर्म बन्धनं यस्य सो ऽयं कर्म-बन्धनो लोकः, न तु यज्ञार्थात् । अतस् तद्-अर्थं यज्ञार्थं कर्म कौन्तेय, मुक्त-सङ्गः कर्म-फल-सङ्ग-वर्जितः सन् समाचार निर्वर्तय
==============================
इतश् चाधिकृतेन कर्म कर्तव्यम् -
सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक्
सह-यज्ञाः यज्ञ-सहिताः प्रजास् त्रयो वर्णास् ताः सृष्ट्वोत्पाद्य पुरा पूर्वं सर्गादाव् उवाच उक्तवान् प्रजापतिः प्रजानां स्राष्टा । अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिर् उत्पत्तिस् तां कुरुध्वम् । एष यज्ञो वो युष्माकम् अस्तु भवतु इष्ट-काम-धुक् । इष्टान् अभिप्रेतान् कामान् फल-विशेषान् दोग्धीति इष्ट-काम-धुक्
==============================
कथम् ?
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ
देवान् इन्द्रादीन् भावयत वर्धयतानेन यज्ञेन । ते देवा भावयन्तु आप्याययन्तु वृष्ट्य्-आदिना वो युष्मान् । एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्ष-लक्षणं विज्ञान-प्राप्ति-क्रमेणावाप्स्यथ । स्वर्गं वा परं श्रेयो ऽवाप्स्यथ
==============================
किं च -
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः ।
तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः
इष्टान् अभिप्रेतान् भोगान् हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । स्त्री-पशु-पुत्रादीन् यज्ञ-भाविता यज्ञैर् वर्धितास् तोषिता इत्य् अर्थः । तैर् देवैर् दत्तान् भोगान् अप्रदायादत्त्वा, आनृण्यम् अकृत्वेत्य् अर्थः । एभ्यो देवेभ्यः । यो भुङ्क्ते स्व-देहेन्द्रियाण्य् एव तर्पयति स्तेन एव तस्कर एव स देवादि-स्वापहारी
==============================
ये पुनः-
यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः ।
भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात्
देव-यज्ञादीन् निर्वर्त्य तच्-छिष्टम् अशनम् अमृताख्यम् अशितुं शीलं येषां ते यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः सर्व-पापैश् चुल्ल्य्-आदि-पञ्च-सूनाकृतैः प्रमाद-कृत-हिंसादि-जनितैश् चान्यैः । ये त्व् आत्मंभरयो भुञ्जते ते त्व् अघं पापं स्वयम् अपि पापा ये पचन्ति पाकं निर्वर्तयन्ति आत्म-कारणात् आत्म-हेतोः
==============================
इतश् चाधिकृतेन कर्म कर्तव्यम् । जगच्-चक्र-प्रवृत्ति-हेतुर् हि कर्म । कथम् ? इत्य् उच्यते -
अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः
अन्नाद् भुक्ताल् लोहित-रेतः-परिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि । पर्जन्याद् वृष्टेर् अन्नस्य संभवो ऽन्न-संभवः । यज्ञाद् भवति पर्जन्यः ।
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ [मनु 3.76] इति स्मृतेः ।
यज्ञो ऽपूर्वम् । स च यज्ञः कर्म-समुद्भवः । ऋत्विग्-यजमानयोश् च व्यापारः कर्म, तद्-समुद्भवो यस्य यज्ञस्यापूर्वस्य स यज्ञः कर्म-समुद्भवः
==============================
तच् चैवंविधं कर्म कुतो जातम् इत्य् आह -
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् ।
तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्
कर्म ब्रह्मोद्भवं । ब्रह्म वेदः । स उद्भवः कारणं प्रकाशको यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुनः वेदाख्यम् अक्षर-समुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षर-समुद्भवम् । ब्रह्म वेद इत्य् अर्थः । यस्मात् साक्षात् परमात्माख्याद् अक्षरात् पुरुष-निःश्वासवत् समुद्भूतं ब्रह्म तस्मात् सर्वार्थ-प्रकाशकत्वात् सर्व-गतम् । सर्व-गतम् अपि सत् नित्यं सदा यज्ञ-विधि-प्रधानत्वात् यज्ञे प्रतिष्ठितम्
