भगवद्गीता (टीका सहित) · अध्याय 13
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-
शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये
द्वादशो ऽध्यायः ॥
भ्ग् 13
[*नोते: नुम्बेरिन्ग् ओf थिस् अध्यय ओउत् ओf तुने wइथ् स्तन्दर्द् एदितिओन्स्
अन्द् प्रोबब्ल्य् देfएच्तिवे; "13.33" मिस्सिन्ग्!]
अथ क्षेत्र-क्षेत्रज्ञ-योगो नाम
त्रयोदशो ऽध्यायः
(श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्)
सप्तमे ऽध्याये सूचिते द्वे प्रकृती ईश्वरस्य त्रिगुणात्मिकाष्टधा भिन्नापरा संसार-हेतुत्वात्, परा चान्या जीव-भूता क्षेत्रज्ञ-लक्षणेश्वरात्मिका । याभ्यां प्रकृतिभ्याम् ईश्वरो जगद्-उत्पत्ति-स्थिति-लय-हेतुत्वं प्रतिपद्यते । तत्र क्षेत्र-क्षेत्रज्ञ-लक्षण-प्रकृति-द्वय-निरूपण-द्वारेण तद्वत ईश्वरस्य तत्त्व-निर्धारणार्थं क्षेत्राध्याय आरभ्यते । अतीतानन्तराध्याये च अद्वेष्टा सर्व-भूतानां [गीता 12.13] इत्य् आदिना यावद्-अध्याय-परिसमाप्तिस् तावत् तत्त्व-ज्ञानिनां सन्न्यासिनां निष्ठा यथा ते वर्तन्त इत्य् एतद् उक्तम् । केन पुनस् ते तत्त्व-ज्ञानेन युक्ता यथोक्त-धर्माचरणाद् भगवतः प्रिया भवन्त्य् एवम् अर्थश् चायम् अध्याय आरभ्यते । प्रकृतिश् च त्रिगुणात्मिका सर्व-कार्य-करण-विषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थ-कर्तव्यतया
देहेन्द्रियाद्याकारेण संहन्यते । सो ऽयं सङ्घात इदं शरीरम् । तद् एतद् भगवान् उवाच --
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्-विदः
इदम् इति सर्व-नाम्नोक्तं विशिनष्टि शरिरम् इति । हे कौन्तेय ! क्षत-त्राणात् क्षयात् क्षरणात्, क्षेत्रवद् वास्मिन् कर्म-फल-निष्पत्तेः क्षेत्रम् इति । इति-शब्द एवं-शब्देदार्थकः । क्षेत्रम् इत्य् एवम् अभिधीयते कथ्यते । एतच् छरीरं क्षेत्रं यो वेत्ति विजानाति, आपाद-तल-मस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेनौपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति । इति-शब्दः एवं-शब्द-पदार्थक एव पूर्ववत् । क्षेत्रज्ञः इत्य् एवम् आहुः । के ? तद्-विदस् तौ क्षेत्र-क्षेत्रज्ञौ ये विदन्ति ते तद्-विदः
==============================
एवं क्षेत्र-क्षेत्रज्ञौ उक्तौ । किम् एतावन्-मात्रेण ज्ञानेन ज्ञातव्यौ? इति नेत्य् उच्यते -
क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम
क्षेत्रज्ञं यथोक्त-लक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि । सर्व-क्षेत्रेषु यः क्षेत्रज्ञो ब्रह्मादि-स्तम्ब-पर्यन्तानेक-क्षेत्रोपाधि-प्रविभक्तः । तं निरस्त-सर्वोपाधि-भेदं सद्-असद्-आदि-शब्द-प्रत्ययागोचरं विद्धीत्य् अभिप्रायः । हे भारत ! यस्मात् क्षेत्र-क्षेत्रज्ञेश्वर-याथात्म्य-व्यतिरेकेण न ज्ञान-गोचरम् अन्यद् अवशिष्टम् अस्ति, तस्मात् क्षेत्र-क्षेत्रज्ञयोर् ज्ञेय-भूतयोर् यज् ज्ञानं क्षेत्र-क्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तज् ज्ञानं सम्यग्-ज्ञानम् इति मतम् अभिप्रायः ममेश्वरस्य विष्णोः ॥
ननु सर्व-क्षेत्रेष्व् एक एवेश्वरः । नान्यस् तद्-व्यतिरिक्तो भोक्ता विद्यते चेत्, तत ईश्वरस्य संसारित्वं प्राप्तम् । ईश्वर-व्यतिरेकेण वा संसारिणो ऽन्यस्याभावात् संसाराभाव-प्रसङ्गः । तच् चोभयम् अनिष्टम्, बन्ध-मोक्ष-तद्-धेतु-शास्त्रानर्थक्य-प्रसङ्गात्, प्रत्यक्षादि-प्रमाण-विरोधाच् च । प्रत्यक्षेण तावत् सुख-दुःख-तद्-धेतु-लक्षणः संसार उपलभ्यते । जगद्-वैचित्र्योपलब्धे च धर्माधर्म-निमित्तः संसारो ऽनुमीयते । सर्वम् एतद् अनुपपन्नम् आत्मेश्वरैकत्वे । न । ज्ञानाज्ञानयोर् अन्यत्वेनोपपत्तेः । दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता [कठु 1.2.4] तथा तयोर् विद्याविद्या-विषययोः फल-भेदो ऽपि विरुद्धो निर्दिष्टः - श्रेयश् च प्रेयश् च [कठु 1.2.2] इति । विद्या-विषयः श्रेयः, प्रेयस् त्व् अविद्या-कार्यम् इति । तथा च व्यासः - द्वाव्
इमाव् अथ पन्थानौ [म्भ् 12.241.6] इत्य् आदि, इमौ द्वाव् एव पन्थानाव् इत्य् आदि च । इह च द्वे निष्ठे उक्ते । अविद्या च सह कार्येण विद्यया हातव्येति श्रुति-स्मृति-न्यायेभ्यो ऽवगम्यते ।
श्रुतयस् तावत् - इह चेद् अवेदीद् अथ सत्यम् अस्ति न चेद् इहावेदीन् महती विनष्टिः [केनौ 2.5],
तम् एवं विद्वान् अमृत इह भवति [तैत्ता 3.12], नान्यः पन्था विद्यते ऽयनाय [श्वेतु 3.8] विद्वान् न बिभेति कुतश्चन [तैत्तु 2.9] ।
अविदुषस् तु - अथ तस्य भयं भवति [तैत्तु 2.7], अविद्यायाम् अन्तरे वर्तमानाः [कठु 1.2.5], ब्रह्म वेद ब्रह्मैव भवति [मुण्डु 3.2.9], अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद यथा पशुर् एवं स देवानाम् [बौ 1.4.10] । आत्मविद् यः स इदं सर्वं भवति [बौ 1.4.10], यदा चर्मवत् [श्वेतु 6.20] इत्य् आद्याः सहस्रशः ।
स्मृतयश् च - अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता 5.25], इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः [गीता 5.19], समं पश्यन् हि सर्वत्र [गीता 13.29] इत्य् आद्याः ।
न्यायतश् च -
सर्पान् कुशाग्राणि तथोदपानं
ज्ञात्वा मनुष्याः परिवर्जयन्ति ।
अज्ञानतस् तत्र पतन्ति केचिज् ज्ञाने
फलं पश्य यथा-विशिष्टम् ॥ [म्भ् 12.201.17] इति ।
तथा च - देहादिषु आत्म-बुद्धिर् अविद्वान् राग-द्वेषादि-प्रयुक्तो धर्माधर्मानुष्ठान-कृज् जायते म्रियते चेत्य् अवगम्यते । देहादि-व्यतिरिक्तात्म-दर्शिनो राग-द्वेषादि-प्रहाणापेक्ष-धर्माधर्म-प्रवृत्त्य्-उपशमान् मुच्यन्त इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः । तत्रैवं सति, क्षेत्रज्ञस्येश्वरस्यैव सतो ऽविद्या-कृतोपाधि-भेदतः संसारित्वम् इव भवति, यथा देहाद्य्-आत्मत्वम् आत्मनः । सर्व-जन्तूनां हि प्रसिद्धो देहादिष्व् अनात्मसु आत्म-भावो निश्चितो ऽविद्या-कृतः, यथा स्थाणौ पुरुष-निश्चयः । न चैतावता पुरुष-धर्मः स्थाणोर् भवति, स्थाणु-धर्मो वा पुरुषस्य । तथा न चैतन्य-धर्मो देहस्य, देह-धर्मो वा चेतनस्य सुख-दुःख-मोहात्मकत्वादिर् आत्मनो न युक्तः । अविद्या-कृतत्वाविशेषात्, जरा-मृत्युवत् ।
न, अतुल्यत्वात् । इति चेत् - स्थाणु-पुरुषौ ज्ञेयाव् एव सन्तौ ज्ञात्रान्योन्यस्मिन्न् अध्यस्ताव् अविद्यया । देहात्मनोस् तु ज्ञेय-ज्ञात्रोर् एव इतरेतराध्यासः, इति न समो दृष्टान्तः ।
अतो देह-धर्मो ज्ञेयो ऽपि ज्ञातुर् आत्मनो भवतीति चेत्, न । अचैतन्यादि-प्रसङ्गात् । यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुख-दुःख-मोहेच्छादयो ज्ञातुर् भवन्ति, तर्हि, ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनो भवन्त्य् अविद्याध्यारोपिताः, जरा-मरणादयस् तु न भवन्तीति विशेष-हेतुर् वक्तव्यः । न भवन्तीत्य् अस्त्य् अनुमानम् - अविद्याध्यारोपितत्वाज् जरा-मरणादिवद् इति, हेयत्वात्, उपादेयत्वाच् चेत्य् आदि ।
तत्रैवं सति, कर्तृत्व-भोक्तृत्व-लक्षणः संसारो ज्ञेय-स्थो ज्ञातर्य् अविद्ययाध्यारोपित इति, न तेन ज्ञातुः किंचिद् दुष्यति । यथा बालैर् अध्यारोपितेनाकाशस्य तल-मलिनत्वादिना ।
एवं च सति, सर्व-क्षेत्रेष्व् अपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्व-गन्ध-मात्रम् अपि नाशङ्कयम् । न हि क्वचिद् अपि लोके ऽविद्याध्यस्तेन धर्मेण कस्यचिद् उपकारो ऽपकारो वा दृष्टः ।
यत् तूक्तम् - न समो दृष्टान्त इति, तद् असत् । कथम् ? अविद्याध्यास-मात्रं हि दृष्टान्त-दार्ष्टान्तिकयोः साधर्म्यं विवक्षितम् । तन् न व्यभिचरति । यत् तु ज्ञातरि व्यभिचरतीति मन्यसे, तस्याप्य् अनैकान्तिकत्वं दर्शितं जरादिभिः ॥
अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्, न । अविद्यायास् तामसत्वात् । तामसो हि प्रत्ययः, आवरणात्मकत्वाद् अविद्या विपरीत-ग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा । विवेक-प्रकाश-भावे तद्-अभावात् तामसे चावरणात्मके तिमिरादि-दोषे सत्य् अग्रहणादेर् अविद्या-त्रयस्य उपलब्धेः ॥