==============================
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति
एवम् इत्थम् ईश्वरेण वेद-यज्ञ-पूर्वकं जगच्-चक्रं प्रवर्तितं नानुवर्तयतीह लोके यः कर्मण्य् अधिकृतः सन्न् अघायुर् अघं पापम् आयुर् जीवनं यस्य सो ऽघायुः पाप-जीवन इति यावत् । इन्द्रियारामः इन्द्रियैर् आरामः आरमणम् आक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं वृथा हे पार्थ, स जीवति । तस्माद् अज्ञेनाधिकृतेन कर्तव्यम् एव कर्मेति प्रकरणार्थः । प्राग् आत्म-ज्ञान-निष्ठा-योग्यता-प्राप्तेस् तादर्थ्येन कर्म-योगानुष्ठानम् अधिकृतेनानात्मज्ञेन कर्तव्यम् एवेत्य् एतन् न कर्मणाम् अनारम्भाद् [गीता 3.4] इत्य् अत आरभ्य शरीर-यात्रापि च ते न प्रसिध्येद् अकर्मण [गीता 3.8] इत्य् एवम् अन्तेन प्रतिपाद्य, यज्ञार्थात् कर्मणो ऽन्यत्र [गीता 3.9] इत्य् आदिना मोघं पार्थ स जीवति इत्य् एवम् अन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्यानात्मविदः कर्मानुष्ठाने
बहु कारणम् उक्तम् । तद्-अकरणे च दोष-संकीर्तनं कृतम्
==============================
एवं स्थिते किम् एवं प्रवर्तितं चक्त्रं सर्वेणानुवर्तनीयम् ? आहो स्वित् पूर्वोक्त-कर्म-योगानुष्ठानोपाय-प्राप्याम् अनात्म-विदा ज्ञान-योगेनैव निष्ठाम् आत्म-विद्भिः सांख्यैर् अनुष्ठेयाम् अप्राप्तेनैव ? इत्य् एवम् अर्थम् अर्जुनस्य प्रश्नम् आशङ्कय स्वयम् एव वा शास्त्रार्थस्य विवेक-प्रतिपत्त्य्-अर्थम् एतं वै तम् आत्मानं विदित्वा निवृत्त-मिथ्या-ज्ञानाः सन्तो ब्राह्मणा मिथ्या-ज्ञानवद्भ्यो ऽवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षा-चर्यं शरीर-स्थिति-मात्र-प्रयुक्तं चरन्ति । न तेषाम् आत्म-ज्ञान-निष्ठा-व्यतिरेकेणान्यत् कार्यम् अस्ति [बौ 3.5.1] इत्य् एवं श्रुत्य्-अर्थम् इह गीता-शास्त्रे प्रतिपिपादयिषितम् आविष्कुर्वन्न् आह भगवान् -
यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः ।
आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते
यस् तु सांख्य आत्म-ज्ञान-निष्ठ आत्म-रतिः आत्मन्य् एव रतिर् न विषयेषु यस्य स आत्म-रतिर् एव स्याद् भवेद् आत्म-तृप्तश् चात्मनैव तृप्तो नान्न-रसादिना स मानवो मनुष्यः संन्यासी आत्मन्य् एव च सन्तुष्टः । सन्तोषो हि बाह्यार्थ-लाभे सर्वस्य भवति, तम् अनपेक्ष्य आत्मन्य् एव च सन्तुष्टः सर्वतो वीत-तृष्ण इत्य् एतत् । य ईदृशः आत्म-वित् तस्य कार्यं करणीयं न विद्यते नास्तीत्य् अर्थः
==============================
किं च -
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः
नैव तस्य परमात्म-रतेः कृतेन कर्मणार्थः प्रयोजनम् अस्ति । अस्तु तर्ह्य् अकृतेनाकरणेन प्रत्यवायाख्यो ऽनर्थः । नाकृतेनेह लोके कश्चन कश्चिद् अपि प्रत्यवाय-प्राप्ति-रूपः आत्म-हानि-लक्षणो वा नैवास्ति । न चास्य सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु भूतेषु कश्चिद् अर्थ-व्यपाश्रयः प्रयोजन-निमित्त-क्रिया-साध्यो व्यपाश्रयः । व्यपाश्रयणम् आलम्बनं कंचित् भूत-विशेषम् आश्रित्य न साध्यः कश्चिद् अर्थो ऽस्ति, येन तद्-अर्था क्रिया अनुष्ठेया स्यात् । न त्वम् एतस्मिन् सर्वतः संप्लुतोदक-स्थानीये सम्यग्-दर्शने वर्तसे
==============================
यतः एवम् -
तस्माद् असक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः
तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्य् अर्थः
==============================
यस्माच् च -
कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।
लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि
कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः । के ? जनकादयः जनका वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोकसंग्रहार्थं प्रारब्धकर्मत्वात् कर्मणा सहैवासंन्यस्यैव कर्म संसिद्धिमास्थिता इत्य् अर्थः । अथाप्राप्तसम्यगदर्शनाः जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्त्रमेण संसिद्धिमास्थिता इति व्याख्येयः लोकः । अथ मन्यसे पूर्वेरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् । तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृताथेनेति । तथापि प्रारब्धकर्मायत्तः त्वं लोकसंग्रहम् एवापि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसंग्रहः, तमेवापि प्रयोजनं संपश्यन् कर्तुम् अर्हसि
==============================
लोक-संग्रहः किम् अर्थं कर्तव्य इत्य् उच्यते -
यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते
यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरो ऽन्यः जनः तदनुगतः । किं च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्य् अर्थः
==============================
यद्य् अत्र ते लोक-संग्रह-कर्तव्यतायां विप्रतिपत्तिस् तर्हि मां किं न पश्यसि ?
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तम् अवाप्तव्यं वर्तैव च कर्मणि
न मे मम पार्थ नास्ति न विद्यते कर्तव्यं त्रिष्व् अपि लोकेषु किंचन किंचिद् अपि । कस्मात् ? नानवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम् । तथापि वर्त एव च कर्मण्य् अहम्
==============================
यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः
यदि हि पुनर् अहं न वर्तेय जातु कदाचित् कर्मण्य् अतन्द्रितो ऽनलसः सन् मम श्रेष्ठस्य सतो वत्र्म मार्गम् अनुवर्तन्ते मनुष्याः । हे पार्थ ! सर्वशः सर्व-प्रकारैः
==============================
उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ।
संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः
उत्सीदेयुर् विनश्येयुर् इमे सर्वे लोकाः लोक-स्थिति-निमित्तस्य कर्मणो ऽभावात् न कुर्यां कर्म चेद् अहम् । किं च, संकरस्य च कर्ता स्याम् । तेन कारणेन उपहन्याम् इमाः प्रजाः । प्रजानाम् अनुग्रहाय प्रवृत्त उपहतिम् उपहननं कुर्याम् इत्य् अर्थः । मम ईश्वरस्याननुरूपम् आपद्यते
==============================
यदि पुनर् अहम् इव त्वं कृतार्थ-बुद्धिः, आत्मविद् अन्यो वा, तस्यापि आत्मनः कर्तव्याभावे ऽपि परानुग्रह एव कर्तव्य इत्य् आह -
सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम्
सक्ताः कर्मण्य् अस्य कर्मणः फलं मम भविष्यतीति केचिद् अविद्वांसो यथा कुर्वन्ति भारत, कुर्याद् विद्वान् आत्मवित् तथासक्तः सन् । तद्वत् किम् अर्थं करोति ? तत् सृणु - चिकीर्षुः कर्तुम् इच्छुः लोक-संग्रहम्
==============================
एवं लोक-संग्रहं चिकीर्षेर् न ममात्म-विदः कर्तव्यम् अस्ति अन्यस्य वा लोक-संग्रहं मुक्त्वा । ततस् तस्य आत्म-विदः इदम् उपदिश्यते -
न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् ।
जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन्
बुद्धि-भेदो बुद्धि-भेदो मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम् इति निश्चय-रूपाया बुद्धेर् भेदनं चालनं बुद्धि-भेदस् तं न जनयेन् नोत्पादयेद् अज्ञानाम् अविवेकिनां कर्म-सङ्गिनां कर्मण्य् आसक्तानां आसङ्गवताम् । किं नु कुर्यात् ? जोषयेत् कारयेत् सर्व-कर्माणि विद्वान् स्वयं तद् एवाविदुषां कर्म युक्तो ऽभियुक्तः समाचरन्
==============================