अत्राह - एवं तर्हि ज्ञातृ-धर्मो ऽविद्या । न । करणे चक्षुषि तैमिरिकत्वादि-दोषोपलब्धेः । यत् तु मन्यसे - ज्ञातृ-धर्मो ऽविद्या, तद् एव चाविद्या-धर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् । तत्र यद् उक्तम् ईश्वर एव क्षेत्रज्ञः, न संसारीत्य् एतद् अयुक्तम् इति, तन् न । यथा करणे चक्षुषि विपरीत-ग्राहकादि-दोषस्य दर्शनात् । न विपरीतादि-ग्रहणं तन्-निमित्तं वा तैमिरिकत्वादि-दोषो ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे ऽपनीते ग्रहीतुर् अदर्शनान् न ग्रहीतुर् धर्मो यथा । तथा सर्वत्रैवाग्रहण-विपरीत-संशय-प्रत्ययास् तन्-निमित्ताः करणस्यैव कस्यचित् भवितुम् अर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच् च तेषां प्रदीप-प्रकाशवन् न ज्ञातृ-धर्मत्वम् । संवेद्यत्वाद् एव स्वात्म-व्यतिरिक्त-संवेद्यत्वम् । सर्व-करण-वियोगे च कैवल्ये सर्व-वादिभिर्
अविद्यादि-दोषवत्-त्वानभ्युपगमात् । आत्मनो यदि क्षेत्रज्ञस्याग्न्य्-उष्णवत् स्वो धर्मः, ततो न कदाचिद् अपि तेन वियोगः स्यात् । अविक्रियस्य च व्योमवत् सर्व-गतस्यामूर्तस्य आत्मनः केनचित् संयोग-वियोगानुपपत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यम् एवेश्वरत्वम् । अनादित्वान् निर्गुणत्वाद् [गीता 13.32] इत्य् आदीश्वर-वचनाच् च ॥
नन्व् एवं सति संसार-संसारित्वाभावे शास्त्रानर्थक्यादि-दोषः स्याद् इति चेत्, न । सर्वैर् अभ्युपगतत्वात् । सर्वैर् ह्य् आत्म-वादिभिर् अभ्युपगतो दोषो नैकेन परिहर्तव्यो भवति । कथम् अभ्युपगत इति ? मुक्तात्मनां हि संसार-संसारित्व-व्यवहाराभावः सर्वैर् एव आत्म-वादिभिर् इष्यते । न च तेषां शास्त्रानर्थक्यादि-दोष-प्राप्तिर् अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु । अविद्या-विषये चार्थवत्त्वम् - यथा द्वैतिनां सर्वेषां बन्धावस्थायाम् एव शास्त्राद्य्-अर्थवत्त्वम्, न मुक्तावस्थायाम्, एवम् ॥
नन्व् आत्मनो बन्ध-मुक्तावस्थे परमार्थत एव वस्तु-भूते द्वैतिनां सर्वेषाम् । अतो हेयोपादेय-तत्-साधन-सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात् । अद्वैतिनां पुनः, द्वैतस्यापरमार्थत्वात्, अविद्या-कृतत्वाद् बन्धावस्थायाश् चात्मनो ऽपरमार्थत्वे निर्विषयत्वात्, शास्त्राद्यानर्थक्यम् इति चेत्, न । आत्मनो ऽवस्था-भेदानुपपत्तेः । यदि तावत् आत्मनो बन्ध-मुक्तावस्थे, युगपत् स्याताम्, क्रमेण वा । युगपत् तावत् विरोधान् न संभवतः स्थिति-गती इवैकस्मिन् । क्रम-भावित्वे च, निर्निमित्तत्वं स-निमित्तत्वं वा ? निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गः । स-निमित्तत्वे च स्वतो ऽभावात् अपरमार्थत्व-प्रसङ्गः । तथा च सत्य् अभ्युपगम-हानिः ।
किं च, बन्ध-मुक्तावस्थयोः पौर्वापर्य-निरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमत्य् अन्तवती च । तच् च प्रमाण-विरुद्धम् । तथा मोक्षावस्थादिमत्य् अनन्ता च प्रमाण-विरुद्धैवाभ्युपगम्यते । न चावस्थावतो ऽवस्थान्तरं गच्छतो नित्यत्वम् उपपादयितुं शक्यम् । अथानित्यत्व-दोष-परिहाराय बन्ध-मुक्तावस्था-भेदो न कल्प्यते । अतो द्वैतिनाम् अपि शास्त्रानर्थक्यादि-दोषो ऽपरिहार्य एव । इति समानत्वान् नाद्वैत-वादिना परिहर्तव्यो दोषः ॥
न च शास्त्रानर्थक्यम्, यथा-प्रसिद्धाविद्वत्-पुरुष-विषयत्वाच् छास्त्रस्य । अविदुषां हि फल-हेत्वोर् अनात्मनोर् आत्म-दर्शनम्, न विदुषाम् । विदुषां हि फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शने सति, तयोर् अहम् इत्य् आत्म-दर्शनानुपपत्तेः । न ह्य् अत्यन्त-मूढ उन्मत्तादिर् अपि जलाग्न्योश् छाया-प्रकाशयोर् वैकात्म्यं पश्यति । किम् उत विवेकी । तस्मान् न विधि-प्रतिषेध-शास्त्रं तावत् फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शिनो भवति ।
न हि "देवदत्त, त्वम् इदं कुरु" इति कस्मिंश्चित् कर्मणि नियुक्ते, "विष्णुमित्रो ऽहं नियुक्तः" इति तत्र-स्थो नियोगं सृण्वन्न् अपि प्रतिपद्यते । वियोग-विषय-विवेकाग्रहणात् तूपपद्यते प्रतिपत्तिः । तथा फल-हेत्वोर् अपि ॥
ननु प्राकृत-संबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थ-विषया - फल-हेतुभ्याम् अन्यात्म-विषय-दर्शने ऽपि सति - इष्ट-फल-हेतौ प्रवर्तितो ऽस्मि, अनिष्ट-फल-हेतोश् च निवर्तितो ऽस्मीति । यथा पितृ-पुत्रादीनाम् इतरेतरात्मान्यत्व-दर्शने सत्य् अप्य् अन्योन्य-नियोग-प्रतिषेधार्थ-प्रतिपत्तिः । न । व्यतिरिक्तात्म-दर्शन-प्रतिपत्तेः प्राग् एव फल-हेत्वोर् आत्माभिमानस्य सिद्धत्वात् । प्रतिपन्न-नियोग-प्रतिषेधार्थो हि फल-हेतुभ्याम् आत्मनो ऽन्यत्वं प्रतिपद्यते, न पूर्वम् । तस्माद् विधि-प्रतिषेध-शास्त्रम् अविद्वद्-विषयम् इति सिद्धम् ॥
ननु स्वर्ग-कामो यजेत [अप्.श्र्.स्. 10.2.1] न कलञ्जं भक्षयेद् इत्य् आदाव् आत्म-व्यतिरेक-दर्शिनाम् अप्रवृत्तौ, केवल-देहाद्य्-आत्म-दृष्टीनां च । अतः कर्तुर् अभावाच् छास्त्रानर्थक्यम् इति चेत्, न । यथा-प्रसिद्धित एव प्रवृत्ति-निवृत्त्य्-उपपत्तेः । ईश्वर-क्षेत्रज्ञैकत्व-दर्शी ब्रह्म-वित् तावन् न प्रवर्तते । तथा नैरात्म्यवाद्य् अपि नास्ति पर-लोक इति न प्रवर्तते । यथा-प्रसिद्धितस् तु विधि-प्रतिषेध-शास्त्र-श्रवणान्यथानुपपत्त्यानुमितात्मास्तित्व आत्म-विशेषानभिज्ञः कर्म-फल-संजात-तृष्णः श्रद्दधानतया च प्रवर्तते । इति सर्वेषां न प्रत्यक्षम् । अतो न शास्त्रानर्थक्यम् ॥
विवेकिनाम् अप्रवृत्ति-दर्शनात् तद्-अनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्, न । कस्यचिद् एव विवेकोपपत्तेः । अनेकेषु हि प्राणिषु कश्चिद् एव विवेकी स्यात्, यथेदानीम् । न च विवेकिनम् अनुवर्तन्ते मूढाः, रागादि-दोष-तन्त्रत्वात् प्रवृत्तेः, अभिचरणादौ च प्रवृत्ति-दर्शनात्, स्वाभाव्याच् च प्रवृत्तेः । स्वभावस् तु प्रवर्तते [गीता 5.14] इति हि उक्तम् ॥
तस्मात् अविद्या-मात्रं संसारो यथा-दृष्ट-विषय एव । न क्षेत्रज्ञस्य केवलस्याविद्या तत्-कार्यं च । न च मिथ्या-ज्ञानं परमार्थ-वस्तु दूषयितुं समर्थम् । न ह्य् ऊषर-देशं स्नेहेन पङ्की-कर्तुं शक्नोति मरीच्य्-उदकम् । तथाविद्या क्षेत्रज्ञस्य न किंचित् कर्तुं शक्नोति । अतश् चेदम् उक्तम् - क्षेत्रज्ञं चापि मां विद्धि । अज्ञानेनावृतं ज्ञानम् [गीता 5.15] इति च ॥
अथ किम् इदं संसारिणाम् इवाहम् एवम् ममैवेदम् इति पण्डितानाम् अपि ? सृणु । इदं तत् पाण्डित्यम्, यत् क्षेत्र एवात्म-दर्शनम् । यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुस् ततो न भोगं कर्म वाकाङ्क्षेयुर् मम स्याद् इति । विक्रियैव भोग-कर्मणी । अथैवं सति, फलार्थित्वाद् अविद्वान् प्रवर्तते । विदुषः पुनर् अविक्रियात्म-दर्शिनः फलार्थित्वाभावात् प्रवृत्त्य्-अनुपपत्तौ कार्य-करण-संघात-व्यापारोपरमे निवृत्तिर् उपचर्यते ॥
इदं चान्यत् पाण्डित्यं कस्यचिद् अस्तु - क्षेत्रज्ञ ईश्वर एव । क्षेत्रं चान्यत् क्षेत्रज्ञस्यैव विषयः । अहं तु संसारी सुखी दुःखी च । संसारोपरमश् च मम कर्तव्यः क्षेत्र-क्षेत्रज्ञ-विज्ञानेन, ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात् कृत्वा तत्-स्वरूपावस्थानेनेति । यश् चैवं बुध्यते, यश् च बोधयति, नासौ क्षेत्रज्ञ इति । एवं मन्वानो यः स पण्डितापशब्दः । संसार-मोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीति । आत्महा स्वयं मूढो ऽन्यां च व्यामोहयति शास्त्रार्थ-संप्रदाय-रहितत्वात्, श्रुत-हानिम् अश्रुत-कल्पनां च कुर्वन् । तस्मात् असंप्रदाय-वित् सर्व-शास्त्र-विद् अपि मूर्खवद् एव उपेक्षणीयः ॥
यत् तूक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति । क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग इति । एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोर् वैलक्षण्याभ्युपगमाद् इति । कथम् ? अविद्या-परिकल्पित-दोषेण तद्-विषयं वस्तु पारमार्थिकं न दुष्यतीति । तथा च दृष्टन्तो दर्शितः - मरीच्य्-अम्भसा ऊषर-देशो न पङ्कीक्रियत इति । संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग-दोषो ऽपि संसार-संसारिणोर् अविद्या-कल्पितत्वोपपत्त्या प्रत्युक्तः ॥