अविद्वान् अज्ञः कथं कर्मसु सज्जते ? इत्य् आह -
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकार-विमूढात्मा कर्ताहम् इति मन्यते
प्रकृतेः प्रकृतिः प्रधानं सत्त्व-रजस्-तमसां गुणानां साम्यावस्था । तस्याः प्रकृतेः गुणैः विकारैः कार्य-करण-रूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्व-प्रकारैर् अहंकार-विमूढात्मा कार्य-करण-संघातात्म-प्रत्ययो ऽहंकारस् तेन विविधं नानाविधं मूढ आत्मा अन्तः-करणं यस्य सो ऽयं कार्य-करण-धर्मा कार्य-करणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्-तत्-कर्मणाम् अहं कर्तेति मन्यते
==============================
यः पुनर् विद्वान् -
तत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते
तत्त्ववित् तु महाबाहो । कस्य तत्त्ववित् ? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्य् अर्थः । गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति
==============================
ये पुनः -
प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु ।
तान् अकृत्स्न-विदो मन्दान् कृत्स्नविन् न विचालयेत्
प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुण-कर्मसु वयं कर्म कुर्मः फलाय इति । तान् कर्म-सङ्गिनो ऽकृत्स्न-विदः कर्म-फल-मात्र-दर्शिनो मन्दान् मन्द-प्रज्ञान् कृत्स्न-वित् आत्म-वित् स्वयं न विचालयेत् बुद्धि-भेद-करणम् एव चालनं तन् न कुर्यात् इत्य् अर्थः
==============================
कथं पुनः कर्मण्य् अधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यम् इति, उच्यते --
मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा ।
निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः
मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्याध्यात्म-चेतसा विवेक-बुद्ध्या, अहं कर्ता ईश्वराय भृत्यवत् करोमि इत्य् अनया बुद्ध्या । किं च, निराशीस् त्यक्ताशीः निर्ममो मम-भावश् च निर्गतो यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगत-ज्वरो विगत-सन्तापो विगत-शोकः सन्न् इत्य् अर्थः
==============================
यद् एतन् मम मतं कर्म कर्तव्यम् इति स-प्रमाणम् उक्तं तत् तथा -
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः
ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तो ऽसूयां च मयि परम-गुरौ वासुदेवे ऽकुर्वन्तो, मुच्यन्ते ते ऽप्य् एवंभूताः कर्मभिर् धर्माधर्माख्यैः
==============================
ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः
ये तु तद्-विपरीता एतन् मम मतम् अभ्यसूयन्तो निन्दन्तो नानुतिष्ठन्ति नानुवर्तन्ते मे मतम् । सर्वेषु ज्ञानेषु विविधं मूढास् ते । सर्व-ज्ञान-विमूढांस् तान् विद्धि जानीहि नष्टान् नाशं गतान् अचेतसो ऽविवेकिनः
==============================
कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्तः पर-धर्मान् अनुतिष्ठन्ति ? स्व-धर्मं च नानुवर्तन्ते ? त्वत्-प्रतिकूलाः कथं न बिभ्यति त्वच्-छासनातिक्रम-दोषात् ? तत्राह -
सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति
सदृशम् अनुरूपं चेष्टते चेष्टां करोति । कस्याः ? स्वस्याः स्वकीयायाः प्रकृतेः । प्रकृतिर् नाम पूर्व-कृत-धर्माधर्मादि-संस्कारा वर्तमान-जन्मादाव् अभिव्यक्ताः । सा प्रकृतिः । तस्याः सदृशम् एव सर्वो जन्तुर् ज्ञानवान् अपि चेष्टते, किं पुनर् मूर्खः ? तस्मात् प्रकृतिं यान्त्य् अनुगच्छन्ति भूतानि प्राणिनः । निग्रहो निषेध-रूपः किं करिष्यति मम वान्यस्य वा ? दुर्निग्रहा प्रकृतिर् इति वाक्य-शेषः
==============================
यदि सर्वो जन्तुर् आत्मनः प्रकृति-सदृशम् एव चेष्टते, न च प्रकृति-शून्यः कश्चिद् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्य-प्राप्ताव् इदम् उच्यते -
इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ ।
तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ
इन्द्रियस्येन्द्रियस्यार्थे सर्वेन्द्रियाणाम् अर्थे शब्दादि-विषये इष्टे रागो ऽनिष्टे द्वेष इत्य् एवं प्रतीन्द्रियार्थं रागद्वेषाव् अवश्यंभाविनौ तत्रायं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते । शास्त्रार्थे प्रवृत्तः पूर्वम् एव राग-द्वेषयोर् वशं नागच्छेत् । या हि पुरुषस्य प्रकृतिः सा राग-द्वेष-पुरःसरैव स्व-कार्ये पुरुषं प्रवर्तयति । तदा स्वधर्म-परित्यागः पर-धर्मानुष्ठानं च भवति । यदा पुना राग-द्वेषौ तत्-प्रतिपक्षेण नियमयति तदा शास्त्र-दृष्टिर् एव पुरुषो भवति, न प्रकृति-वशः । तस्मात् तयो राग-द्वेषयोर् वशं नागच्छेत् । यतस् तौ ह्य् अस्य पुरुषस्य परिपन्थिनौ श्रेयो-मार्गस्य विघ्न-कर्तारौ तस्कराव् इव पथीत्य् अर्थः
==============================
तत्र राग-द्वेष-प्रयुक्तो मन्यते शास्रार्थम् अप्य् अन्यथा पर-धर्मो ऽपि धर्मत्वाद् अनुष्ठेय एव इति, तद् असत् -
श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः
श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मो विगुणो ऽपि विगत-गुणो ऽपि अनुष्ठीयमानः पर-धर्मात् स्वनुष्ठितात् साद्गुण्येन संपादिताद् अपि । स्व-धर्मे स्थितस्य निधनं मरणम् अपि श्रेयः पर-धर्मे स्थितस्य जीवितात् । कस्मात् ? पर-धर्मः भयावहः नरकादि-लक्षणं भयम् आवहतीति यतः
==============================
यद्यपि अनर्थ-मूलम् ध्यायतो विषयान् पुंस [गीता 2.62] इति राग-द्वेषौ ह्य् अस्य परिपन्थिनौ [गीता 3.34] इति चोक्तम् । विक्षिप्तम् अनवधारितं च तद् उक्तम् । तत् संक्षिप्तं निश्चितं च इदम् एवेति ज्ञातुम् इच्छन् अर्जुन उवाच ज्ञाते हि तस्मिन् तद्-उच्छेदाय यत्नं कुर्याम् इति अर्जुन उवाच-
अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः ।
अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः
अथ केन हेतु-भूतेन प्रयुक्तः सन् राज्ञेव भृत्यो ऽयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन्न् अपि हे वार्ष्णेय वृष्णि-कुल-प्रसूत ! बलाद् इव नियोजितो राज्ञेवेत्य् उक्तो दृष्टान्तः
==============================
शृणु त्वं तं वैरिणं सर्वानर्थ-करं यं त्वं पृच्छसीति भगवान् उवाच -
काम एष क्रोध एष रजो-गुण-समुद्भवः ।
महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम्
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विप् 6.5.74]
इत्य् ऐश्वर्यादि-षट्कं यस्मिन् वासुदेवे नित्यम् अप्रतिबद्धत्वेन सामस्त्येन च वर्तते,
उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [विप् 6.5.78]
उत्पत्त्य्-आदि-विषयं च विज्ञानं यस्य स वासुदेवो वाच्यो भगवान् इति ।
काम इति । काम एष सर्व-लोक-शत्रुर् यन्-निमित्ता सर्वानर्थ-प्राप्तिः प्राणिनाम् । स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते । अतः क्रोधो ऽप्य् एष एव रजो-गुण-समुद्भवो रजश् च तद्-गुणश् च रजो-गुणः स समुद्भवो यस्य स कामो रजो-गुण-समुद्भवः । रजो-गुणस्य वा समुद्भवः । कामो ह्य् उद्भूतो रजः प्रवर्तयन् पुरुषं प्रवर्तयति । तृष्णया ह्य् अहंकारित इति दुःखिनां रजः-कार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते । महाशनो महद् अशनं अस्येति महाशनः । अतएव महा-पाप्मा । कामेन हि प्रेरितो जन्तुः पापं करोति । अतो विद्ध्य् एनं कामम् इह संसारे वैरिणम्