ननु अविद्यावत्त्वम् एव क्षेत्रज्ञस्य संसारित्व-दोषः । तत्-कृतं च सुखित्व-दुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्, न । ज्ञेयस्य क्षेत्र-धर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्-कृत-दोषानुपपत्तेः । यावत् किंचित् क्षेत्रज्ञस्य दोष-जातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्र-धर्मत्वम् एव, न क्षेत्रज्ञ-धर्मत्वम् । न च तेन क्षेत्रज्ञो दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः । यदि हि संसर्गः स्यात्, ज्ञेयत्वम् एव नोपपद्येत । यद्य् आत्मनो धर्मो ऽविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते । कथं वा क्षेत्रज्ञ-धर्मः । ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्य् अवधारिते, अविद्या-दुःखित्वादेः क्षेत्रज्ञ-विशेषणत्वं क्षेत्रज्ञ-धर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते ऽविद्या-मात्रावष्टम्भात्
केवलम् ॥
अत्राह - साविद्या कस्य ? इति । यस्य दृश्यते तस्यैव । कस्य दृश्यते ? इति । अत्रोच्यते - अविद्या कस्य दृश्यते इति प्रश्नो निरर्थकः । कथम् ? दृश्यते चेद् अविद्या, तद्वन्तम् अपि पश्यसि । न च तद्वत्य् उपलभ्यमाने सा कस्य ? इति प्रश्नो युक्तः । न हि गोमति उपलभ्यमाने गावः कस्य ? इति प्रश्नो ऽर्थवान् भवति ।
ननु विषमो दृष्टान्तः । गवां तद्वतश् च प्रत्यक्षत्वात् तत्-संबन्धो ऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः । न तथाविद्या तद्वांश् च प्रत्यक्षौ, यतः प्रश्नो निरर्थकः स्यात् । अप्रत्यक्षेणाविद्यावताविद्या-संबन्धे ज्ञाते, किं तव स्यात् ? अविद्याया अनर्थ-हेतुत्वात् परिहर्तव्या स्यात् । यस्याविद्या, स तां परिहरिष्यति ।
ननु ममैवाविद्या । जानासि तर्ह्य् अविद्यां तद्वन्तं च आत्मानम् । जानामि, न तु प्रत्यक्षेण । अनुमानेनश् चेज् जानासि, कथं संबन्धग्रहणम् ? न हि तव ज्ञातुः ज्ञेय-भूतयाविद्यया तत्-काले संबन्धो ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुर् उपयुक्तत्वात् । न च ज्ञातुर् अविद्याया च संबन्धस्य यो ग्रहीता, ज्ञानं चान्यत् तद्-विषयं संभवति । अनवस्था-प्राप्तेः । यदि ज्ञात्रापि ज्ञेय-संबन्धो ज्ञायते, अन्यो ज्ञाता कल्प्यः स्यात्, तस्याप्य् अन्यः, तस्याप्य् अन्यः इत्य् अनवस्थापरिहार्या । यदि पुनर् अविद्या ज्ञेया, अन्यद् वा ज्ञेयं ज्ञेयम् एव । तथा ज्ञातापि ज्ञातैव, न ज्ञेयं भवति । यदा चैवम्, अविद्या-दुःखित्वाद्यैर् न ज्ञातुः क्षेत्रज्ञस्य किंचित् दुष्यति ॥
ननु अयम् एव दोषः, यत् दोषवत्-क्षेत्र-विज्ञातृत्वम् । न च विज्ञान-स्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात् । यथोष्णता-मात्रेणाग्नेस् तप्ति-क्रियोपचारः, तद्वत् । यथात्र भगवता क्रियाकारक-फलात्मत्वाभाव आत्मनि स्वत एव दर्शितः - अविद्याध्यारोपित एव क्रिया-कारकादिर् आत्मन्य् उपचर्यते । तथा तत्र तत्र य एनं वेत्ति हन्तारम् [गीता 2.19], प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः [गीता 3.27], नादत्ते कस्यचित् पापम् [गीता 5.15] इत्य् आदि-प्रकरणेषु दर्शितः । तथैव च व्याख्यातम् अस्माभिः । उत्तरेषु च प्रकरणेषु दर्शयिष्यामः ॥
हन्त ! तर्ह्य् आत्मनि क्रिया-कारक-फलात्मतायाः स्वतो ऽभावे, अविद्यया चाध्यारोपितत्वे, कर्माण्य् अविद्वत्-कर्तव्यान्य् एव, न विदुषाम् इति प्राप्तम् । सत्यम् एवं प्राप्तम्, एतद् एव च न हि देह-भृता शक्यम् इत्य् अत्र दर्शयिष्यामः । सर्व-शास्त्रार्थोपसंहार-प्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा इत्य् अत्र विशेषतो दर्शयिष्यामः । अलम् इह बहु-प्रपञ्चनेन, इति उपसंह्रियते
==============================
इदं शरीरम् [गीता 13.2] इत्य्-आदि-श्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रह-श्लोको ऽयम् उपन्यस्यते तत् क्षेत्रं यच् चेत्य् आदि, व्याचिख्यासितस्य ह्य् अर्थस्य संग्रहोपन्यासो न्याय्य इति -
तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् ।
स च यो यत्-प्रभावश् च तत् समासेन मे शृणु
यन् निर्दिष्टम् इदं शरीरम् इति तत् तच्-छब्देन परामृशति । यच् च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैर् धर्मैः । च-शब्दः समुच्चयार्थः । यद्-विकारि यो विकारो यस्य तत् यद्-विकारि, यतो यस्माच् च यत्, कार्यम् उत्पद्यते इति वाक्य-शेषः । स च यः क्षेत्रज्ञो निर्दिष्टः स यत्-प्रभावो ये प्रभावा उपाधि-कृताः शक्तयो यस्य स यत्-प्रभावश् च । तत् क्षेत्र-क्षेत्रज्ञयोर् याथात्म्यं यथा-विशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु । श्रुत्वावधारय इत्य् अर्थः
==============================
तत् क्षेत्र-क्षेत्रज्ञ-याथात्म्यं विवक्षितं स्तौति श्रोतृ-बुद्धि-प्ररोचनार्थम् -
ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् ।
ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः
ऋषिभिर् वसिष्ठादिभिर् बहुधा बहु-प्रकारं गीतं कथितम् । छन्दोभिश् छन्दांसि ऋग्-आदीनि तैश् छन्दोभिर् विविधैर् नाना-भावैर् नाना-प्रकारैः पृथग् विवेकतो गीतम् । किं च, ब्रह्म-सूत्र-पदैश् चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्म-सूत्राणि तैः पद्यते गम्यते ज्ञायत इति तानि पदान्य् उच्यन्ते तैर् एव च क्षेत्र-क्षेत्रज्ञ-याथात्म्यम् गीतम् इत्य् अनुवर्तते । आत्मेत्य् एवोपासीत इत्य् एवम् आदिभिर् ब्रह्म-सूत्र-पदैर् आत्मा ज्ञायते । हेतुमद्भिर् युक्ति-युक्तैर् विनिश्चितैर् निःसंशय-रूपैर् निश्चित-प्रत्ययोत्पादकैर् इत्य् अर्थः
==============================
स्तुत्याभिमुखीभूतायार्जुनायाह भगवान् -
महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः
महा-भूतानि महान्ति च तानि सर्व-विकार-व्यापकत्वाद् भूतानि च सूक्ष्माणि । स्थूलानि त्व् इन्द्रिय-गोचर-शब्देनाभिधायिष्यन्ते । अहंकारो महा-भूत-कारणम् अहं-प्रत्यय-लक्षणः । अहंकार-कारणं बुद्धिर् अध्यवसाय-लक्षणा । तत्-कारणम् अव्यक्तम् एव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वर-शक्तिर् मम माया दुरत्यया इत्य् उक्तम् । एव-शब्दः प्रकृत्य्-अवधारणार्थ एतावत्य् एवाष्टधा भिन्ना प्रकृतिः । च-शब्दो भेद-समुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्य्-उत्पादकत्वाद् बुद्धीन्द्रियाणि । वाक्-पाण्य्-आदीनि पञ्च कर्म-निर्वर्तकत्वात् कर्मेन्द्रियाणि । तानि दश । एकं च । किं तत् ? मन एकादशं संकल्पाद्यात्मकम् । पञ्च चेन्द्रिय-गोचराः शब्दादयो विषयाः । तान्य् एतानि सांख्याश् चतुर्-विंशति-तत्त्वान्य् आचक्षते
==============================
अथेदानीं आत्म-गुणाः इति यान् आचक्षते वैशेषिकास् ते ऽपि क्षेत्र-धर्मा एव, न तु क्षेत्रज्ञस्येत्य् आह भगवान् -
इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः ।
एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम्
इच्छा यज्-जातीयं सुख-हेतुम् अर्थम् उपलब्धवान् पूर्वम्, पुनस् तज्-जातीयम् उपलभमानस् तम् आदातुम् इच्छति सुख-हेतुर् इति । सेयं इच्छान्तः-करण-धर्मो ज्ञेयत्वात् क्षेत्रम् । तथा द्वेषः, यज्-जातीयम् अर्थं दुःख-हेतुत्वेनानुभूतवान्, पुनस् तज्-जातीयम् अर्थम् उपलभमानस् तं द्वेष्टि । सो ऽयं द्वेषो ज्ञेयत्वात् क्षेत्रम् एव । तथा सुखम् अनुकूलं प्रसन्न-सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रम् एव । दुःखं प्रतिकूलात्मकम् । ज्ञेयत्वात् तद् अपि क्षेत्रम् । संघातो देहेन्द्रियाणां संहतिः । तस्याम् अभिव्यक्तान्तःकरण-वृत्तिः, तप्त इव लोह-पिण्डे ऽग्निः । आत्म-चैतन्याभास-रस-विद्धा चेतना । सा च क्षेत्रं ज्ञेयत्वात् । धृतिर् ययावसाद-प्राप्तानि देहेन्द्रियाणि ध्रियन्ते । सा च ज्ञेयत्वात् क्षेत्रम् । सर्वान्तः-करण-धर्मोपलक्षणार्थम् इच्छादि-ग्रहणम् । यत
उक्तम् उपसंहरति - एतद् इति । एतत् क्षेत्रं समासेन स-विकारं सह विकारेण महद्-आदिना उदाहृतम् उक्तम्
==============================
यस्य क्षेत्र-भेद-जातस्य संहतिः इदं शरीरं क्षेत्रम् [गीता 13.2] इत्य् उक्तम् । तत् क्षेत्रं व्याख्यातं महा-भूतादि-भेद-भिन्नं धृत्य्-अन्तम् । क्षेत्रज्ञो वक्ष्यमाण-विशेषणः - यस्य स-प्रभावस्य क्षेत्रज्ञस्य परिज्ञानाद् अमृतत्वं भवति, तम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् आदिना स-विशेषणं स्वयम् एव वक्ष्यति भगवान् । अधुना तु तज्-ज्ञान-साधन-गणम् अमानित्वादि-लक्षणम्, यस्मिन् सति तज्-ज्ञेय-विज्ञाने योग्यो ऽधिकृतो भवति, यत्-परः संन्यासी ज्ञान-निष्ठ उच्यते, तम् अमानित्वादि-गणं ज्ञान-साधनत्वाज् ज्ञान-शब्द-वाच्यं विदधाति भगवान् -
अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् ।
आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः
अमानित्वं मानिनो भावः मानित्वम् आत्मनो श्लाघनम्, तद्-अभावो ऽमानित्वम् । अदम्भित्वं स्व-धर्म-प्रकटीकरणं दम्भित्वम्, तद्-अभावो ऽदम्भित्वम् । अहिंसा हिंसनं प्राणिनाम् अपीडानम् । क्षान्तिः परापराध-प्राप्ताव् अविक्रिया । आर्जवम् ऋजु-भावो ऽवक्रत्वम् । आचार्योपासनं मोक्ष-साधनोपदेष्टुर् आचार्यस्य शुश्रूषादि-प्रयोगेण सेवनम् । शौचं काय-मलानां मृज्-जलाभ्यां प्रक्षालनम् । अन्तश् च मनसः प्रतिपक्ष-भावनया रागादि-मलानाम् अपनयनं शौचम् । स्थैर्यं स्थिर-भावः, मोक्ष-मार्ग एव कृताध्यवसायत्वम् । आत्म-विनिग्रह आत्मनो ऽपकारकस्य आत्म-शब्द-वाच्यस्य कार्य-करण-संघातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्-मार्ग एव निरोध आत्म-विनिग्रहः
==============================
किं च -
इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च ।
जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम्
इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विराग-भावो वैराग्यम् । अनहंकारो ऽहंकाराभाव एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनं जन्म च मृत्युश् च जरा च व्याधयश् च दुःखानि च तेषु जन्मादि-दुःखान्तेषु प्रत्येकं दोषानुदर्शनम् । जन्मनि गर्भ-वास-योनि-द्वार-निःसरणं दोषः, तस्यानुदर्शनम् आलोचनम् । तथा मृत्यौ दोषानुदर्शनम् । तथा जरायां प्रज्ञा-शक्ति-तेजो-निरोध-दोषानुदर्शनं परिभूतता चेति । तथा व्याधिषु शिरो-रोगादिषु दोषानुदर्शनम् । तथा दुःखेषु अध्यात्माधिभूताधिदैव-निमित्तेषु । अथवा दुःखान्य् एव दोषो दुःख-दोषस् तस्य जन्मादिषु पूर्ववद् अनुदर्शनम् । दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःख-निमित्तत्वाज्
जन्मादयो दुःखम्, न पुनः स्वरूपेणैव दुःखम् इति । एवं जन्मादिषु दुःख-दोषानुदर्शनाद् देहेन्द्रियादि-विषय-भोगेषु वैराग्यम् उपजायते । ततः प्रत्यग्-आत्मनि प्रवृत्तिः करणानाम् आत्म-दर्शनाय । एवं ज्ञान-हेतुत्वाज् ज्ञानम् उच्यते जन्मादि-दुःख-दोषानुदर्शनम्
==============================
किं च -
असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु ।
नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु
असक्तिः सक्तिः सङ्ग-निमित्तेषु विषयेषु प्रीति-मात्रम्, तद्-अभावो ऽसक्तिः । अनभिष्वङ्गो ऽभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्ति-विशेष एवानन्यात्म-भावना-लक्षणः । यथान्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी, दुःखी च, जीवति मृते वाहम् एव जीवामि मरिष्यामि चेति । क्व ? इत्य् आह - पुत्र-दार-गृहादिषु । पुत्रेषु दारेषु गृहेष्व् आदि-ग्रहणाद् अन्येष्व् अप्य् अत्यन्तेष्टेषु दास-वर्गादिषु । तच् चोभयं ज्ञानार्थत्वाज् ज्ञानम् उच्यते । नित्यं च सम-चित्तत्वं तुल्य-चित्तता । क्व ? इष्टानिष्टोपपत्तिष्व् इष्टानाम् अनिष्टानां चोपपत्तयः संप्राप्तयस् तास्व् इष्टानिष्टोपपत्तिषु नित्यम् एव तुल्य-चित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति चानिष्टोपपत्तिषु । तच् चैतन् नित्यं सम-चित्तत्वं ज्ञानम्
==============================
किं च -
मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी ।
विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि
मयि चेश्वरे ऽनन्य-योगेन अपृथक्-समाधिना नान्यो भगवतो वासुदेवात् परो ऽस्ति, अतः स एव नो गतिर् इत्य् एवं निश्चिताव्यभिचारिणी बुद्धिर् अनन्य-योगः, तेन भजनं भक्तिर् न व्यभिचरण-शीला अव्यभिचारिणी । सा च ज्ञानम् । विविक्त-देश-सेवित्वम् । विविक्तः स्वभावतः संस्कारेण वाशुच्य्-आदिभिः सर्प-व्याघ्रादिभिश् च रहितो ऽरण्य-नदी-पुलिन-देव-गृहादिभिर् विविक्तो देशः, तं सेवितुं शीलम् अस्येति विविक्त-देश-सेवी, तद्-भावो विविक्त-देश-सेवित्वम् । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतस् ततः आत्मादि-भावना विविक्त उपजायते । अतो विवक्त-देश-सेवित्वं ज्ञानम् उच्यते । अरतिर् अरमणं जन-संसदि । जनानां प्राकृतानां संस्कार-शून्यानाम् अविनीतानां संसत् समवायो जन-संसत् । न संस्कारवतां विनीतानां संसत् । तस्या ज्ञानोपकारकत्वात् । अतः
प्राकृत-जन-संसद्य् अरतिर् ज्ञानार्थत्वाज् ज्ञानम्
==============================
किं च -
अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् ।
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा
अध्यात्म-ज्ञान-नित्यत्वम् आत्मादि-विषयं ज्ञानम् अध्यात्म-ज्ञानम्, तस्मिन् नित्य-भावो नित्यत्वम् । अमानित्वादीनां ज्ञान-साधनानां भावना-परिपाक-निमित्तं तत्त्व-ज्ञानम्, तस्यार्थो मोक्षः संसारोपरमः । तस्यालोचनं तत्त्व-ज्ञानार्थ-दर्शनम् । तत्त्व-ज्ञान-फलालोचने हि तत्-साधनानुष्ठाने प्रवृत्तिः स्याद् इति । एतद् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् उक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यद् अतो ऽस्माद् यथोक्ताद् अन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा क्षान्तिर् अनार्जवम् इत्य् आद्य् अज्ञानं विज्ञेयं परिहरणाय, संसार-प्रवृत्ति-कारणत्वाद् इति
==============================
यथोक्तेन ज्ञानेन ज्ञातव्यं किम् ? इत्य् आकाङ्क्षायाम् आह -
ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते ।
अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते
ननु यमाः नियमाश् चामानित्वादयः । न तैर् ज्ञेयं ज्ञायते । न ह्य् अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्-विषयं ज्ञानं तद् एव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न ह्य् अन्य-विषयेण ज्ञानेनान्यद् उपलभ्यते, यथा घट-विषयेण ज्ञानेनाग्निः । नैष दोषः । ज्ञान-निमित्तत्वाज् ज्ञानम् उच्यत इति ह्य् अवोचाम । ज्ञान-सहकारि-कारणत्वाच् च । ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किं-फलं तत् ? इति प्ररोचनेन श्रोतुर् अभिमुखीकरणायाह - यज् ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते, न पुनर् म्रियत इत्य् अर्थः । अनादिमत् आदिर् अस्यास्तीति आदिमत्, नादिमद् अनादिमत् । किं तत् ? परं निरतिशयं ब्रह्म, ज्ञेयम् इति प्रकृतम् ।
अत्र केचित् अनादि मत्-परम् इति पदं छिन्दन्ति, बहु-व्रीहिणोक्ते ऽर्थे मतुप आनर्थक्यम् अनिष्टं स्याद् इति । अर्थ-विशेषं च दर्शयन्ति - अहं वासुदेवाख्या परा शक्तिर् यस्य तन् मत्-परम् इति । सत्यम् एवम् अपुनर्-उक्तं स्यात् । अर्थश् चेत् संभवति । न त्व् अर्थः संभवति, ब्रह्मणः सर्व-विशेष-प्रतिषेधेनैव विजिज्ञापयिषित्वान् न सत् तन् नासद् उच्यते इति । विशिष्ट-शक्तिमत्त्व-प्रदर्शनं विशेष-प्रतिषेधश् चेति विप्रतिषिद्धम् । तस्मात् मतुपो बहु-व्रीहिणा समानार्थत्वे ऽपि प्रयोगो श्लोक-पूरणार्थः । अमृतत्व-फलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह - न सत् तज् ज्ञेयम् उच्यते इति नाप्य् असत् तद् उच्यते ॥
ननु महता परिकर-बन्धेन कण्ठ-रवेणोद्घुष्य ज्ञेयं प्रवक्ष्यामीति, अननुरूपम् उक्तं न सत् तन् नासद् उच्यत इति । न, अनुरूपम् एवोक्तम् । कथम् ? सर्वासु ह्य् उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति [बौ 2.3.6] अस्थूलम् अनणु [बौ 3.8.8] इत्य् आदि-विशेष-प्रतिषेधेनैव निर्दिश्यते, नेदं तद् इति वाचो ऽगोचत्वात् ॥
ननु न तद् अस्ति, यद् वस्त्व् अस्ति-शब्देन नोच्यते । अथास्ति-शब्देन नोच्यते, नास्ति तज् ज्ञेयम् । विप्रतिषिद्धं च - ज्ञेयं तद् अस्ति-शब्देन नोच्यते इति च । न तावन् नास्ति, नास्ति-बुद्ध्य्-अविषयत्वात् ॥
ननु सर्वा बुद्धयो ऽस्ति-नास्ति-बुद्ध्य्-अनुगता एव । तत्रैवं सति ज्ञेयम् अप्य् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । न, अतीन्द्रियत्वेनोभय-बुद्ध्य्-अनुगत-प्रत्ययाविषयत्वात् । यद् धीन्द्रिय-गम्यं वस्तु घटादिकम्, तद् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैक-प्रमाण-गम्यत्वान् न घटादिवद् उभय-बुद्ध्य्-अनुगत-प्रत्यय-विषयम् इत्य् अतो न सत् तन् नासद् इत्य् उच्यते ॥