==============================
कथं वैरी ? इति दृष्टान्तैः प्रत्याययति -
धूमेनाव्रियते वह्निर् यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम्
धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मको ऽप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथोल्बेन च जरायुणा गर्भ-वेष्टनेन चावृत आच्छादितो गर्भस् तथा तेनेदम् आवृतम्
==============================
किं पुनस् तद् इदं-शब्द-वाच्यं यत् कामेनावृतम् इत्य् उच्यते -
आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा ।
काम-रूपेण कौन्तेय दुष्पूरेणानलेन च
आवृतम् एतेन ज्ञानं ज्ञानिनो नित्य-वैरिणा, ज्ञानी हि जानात्य् अनेनाहम् अनर्थे प्रयुक्तः पूर्वम् एवेति । दुःखी च भवति नित्यम् एव । अतो ऽसौ ज्ञानिनो नित्य-वैरी, न तु मूर्खस्य । स हि कामं तृष्णा-काले मित्रम् इव पश्यन् तत्-कार्ये दुःखे प्राप्ते जानाति तृष्णयाहं दुःखित्वम् आपादित इति, न पूर्वम् एव । अतो ज्ञानिन एव नित्य-वैरी । किं-रूपेण ? काम-रूपेण काम इच्छैव रूपम् अस्येति कामरूपस् तेन दुष्पूरेण दुःखेन पूरणम् अस्येति दुष्पूरस् तेनानलेन नास्यालं पर्याप्तिर् विद्यत इत्य् अनलस् तेन च
==============================
किम् अधिष्ठानः पुनः कामो ज्ञानस्यावरणत्वेन वैरी सर्वस्य लोकस्य ? इत्य् अपेक्षायाम् आह, ज्ञाते हि शत्रोर् अधिष्ठाने सुखेन निबर्हणं कर्तुं शक्यत इति-
इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते ।
एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम्
इन्द्रियाणि मनो बुद्धिश् चास्य कामस्याधिष्ठानम् आश्रय उच्यते । एतैर् इन्द्रियादिभिर् आश्रयैर् विमोहयति विविधं मोहयत्य् एष कामो ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम्
==============================
यत एवम् -
तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम्
तस्मात् त्वम् इन्द्रियाण्य् आदौ पूर्वम् एव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञान-विज्ञान-नाशनं ज्ञानं शास्त्रत आचार्यतश् चात्मादीनाम् अवबोधः । विज्ञानं विशेषतस् तद्-अनुभवस् तयोर् ज्ञान-विज्ञानयोः श्रेयः-प्राप्ति-हेत्वोर् नाशनं नाश-करं प्रजहिहि आत्मनः परित्यजेत्य् अर्थः
==============================
इन्द्रियाण्य् आदौ नियम्य कामं शत्रुं जहिहि इत्य् उक्तम् । तत्र किम् आश्रयः कामं जह्यात् इत्य् उच्यते --
इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः ।
मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः
इन्द्रियाणि श्रोत्रादीनि पञ्च । देहं स्थूलं बाह्यं परिच्छिन्नं चापेक्ष्य सौक्ष्म्यान्तरत्व-व्यापित्वाद्य्-अपेक्षया पराणि प्रकृष्टान्य् आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः संकल्प-विकल्पात्मकम् । तथा मनसस् तु परा बुद्धिर् निश्चयात्मिका । तथा यः सर्व-दृश्येभ्यो बुद्ध्य्-अन्तेभ्यो ऽभ्यन्तरो यं देहिनम् इन्द्रियादिभिर् आश्रयैर् युक्तः कामो ज्ञानावरण-द्वारेण मोहयतीत्य् उक्तम् । बुद्धेः परतस् तु स । स बुद्धेर् द्रष्टा । पर आत्मा
==============================
ततः किम् --
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना ।
जहि शत्रुं महाबाहो काम-रूपं दुरासदम्
एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वात्मानं स्वेनैवात्मना संस्कृतेन मनसा सम्यक् समाधायेत्य् अर्थः । जह्य् एनं शत्रुं हे महाबाहो ! काम-रूपं दुरासदं दुःखेनासद आसादनं प्राप्तिर् यस्य तं दुरासदं दुर्विज्ञेयानेक-विशेषम् इति
मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0