यत् तूक्तम् - विरुद्धम् उच्यते, ज्ञेयं तन् न सत् तन् नासद् उच्यत इति । न विरुद्धम्, अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि [केनौ 1.3] इति श्रुतेः । श्रुतिर् अपि विरुद्धार्था इति चेत् - यथा यज्ञाय शालाम् आरभ्य यज्ञम् को हि तद् वेद यद्य् अमुष्मिन् लोके ऽस्ति वा न वेति [तैत्त्स् 6.1.1] इत्य् एवम् इति चेत्, न । विदिताविदिताभ्याम् अन्यत्व-श्रुतेर् अवश्य-विज्ञेयार्थ-प्रतिपादन-परत्वात् यद्य् अमुष्मिन् इत्य् आदि तु विधि-शेषो ऽर्थ-वादः । उपपत्तेश् च सद्-असद्-आदि-शब्दैर् ब्रह्म नोच्यत इति ।
सर्वो हि शब्दो ऽर्थ-प्रकाशनाय प्रयुक्तः श्रूयमाणश् च श्रोतृभिर् जाति-क्रिया-गुण-संबन्ध-द्वारेण संकेत-ग्रहण-स-व्यपेक्षार्थं प्रत्याययति । नान्यथा, अदृष्टत्वात् । तद् यथा - गौर् अश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतः । न तु ब्रह्म जातिमत्, अतो न सद्-आदि-शब्द-वाच्यम् । नापि गुणवत्, येन गुण-शब्देनोच्येत, निर्गुणत्वात् । नापि क्रिया-शब्द-वाच्यं निष्क्रियत्वान् निष्कलं निष्क्रियं शान्तम् [श्वेतु 6.19] इति श्रुतेः । न च संबन्धी, एकत्वात् । अद्वयत्वाद् अविषयत्वाद् आत्मत्वाच् च न केनचित्, शब्देनोच्यत इति युक्तम् । यतो वाचो निवर्तन्ते [तैत्तु 2.9] इत्य् आदि-श्रुतिभिश् च
==============================
सच्-छब्द-प्रत्ययाविषयत्वाद् असत्त्वाशङ्कायां ज्ञेयस्य सर्व-प्राणि-करणोपाधि-द्वारेण तद्-अस्तित्वं प्रतिपादयन् तद्-आशङ्का-निवृत्त्य्-अर्थम् आह -
सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
सर्वतः पाणि-पादं सर्वतः पाणयः पादाश् चास्येति सर्वतः पाणि-पादं तज् ज्ञेयम् । सर्व-प्राणि-करणोपाधिभिः क्षेत्रज्ञस्यास्तित्वं विभाव्यते । क्षेत्रज्ञश् च क्षेत्रोपाधित उच्यते । क्षेत्रं च पाणि-पादादिभिर् अनेकधा भिन्नम् । क्षेत्रोपाधि-भेद-कृतं विशेष-जातं मिथ्यैव क्षेत्रज्ञस्य, इति तद्-अपनयनेन ज्ञेयत्वम् उक्तम् न सत् तन् नासद् उच्यते इति । उपाधि-कृतं मिथ्या-रूपम् अप्य् अस्तित्वाधिगमाय ज्ञेय-धर्मवत् परिकल्प्य उच्यते सर्वतः पाणि-पादम् इत्य् आदि । तथा हि संप्रदाय-विदां वचनम् - अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति । सर्वत्र सर्व-देहावयवत्वेन गम्यमानाः पाणि-पादादयो ज्ञेय-शक्ति-सद्-भाव-निमित्त-स्वकार्या इति ज्ञेय-सद्-भावे लिङ्गानि ज्ञेयस्येति उपचारत उच्यन्ते । तथा व्याख्येयम् अन्यत् । सर्वतः पाणि-पादं तज्
ज्ञेयम् । सर्वतो ऽक्षि-शिरो-मुखं सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतो ऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमत् । श्रुतिः श्रवणेन्द्रियम्, तत् यस्य तत् श्रुतिमत् । लोके प्राणि-निकाये । सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते
==============================
उपाधिभूत-पाणि-पादादीन्द्रियाध्यारोपणाज् ज्ञेयस्य तद्वत्ताशङ्का मा भूद् इत्य् एवम् अर्थः श्लोकारम्भः -
सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् ।
असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च
सर्वेन्द्रिय-गुणाभासं सर्वाणि च तानीन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रिय-कर्मेन्द्रियाख्यानि, अन्तः-करणे च बुद्धि-मनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात्, सर्वेन्द्रिय-ग्रहणेन गृह्यन्ते । अपि च, अन्तः-करणोपाधि-द्वारेणैव श्रोत्रादीनाम् अपि उपाधित्वम् इत्य् अतो ऽन्तः-करण-बहिष्करणोपाधि-भूतैः सर्वेन्द्रिय-गुणैर् अध्यवसाय-संकल्प-श्रवण-वचनादिभिर् अवभासते इति सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-व्यापारैर् व्यापृतम् इव तज् ज्ञेयम् इत्य् अर्थः । ध्यायतीव लेलायतीव [बौ 4.3.7] इति श्रुतेः ।
कस्मात् पुनः कारणान् न व्यापृतम् एवेति गृह्यत इत्य् अतः आह - सर्वेन्द्रिय-विवर्जितम्, सर्व-करण-रहितम् इत्य् अर्थः । अतो न करण-व्यापारैः व्यापृतं तज् ज्ञेयम् । यस् त्व् अयं मन्त्रः - अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स सृणोत्य् अकर्णः [श्वेतु 3.19] इत्य् आदिः । स सर्वेन्द्रियोपाधि-गुणानुगुण्य-भजन-शक्तिमत् तज् ज्ञेयम् इत्य् एवं प्रदर्शनार्थः, न तु साक्षाद् एव जवनादि-क्रियावत्त्व-प्रदर्शनार्थः । अन्धो मणिम् अविन्दद् [तैत्ता 1.11] इत्य् आदि-मन्त्रार्थवत् तस्य मन्त्रस्यार्थः । यस्मात् सर्व-करण-वर्जितं ज्ञेयम्, तस्माद् असक्तं सर्व-संश्लेषवर्जितम् । यद्यप्य् एवम्, तथापि सर्व-भृच् चैव । सद्-आस्पदं हि सर्वं सर्वत्र सद्-बुद्ध्य्-अनुगमात् । न हि मृगतृष्णिकादयो ऽपि निरास्पदा भवन्ति । अतः सर्व-भृत् सर्वं बिभर्तीति । स्याद् इदं चान्यज् ज्ञेयस्य सत्त्वाधिगम-द्वारम् -
निर्गुणं सत्त्व-रजस्-तमांसि गुणास् तैर् वर्जितं तज् ज्ञेयम्, तथापि गुण-भोक्तृ च गुणानां सत्त्व-रजस्-तमसां शब्दादि-द्वारेण सुख-दुःख-मोहाकार-परिणतानां भोक्तृ चोपलब्धृ च तज् ज्ञेयम् इत्य् अर्थः
==============================
किं च -
बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च ।
सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत्
बहिस् त्वक्-पर्यन्तं देहम् आत्मत्वेनाविद्या-कल्पितम् अपेक्ष्य तम् एवाववधिं कृत्वा बहिर् उच्यते । तथा प्रत्यग्-आत्मानम् अपेक्ष्य देहम् एवावधिं कृत्वा अन्तर् उच्यते । बहिर् अन्तश् चेत्य् उक्ते मध्ये ऽभावे प्राप्ते, इदम् उच्यते - अचरं चरम् एव च, यच् चराचरं देहाभासम् अपि तद् एव ज्ञेयं, यथा रज्जु-सर्पाभासः ।
यद्य् अचरं चरम् एव च स्यात् व्यवहार-विषयं सर्वं ज्ञेयम्, किम्-अर्थम् इदम् इति सर्वैर् न विज्ञेयम् ? इत्य् उच्यते - सत्यं सर्वाभासं तत् । तथापि व्योमवत् सूक्ष्मम् । अतः सूक्ष्मत्वात् स्वेन रूपेण तज् ज्ञेयम् अप्य् अविज्ञेयम् अविदुषाम् । विदुषां तु, आत्मैवेदं सर्वम् [बौ 7.25.2] ब्रह्मैवेदं सर्वम् [बौ 2.5.1] इत्य् आदि-प्रमाणतो नित्यं विज्ञातम् । अविज्ञाततया दूर-स्थं वर्ष-सहस्र-कोट्याप्य् अविदुषाम् अप्राप्यत्वात् । अन्तिके च तत्, आत्मत्वाद् विदुषाम्
==============================
किं च -
अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् ।
भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च
अविभक्तं च प्रतिदेहं व्योमवत् तद् एकम् । भूतेषु सर्व-प्राणिषु विभक्तम् इव च स्थितं देहेष्व् एव विभाव्यमानत्वात् । भूत-भर्तृ च भूतानि बिभर्ति तज् ज्ञेयं भूत-भर्तृ च स्थिति-काले । प्रलय-काले ग्रसिष्णु ग्रसन-शीलम् । उत्पत्ति-काले प्रभविष्णु च प्रभवन-शीलं यथा रज्ज्वादिः सर्पादेर् मिथ्या-कल्पितस्य
==============================
किं च, सर्वत्र विद्यमानम् अपि सन् नोपलभ्यते चेत्, ज्ञेयं तमस् तर्हि ? न । किं तर्हि ? -
ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते ।
ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम्
ज्योतिषाम् आदित्य्-आदीनाम् अपि तज् ज्ञेयं ज्योतिः । आत्म-चैतन्य-ज्योतिषेद्धानि ह्य् आदित्य्-आदीनि ज्योतींषि दीप्यन्ते, येन सूर्यस् तपति तेजसेद्धः [तैत्त्ब्र् 3.12.9], तस्य भासा सर्वम् इदं विभाति [श्वेतु 6.14] ईत्य् आदि-श्रुतिभ्यः । स्मृते च इहैव - यद् आदित्य-गतं तेजः [गीता 15.12] इत्य् आदेः । तमसो ऽज्ञानात् परम् अस्पृष्टम् उच्यते । ज्ञानादेर् दुःसंपादन-बुद्ध्या प्राप्तावसादस्योत्तम्भनार्थम् आह - ज्ञानम् अमानित्वादि । ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् [गीता 13.13] आदिनोक्तम् । ज्ञान-गम्यम् ज्ञेयम् एव ज्ञातं सज् ज्ञान-फलम् इति ज्ञान-गम्यम् उच्यते । ज्ञायमानं तु ज्ञेयम् । तद् एतत् त्रयम् अपि हृदि बुद्धौ सर्वस्य प्राणि-जातस्य विष्ठितं विशेषेण स्थितम् । तत्रैव हि त्रयं विभाव्यते
==============================
यथोक्तार्थोपसंहारार्थो ऽयं श्लोक आरभ्यते -
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते
इत्य् एवं क्षेत्रं महा-भूतादि-धृत्य्-अन्तं, तथा ज्ञानम् अमानित्वादि तत्त्व-ज्ञानार्थ-दर्शन-पर्यन्तं, ज्ञेयं च ज्ञेयं यत् तत् इत्य् आदि तमसः परम् उच्यते इत्य् एवम् अन्तम् उक्तं समासतः संक्षेपतः । एतावान् सर्वो हि वेदार्थो गीतार्थश् चोपसंहृत्योक्तः । अस्मिन् सम्यग्-दर्शने को ऽधिक्रियते ? इत्य् उच्यते - मद्-भक्तो मयीश्वरे सर्वज्ञे परम-गुरौ वासुदेवे समर्पित-सर्वात्म-भावो यत् पश्यति शृणोति स्पृशति वा सर्वम् एव भगवान् वासुदेवः इत्य् एवं-ग्रहाविष्ट-बुद्धिर् मद्-भक्तः स एतद् यथोक्तं सम्यग् दर्शनं विज्ञाय, मद्-भावाय मम भावो मद्-भावः परमात्म-भावस् तस्मै मद्-भावाय उपपद्यते, मोक्षं गच्छति
==============================
तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे । एतद्-योनीनि भूतानि [गीता 7.7] इति चोक्तम् । क्षेत्र-क्षेत्रज्ञ-प्रकृति-द्वय-योनित्वं कथं भूतानाम् इत्य् अयम् अर्थो ऽधुनोच्यते -
प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ।
विकारांश् च गुणांश् चैव विद्धि प्रकृति-संभवान्
प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती । तौ प्रकृति-पुरुषौ उभाव् अप्य् अनादि विद्धि, न विद्यते आदिर् ययोस् तौ अनादी । नित्येश्वरत्वाद् ईश्वरस्य तत्-प्रकृत्योर् अपि युक्तं नित्यत्वेन भवितुम् । प्रकृति-द्वयवत्त्वम् एव हीश्वरस्येश्वरत्वम् । याभ्यां प्रकृतिभ्याम् ईश्वरो जगद्-उत्पत्ति-स्थिति-प्रलय-हेतुस् ते द्वे ऽनादी सत्यौ संसारस्य कारणम् ॥
नादी अनादी इति तत्-पुरुष-समासं केचित् वर्णयन्ति । तेन हि किलेश्वरस्य कारणत्वं सिध्यति । यदि पुनः प्रकृति-पुरुषाव् एव नित्यौ स्यातां तत्-कृतम् एव जगत्, नेश्वरस्य जगतः कर्तृत्वम् । तद् असत् । प्राक् प्रकृति-पुरुषयोर् उत्पत्तेर् ईशितव्याभावाद् ईश्वरस्यानीश्वरत्व-प्रसङ्गात्, संसारस्य निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गात् शास्त्रानर्थक्य-प्रसङ्गाद् बन्ध-मोक्षाभाव-प्रसङ्गाच् च । नित्यत्वे पुनर् ईश्वरस्य प्रकृत्योः सर्वम् एतद् उपपन्नं भवेत् । कथम् ? विकारांश् च गुणांश् चैव । वक्ष्यमाणान् विकारान् बुद्ध्य्-आदि-देहेन्द्रियान्तान् गुणांश् च सुख-दुःख-मोह-प्रत्ययाकार-परिणतान् विद्धि जानीहि प्रकृति-संभवान् । प्रकृतिर् ईश्वरस्य विकार-कारण-शक्तिस् त्रिगुणात्मिका माया । सा संभवो येषां विकाराणां गुणानां च तान् विकारान्
गुणांश् च विद्धि प्रकृति-संभवान् प्रकृति-परिणामान्
==============================
के पुनस् ते विकाराः गुणाश् च प्रकृति-संभवाः ? इत्य् आह --
कार्य-करण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते ।
पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते
कार्य-करण-कर्तृत्वे - कार्यं शरीरं करणानि तत्-स्थानि त्रयोदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश् च प्रकृति-संभवाः विकाराः पूर्वोक्ता इह कार्य-ग्रहणेन गृह्यन्ते । गुणाश् च प्रकृति-संभवाः सुख-दुःख-मोहात्मकाः करणाश्रयत्वात् करण-ग्रहणेन गृह्यन्ते । तेषां कार्य-करणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्य-करण-कर्तृत्वं तस्मिन् कार्य-करण-कर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिर् उच्यते । एवं कार्य-करण-कर्तृत्वेन संसारस्य कारणं प्रकृतिः ।
कार्य-कारण-कर्तृत्वे इत्य् अस्मिन्न् अपि पाठे, कार्यं यत् यस्य परिणामस् तत् तस्य कार्यं विकारो विकारि कारणं तयोर् विकार-विकारिणोः कार्य-कारणयोः कर्तृत्वे इति । अथवा, षोडाश विकाराः कार्यं सप्त प्रकृति-विकृतयः कारणम् तान्य् एव कार्य-कारणान्य् उच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिर् उच्यते, आरम्भकत्वेनैव ।
पुरुषश् च संसारस्य कारणं यथा स्यात् तद् उच्यते - पुरुषो जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः, सुख-दुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुर् उच्यते । कथं पुनर् अनेन कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च प्रकृति-पुरुषयोः संसार-कारणत्वम् उच्यते ? इत्य् अत्रोच्यते - कार्य-करण-सुख-दुःख-रूपेण हेतु-फलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्यासति तद्-उपलब्धृत्वे, कुतः संसारः स्यात् ? यदा पुनः कार्य-करण-सुख-दुःख-स्वरूपेण हेतु-फलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्-विपरीतस्य भोक्तृत्वेनाविद्या-रूपः संयोगः स्यात्, तदा संसारः स्याद् इति । अतो यत् प्रकृति-पुरुषयोः कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च संसार-कारणत्वम् उक्तम्, तद्
युक्तम् । कः पुनर् अयं संसारो नाम ? सुख-दुःख-संभोगः संसारः । पुरुषस्य च सुख-दुःखानां संभोक्तृत्वं संसारित्वम् इति
==============================
यत् पुरुषस्य सुख-दुःखानां भोक्तृत्वं संसारित्वम् इत्य् उक्तं तस्य तत् किं-निमित्तम् इत्य् उच्यते -
पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु
पुरुषो भोक्ता प्रकृति-स्थः । प्रकृताव् अविद्या-लक्षणायां कार्य-करण-रूपेण परिणतायां स्थितः प्रकृति-स्थः । प्रकृतिम् आत्मत्वेन गतः इत्य् एतत् । हि यस्मात् । तस्माद् भुङ्क्ते उपलभत इत्य् अर्थः । प्रकृतिजान् प्रकृतितो जातान् सुख-दुःख-मोहाकाराभिव्यक्तान् गुणान् सुखी, दुःखी, मूढः, पण्डितो ऽहम् इत्य् एवम् । सत्याम् अप्य् अविद्यायां सुख-दुःख-मोहेषु गुणेषु भुज्यमानेषु यः सङ्ग आत्म-भावः संसारस्य स प्रधानं कारणं यस्य पुरुषस्य जन्मनः । स यथा-कामो भवति तत् क्रतुर् भवति [बौ 4.4.5] इत्य् आदि श्रुतेः । तद् एतद् आह - कारणं हेतुर् गुण-सङ्गो गुणेषु सङ्गो ऽस्य पुरुषस्य भोक्तुः सद्-असद्-योनि-जन्मसु । सत्यश् चासत्यश् च योनयः सद्-असद्-योनयस् तासु सद्-असद्-योनुषु जन्मानि सद्-असद्-योनि-जन्मानि, तेषु सद्-असद्-योनि-जन्मषु
विषय-भूतेषु कारणं गुण-सङ्गः । अथवा, सद्-असद्-योनि-जन्मसु अस्य संसारस्य कारणं गुण-सङ्ग इति संसार-पद-मध्याहार्यम् । सद्-योनयो देवादि-योनयः । असद्-योनयः पश्वादि-योनयः । सामर्थ्यात् सद्-असद्-योनयः मनुष्य-योनयो ऽप्य् अविरुद्धाः द्रष्टाव्याः ॥
एतद् उक्तं भवति - प्रकृति-स्थत्वाख्याविद्या गुणेषु च सङ्गः कामः संसारस्य कारणम् इति । तच् च परिवर्जनाय उच्यते । अस्य च निवृत्ति-कारणं ज्ञान-वैराग्ये स-संन्यासे गीता-शास्त्रे प्रसिद्धम् । तच् च ज्ञानं पुरस्ताद् उपन्यस्तं क्षेत्र-क्षेत्रज्ञ-विषयम् यज् ज्ञात्वामृतम् अश्नुते [गीता 12.13] इति । उक्तं चान्यापोहेनातद्-धर्माध्यारोपेण च
==============================
तस्यैव पुनः साक्षान् निर्देशः क्रियते -
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः
उपद्रष्टा समीप-स्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा ऋत्विग्-यजमानेषु यज्ञ-कर्म-व्यापृतेषु तटस्थो ऽन्यो ऽव्यापृतो यज्ञ-विद्या-कुशलः ऋत्विग्-यजमान-व्यापार-गुण-दोषाणाम् ईक्षिता, तद्वच् च कार्य-करण-व्यापारेषु स-व्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देह-चक्षुर्-मनो-बुद्ध्य्-आत्मानो द्रष्टारः । तेषां बाह्यो द्रष्टा देहः । तत आरभ्यान्तरतमश् च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परो ऽन्तरतमो नास्ति द्रष्टा । सो ऽतिशय-सामीप्येन द्रष्टृत्वाद् उपद्रष्टा स्यात् । यज्ञोपद्रष्टृअवद् वा सर्व-विषयी-करणाद् उपद्रष्टा । अनुमन्ता च । अनुमोदनम् अनुमननं कुर्वत्सु तत्-क्रियासु परितोषस् तत्-कर्तानुमन्ता च । अथवा, अनुमन्ता कार्य-करण-प्रवृत्तिषु स्वयम् अप्रवृत्तो ऽपि प्रवृत्त
इव तद्-अनुकूलो विभाव्यते, तेनानुमन्ता । अथवा, प्रवृत्तान् स्व-व्यापारेषु तत्-साक्षि-भूतः कदाचिद् अपि न निवारयतीत्य् अनुमन्ता ।
भर्ता। भरणं नाम देहेन्द्रिय-मनो-बुद्धीनां संहतानां चैतन्यात्म-पारार्थ्येन निमित्त-भूतेन चैतन्याभासानां यत् स्वरूप-धारणम्, तच् चैतन्यात्म-कृतम् एवेति भर्ता आत्मेत्य् उच्यते । भोक्ता । अग्न्य्-उष्णवन् नित्य-चैतन्य-स्वरूपेण बुद्धेः सुख-दुःख-मोहात्मकाः प्रत्ययाः सर्व-विषय-विषयाश् चैतन्यात्म-ग्रस्ता इव जायमाना विभक्ता विभाव्यन्ते इति भोक्ता आत्मोच्यते । महेश्वरः । सर्वात्मत्वात् स्वतन्त्रत्वाच् च महान् ईश्वरश् चेति महेश्वरः । परमात्मा । देहादीनां बुद्ध्य्-अन्तानां प्रत्यग्-आत्मत्वेन कल्पितानाम् अविद्यया परम उपद्रष्टृत्वादि-लक्षण आत्मेति परमात्मा । सो ऽन्तः परमात्मा इत्य् अनेन शब्देन चाप्य् उक्तः कथितः श्रुतौ । क्वासौ ? अस्मिन् देहे पुरुषः परो ऽव्यक्तात् । उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः
[गीता 13.3] इति यो वक्ष्यमाणः क्षेत्रज्ञं चापि मां विद्धि [गीता 13.2] इति उपन्यस्तो व्याख्यायोपसंहृतश् च
==============================
तम् एतं यथोक्त-लक्षणम् आत्मानम् -
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते
य एवं यथोक्त-प्रकारेण वेत्ति पुरुषं साक्षाद् आत्म-भावेन "अयम् अहम् अस्मि" इति प्रकृतिं च यथोक्ताम् अविद्या-लक्षणां गुणैः स्व-विकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्व-प्रकारेण वर्तमानो ऽपि स भूयः पुनः पतिते ऽस्मिन् विद्वच्-छरीरे देहान्तराय नाभिजायते नोत्पद्यते, देहान्तरं न गृह्णातीत्य् अर्थः । अपि-शब्दात् किम् उ वक्तव्यं ? स्व-वृत्त-स्थो न जायते इत्य् अभिप्रायः ॥
ननु, यद्य् अपि ज्ञानोत्पत्त्य्-अनन्तरं पुनर्-जन्माभाव उक्तः, तथापि प्राग् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तर-काल-भाविनां च यानि चातिक्रान्तानेक-जन्म-कृतानि तेषां च फलम् अदत्त्वा नाशो न युक्त इति । स्युस् त्रीणि जन्मानि कृत-विप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम् आरब्ध-जन्मनां कर्मणाम् । न च कर्मणां विशेषो ऽवगम्यते । तस्मात् त्रि-प्रकाराण्य् अपि कर्माणि त्रीणि जन्मान्य् आरभेरन् । संहतानि वा सर्वाण्य् एकं जन्मारभेरन् । अन्यथा कृत-विनाशे सति सर्वत्रानाश्वास-प्रसङ्गः, शास्त्रानर्थक्यं च स्यात् । इत्य् अतः इदम् अयुक्तम् उक्तम् न स भूयो ऽभिजायते इति । न । क्षीयन्ते चास्य कर्माणि [मुण्डु 2.2.8], ब्रह्म वेद ब्रह्मैव भवति [मुण्डु 3.2.9], तस्य तावद् एव चिरम् [छाउ 6.14.2], इषीका-तूलवत् सर्वाणि कर्माणि प्रदूयन्ते [छाउ
5.24.3] इत्य् आदि-श्रुति-शतेभ्य उक्तो विदुषः सर्व-कर्म-दाहः ।
इहापि चोक्तो यथैधांसि [गीता 4.37] इत्य् आदिना सर्व-कर्म-दाहः । वक्ष्यति चोपपत्तेश् च । अविद्या-काम-क्लेश-बीज-निमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते । इहापि च साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तम् ।
बीजान्य् अग्न्य्-उपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञान-दग्धैस् तथा क्लेशैर् नात्मा संपद्यते पुनः [म्भ् 3.200.10] इति च ।
अस्तु तावज् ज्ञानोत्पत्त्य्-उत्तर-काल-कृतानां कर्मणां ज्ञानेन दाहः, ज्ञान-सह-भावित्वात् । न त्व् इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणाम् अतीत-जन्म-कृतानां च दाहो युक्तः । न । सर्व-कर्माणीति विशेषणात् । ज्ञानोत्तर-काल-भाविनाम् एव सर्व-कर्मणाम् इति चेत्, न । संकोचे कारणानुपपत्तेः । यत् तूक्तम् यथा वर्तमान-जन्मारम्भकाणि कर्माणि न क्षीयन्ते फल-दानाय प्रवृत्तान्य् एव सत्य् अपि ज्ञाने, तथानारब्ध-फलानाम् अपि कर्मणां क्षयो न युक्त इति, तद् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृत्त-फलत्वात् । यथा पूर्वं लक्ष्य-वेधाय मुक्त इषुः धनुषो लक्ष्य-वेधोत्तर-कालम् अपि आरब्ध-वेग-क्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीर-स्थिति-प्रयोजने निवृत्ते ऽपि, आ संस्कार-वेग-क्षयात् पूर्ववत् वर्तत
एव । यथा स एव इषुः प्रवृत्ति-निमित्तानारब्ध-वेगस् त्व् अमुक्तो धनुषि प्रयुक्तो ऽपि उपसंह्रियते, तथानारब्ध-फलानि कर्माणि स्वाश्रय-स्थान्य् एव ज्ञानेन निर्बीजी-क्रियन्त इति । पतिते ऽस्मिन् विद्वच्-छरीरे न स भूयो ऽभिजायते इति युक्तम् एवोक्तम् इति सिद्धम्
==============================
अत्रात्म-दर्शने उपाय-विकल्पा इमे ध्यानादय उच्यन्ते -
ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना ।
अन्ये सांख्येन योगेन कर्म-योगेन चापरे
ध्यानेन । ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्य् उपसंहृत्य, मनश् च प्रत्यक्-चेतनयितरि, एकाग्रतया यच् चिन्तनं तद् ध्यानम् । तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः [छाउ 7.6.1] इति उपमोपादानात् । तैल-धारावत् संततो ऽविच्छिन्न-प्रत्ययो ध्यानम् । तेन ध्यानेन आत्मनि बुद्धौ पश्यन्त्य् आत्मानं प्रत्यक्-चेतनम् आत्मना स्वेनैव प्रत्यक्-चेतनेन ध्यान-संस्कृतेनान्तः-करणेन केचिद् योगिनः । अन्ये सांख्येन योगेन । सांख्यं नाम इमे सत्त्व-रजस्-तमांसि गुणा मया दृश्या अहं तेभ्यो ऽन्यस् तद्-व्यापार-साक्षि-भूतो नित्यो गुण-विलक्षण आत्मेति चिन्तनम् एष सांख्यो योगः । तेन पश्यन्ति आत्मानम् आत्मनेत्य् अनुवर्तते । कर्म-योगेन । कर्मैव योगः । ईश्वरार्पण-बुद्ध्यानुष्ठीयमानं घटन-रूपं
योगार्थत्वाद् योग उच्यते गुणतः । तेन सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण चापरे
==============================
अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते ।
ते ऽपि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः
अन्ये त्व् एषु विकल्पेषु अन्यतमेनाप्य् एवं यथोक्तम् आत्मानम् अजानन्तो ऽन्येभ्यः आचार्येभ्यः श्रुत्वा "इदम् एव चिन्तयत" इत्य् उक्ता उपासते श्रद्दधानाः सन्तश् चिन्तयन्ति । ते ऽपि चातितरन्त्य् एव अतिक्रामन्त्य् एव मृत्युम् मृत्यु-युक्तं संसारम् इत्य् एतत् । श्रुति-परायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्ष-मार्ग-प्रवृत्तौ परं साधनं येषां ते श्रुति-परायणाः । केवल-परोपदेश-प्रमाणाः स्वयं विवेक-रहिता इत्य् अभिप्रायः । किम् उ वक्तव्यम् प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युम् अतितरन्तीत्य् अभिप्रायः
==============================
क्षेत्रज्ञं चापि मां विद्धि [गीता 13.3] इति क्षेत्रज्ञेश्वरकत्व-विषयं ज्ञानं मोक्ष-साधनं, यज् ज्ञात्वामृतम् अश्नुते [गीता 13.13] इत्य् उक्तम् । तत् कस्मात् हेतोः ? इति तद्-धेतु-प्रदर्शनार्थं श्लोक आरभ्यते -
यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् ।
क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ
यावत् यत् किंचित् संजायते समुत्पद्यते सत्त्वं वस्तु । किम् अविशेषेण ? नेत्य् आह - स्थावर-जङ्गमं स्थावरं जङ्गमं च क्षेत्र-क्षेत्रज्ञ-संयोगात् तज् जायते इत्य् एवं विद्धि जानीहि भरतर्षभ ।
कः पुनर् अयं क्षेत्र-क्षेत्रज्ञयोः संयोगो ऽभिप्रेतः ? न तावत् रज्ज्वेव घटस्यावयव-संश्लेष-द्वारकः संबन्ध-विशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य संभवति, आकाशवत् निरवयवत्वात् । नापि समवाय-लक्षणस् तन्तु-पटयोर् इव क्षेत्र-क्षेत्रज्ञयोर् इतरेतर-कार्य-कारण-भावानभ्युपगमात् । इत्य् उच्यते - क्षेत्र-क्षेत्रज्ञयोर् विषय-विषयिणोर् भिन्न-स्वभावयोर् इतरेतर-तद्-धर्माध्यास-लक्षणः संयोगः क्षेत्र-क्षेत्रज्ञ-स्वरूप-विवेका-भाव-निबन्धनः, रज्जु-शुक्तिकादीनां तद्-विवेक-ज्ञानाभावाद् अध्यारोपित-सर्प-रजतादि-संयोगवत् । सो ऽयम् अध्यास-स्वरूपः क्षेत्र-क्षेत्रज्ञ-संयोगो मिथ्या-ज्ञान-लक्षणः । यथा-शास्त्रं क्षेत्र-क्षेत्रज्ञ-लक्षण-भेद-परिज्ञान-पूर्वकं प्राक् दर्शित-रूपात् क्षेत्रान् मुञ्जाद् इवेषीकां
यथोक्त-लक्षणं क्षेत्रज्ञं प्रविभज्य न सत् तन् नासद् उच्यते [गीता 13.13] इत्य् अनेन निरस्त-सर्वोपाधि-विशेषं ज्ञेयं ब्रह्म-स्वरूपेण यः पश्यति, क्षेत्रं च माया-निर्मित-हस्ति-स्वप्न-दृष्ट-वस्तुवद् गन्धर्व-नगरादिवद् असद् एव सद् इवावभासते । इत्य् एवं निश्चित-विज्ञानो यः, तस्य यथोक्त-सम्यग्-दर्शन-विरोधाद् अपगच्छति मिथ्या-ज्ञानम् । तस्य जन्म-हेतोर् अपगमाद् य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह [गीता 13.25] इत्य् अनेन विद्वान् भूयो नाभिजायते इति यद् उक्तम्, तद् उपपन्नम् उक्तम्
==============================
न स भूयो ऽभिजायते [गीता 13.24] इति सम्यग् दर्शन-फलम् अविद्यादि-संसार-बीज-निवृत्ति-द्वारेण जन्माभाव उक्तः । जन्म-कारणं चाविद्या-निमित्तकः क्षेत्र-क्षेत्रज्ञ-संयोग उक्तः । अतस् तस्याः अविद्याया निवर्तकं सम्यग्-दर्शनम् उक्तम् अपि पुनः शब्दान्तरेणोच्यते -
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति
समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् । क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मादि-स्थावरान्तेषु प्राणिषु । कम् ? परमेश्वरं देहेन्द्रिय-मनो-बुद्ध्य्-अव्यक्तात्मनो ऽपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम् । तानि विशिनष्टि विनश्यत्स्व् इति । तं च परमेश्वरम् अविनश्यन्तम् इति, भूतानां परमेश्वरस्य चात्यन्त-वैलक्षण्य-प्रदर्शनार्थम् । कथम् ? सर्वेषां हि भाव-विकाराणां जनि-लक्षणो भाव-विकारो मूलम् । जन्मोत्तर-काल-भाविनो ऽन्ये सर्वे भाव-विकारा विनाशान्ताः । विनाशात् परो न कश्चिद् अस्ति भाव-विकारः, भावाभावात् । सति हि धर्मिणि धर्मा भवन्ति । अतो ऽन्त्य-भाव-विकाराभावानुवादेन पूर्व-भाविनः सर्वे भाव-विकाराः प्रतिषिद्धा भवन्ति सह कार्यैः । तस्मात् सर्व-भूतैः वैलक्षण्यम् अत्यन्तम्
एव परमेश्वरस्य सिद्धम्, निर्विशेषत्वम् एकत्वं च । य एवं यथोक्तं परमेश्वरं पश्यति, स पश्यति ।
ननु सर्वो ऽपि लोकः पश्यति, किं विशेषणेनेति । सत्यं पश्यति । किं तु विपरीतं पश्यति । अतो विशिनष्टि - स एव पश्यतीति । यथा तिमिर-दृष्टिर् अनेकं चन्द्रं पश्यति, तम् अपेक्ष्य एक-चन्द्र-दर्शी विशिष्यते - स एव पश्यतीति । तथैवेहाप्य् एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, स विभक्तान् एकात्म-विपरीत-दर्शिभ्यो विशिष्यते - स एव पश्यतीति । इतरे पश्यन्तो ऽपि न पश्यन्ति । विपरीत-दर्शित्वात् अनेक-चन्द्र-दर्शिवद् इत्य् अर्थः
==============================
यथोक्तस्य सम्यग्-दर्शनस्य फल-वचनेन स्तुतिः कर्तव्या इति श्लोक आरभ्यते -
समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।
न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम्
समं पश्यन्न् उपलभमानो हि यस्मात् सर्वत्र सर्व-भूतेषु समवस्थितं तुल्यतयावस्थितम् ईश्वरम् अतीतानन्तर-श्लोकोक्त-लक्षणम् इत्य् अर्थः । समं पश्यन् किम् ? न हिनस्ति हिंसां न करोति आत्मना स्वेनैव स्वम् आत्मानम् । तत्-तद्-अहिंसनाद् याति परां प्रकृष्टां गतिं मोक्षाख्याम् ॥
ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति । कथम् उच्यते ऽप्राप्तम् न हिनस्तीति ? यथा न पृथिव्याम् नान्तरिक्षे न दिव्य् अग्निश् चेतव्यः [तैत्त्स् 5.2.7.1] इत्य् आदि । नैष दोषः, अज्ञानाम् आत्म-तिरस्करणोपपत्तेः । सर्वो ह्य् अज्ञो ऽत्यन्त-प्रसिद्धं साक्षाद् अपरोक्षाद् आत्मानं तिरस्कृत्यानात्मानम् आत्मत्वेन परिगृह्य, तम् अपि धर्माधर्मौ कृत्वोपात्तम् आत्मानं हत्वान्यम् आत्मानम् उपादत्ते नवं, तं चैवं हत्वान्यम् । एवं तम् अपि हत्वान्यम् इत्य् एवम् उपात्तम् उपात्तम् आत्मानं हन्तीत्य् आत्महा सर्वो ऽज्ञः । यस् तु परमार्थात्मासाव् अपि सर्वदाविद्यया हत इव विद्यमान-फलाभावाद् इति सर्वे आत्म-हन एवाविद्वांसः । यस् त्व् इतरो यथोक्तात्म-दर्शी, स उभयथापि आत्मनात्मानं न हिनस्ति न हन्ति । ततो याति परां गतिम् यथोक्तं फलं तस्य भवतीत्य् अर्थः
==============================
सर्व-भूत-स्थम् ईश्वरं समं पश्यन् न हिनस्त्य् आत्मनात्मानम् [गीता 13.28] इत्य् उक्तम् । तद् अनुपपन्नं स्व-गुण-कर्म-वैलक्षण्य-भेद-भिन्नेष्व् आत्मसु, इत्य् एतद् आशङ्क्याह -
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानम् अकर्तारं स पश्यति
प्रकृत्या प्रकृतिर् भगवतो माया त्रिगुणात्मिका । मायां तु प्रकृतिं विद्याद् [श्वेतु 4.10] इति मन्त्र-वर्णात् । तया प्रकृत्यैव च नान्येन महद्-आदि-कार्य-कारणाकार-परिणतया कर्माणि वाङ्-मनः-कायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्व-प्रकारैर् यः पश्यत्य् उपलभते, तथात्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितं स पश्यति, स परमार्थ-दर्शीत्य् अभिप्रायः । निर्गुणस्याकर्तुर् निर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तिर् इत्य् अर्थः
==============================
पुनर् अपि तद् एव सम्यग् दर्शनं शब्दान्तरेण प्रपञ्चयति -
यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा
यदा यस्मिन् काले भूत-पृथग्-भावं भूतानां पृथग्-भावं पृथक्त्वम् एकस्मिन्न् आत्मनि स्थितं एक-स्थम् अनुपश्यति शास्त्राचार्योपदेशम् अनु आत्मानं प्रत्यक्षत्वेन पश्यत्य् आत्मैवेदं सर्वम् [छाउ 7.25.2] इति । तत एव च तस्माद् एव च विस्तारं उत्पत्तिं विकासम् आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस् तेज आत्मत आप आत्मत आविर्भाव-तिरोभावाव् आत्मतो ऽन्नम् [छाउ 7.26.1] इत्य् एवम् आदि-प्रकारैर् विस्तारं यदा पश्यति ब्रह्म संपद्यते भवति तदा तस्मिन् काल इत्य् अर्थः
==============================
एकस्यात्मानः सर्व-देहात्मत्वे तद्-दोष-संबन्धे प्राप्ते, इदम् उच्यते -
अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः ।
शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते
अनादित्वात् । अनादेर् भावो ऽनादित्वम्, आदिः कारणम्, तद् यस्य नास्ति तद् अनादि । यद् ध्य् आदिमत् तत् स्वेनात्मना व्येति । अयं त्व् अनादित्वान् निरवयव इति कृत्वा न व्येति । तथा निर्गुणत्वात् । सगुणो हि गुण-व्ययात् व्येति । अयं तु निर्गुणत्वाच् च न व्येति । इति परमात्मायम् अव्ययः । नास्य व्ययो विद्यत इत्य् अव्ययः । यत एवम् अतः शरीर-स्थो ऽपि, शरीरेषु आत्मन उपलब्धिर् भवतीति शरीर-स्थ उच्यते । तथापि न करोति । तद्-अकरणाद् एव तत्-फलेन न लिप्यते । यो हि कर्ता, स कर्म-फलेन लिप्यते । अयं त्व् अकर्ता, अतो न फलेन लिप्यते इत्य् अर्थः ।
कः पुनर् देहेषु करोति लिप्यते च ? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् क्षेत्रज्ञं चापि मां विद्धि [गीता 13.2] इत्य् आदि । अथ नास्ति ईश्वराद् अन्यो देही । कः करोति लिप्यते च ? इति वाच्यम् । परो वा नास्तीति सर्वथा दुर्विज्ञेयं दुर्वाच्यं चेति भगवत्-प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सांख्यार्हत-बौद्धैश् च । तत्रायं परिहारो भगवता स्वेनैव उक्तः स्वभावस् तु प्रवर्तते [गीता 5.14] इति । अविद्या-मात्र-स्वभावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थत एकस्मिन् परमात्मनि तद् अस्ति । अत एवैतस्मिन् परमार्थ-सांख्य-दर्शने स्थितानां ज्ञान-निष्ठानां परमहंस-परिव्राजकानां तिरस्कृताविद्या-व्यवहाराणां कर्माधिकारो नास्तीति तत्र तत्र दर्शितं भगवता
==============================
किम् इव न करोति न लिप्यते इत्य् अत्र दृष्टान्तम् आह -
यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते
यथा सर्व-गतं व्याप्य् अपि सत् सौक्ष्म्यात् सूक्ष्म-भावाद् आकाशं खं नोपलिप्यते न संबध्यते, सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते
==============================
किं च -
यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत
यथा प्रकाशयत्य् अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महा-भूतादि-धृत्य्-अन्तं क्षेत्रम् एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्य् अर्थः । रवि-दृष्टन्तो ऽत्र आत्मन उभयार्थो ऽपि भवति । रविवत् सर्व-क्षेत्रेष्व् एक एवात्मा, अलेपकश् चेति
==============================
समस्ताध्यायार्थोपसंहारार्थो ऽयं श्लोकः -
क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा ।
भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम्
क्षेत्र-क्षेत्रज्ञयोर् यथा-व्याख्यातयोर् एवं यथा-प्रदर्शित-प्रकारेणान्तरम् इतरेतर-वैलक्षण्य-विशेषं ज्ञान-चक्षुषा शास्त्राचार्य-प्रसादोपदेश-जनितम् आत्म-प्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञान-चक्षुषा, भूत-प्रकृति-मोक्षं च, भूतानां प्रकृतिर् अविद्या-लक्षणाव्यक्ताख्या, तस्या भूत-प्रकृतेर् मोक्षणम् अभाव-गमनं च ये विदुर् विजानन्ति, यान्ति गच्छन्ति ते परं परमात्म-तत्त्वं ब्रह्म, न पुनर् देहं आददते इत्य् अर्थः
मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0