आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 6
बलिनस् तरुणस्यापि विशेषात् कामदायकम् ।
इति माहिषम् ॥
अथ अजाक्षीरम् ।
अजानाम् अल्पकाम(य)त्वात् कटुतिक्तनिषेवणात् ।
नात्यम्बुपानाद् व्यायामात् सर्वव्याधिहरं पयः
आजम् अग्निबलकृत् क्षयकामश्वासहृच्चलहरं परमं तत् ।
रक्तपित्तहरम् आश्व् अतिसारे रक्तजे च कथितं हितम् एव ॥ 4 [सिच्!] ॥
अथ उष्ट्रीक्षीरम् ।
उष्ट्रीक्षीरं सुप्तिशोफापहारं पित्तश्लेष्मात्यर्शसा च प्रशस्तम् ।
आनाहघ्नं चोदराणां प्रशस्तं जन्तुघ्नं वै शस्यते सर्वकालम्
अथ अश्वाक्षीरम् ।
उष्णम् ऐकशफं बल्यं श्वास (शाखा) वातापहं पयः ।
मधुराम्ल (रसं) करं रूक्षं लवणानुरसम् लघु
(खराश्वाक्षीरम्)
अथ स्त्रीस्तन्यम् ।
मानुष्यं(षं) मधुरं स्तन्यं कषायानुरसं हिमम् ।
नस्याश् चोतनपथ्यं च जीवनं लघु दीपनम्
अथ हस्तिनीक्षीरम् ।
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ।
स्निग्धं (स्थै) धैर्यकरं शीतं चक्षुष्यं बलवर्धनम् {च्f. राजनिघण्टु 15.15} ॥
अथ पयःसामान्यगुणाः ।
पयो ऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ।
तद् एवास्यतरं (तिशृतं) विद्यात् गुरुतर्पणबृंहणम्
वर्जयित्वा स्त्रियाः स्तन्य आमम् एव हि खाण्डितम् ।
धरोष्मम् अमृतं क्षीरं विपरीतम् अतो च्यते (ऽन्यथा)
अथ निन्दितदुग्धम् ।
अनिष्टगन्धम् अम्लं च विवर्णं विरसं च यत् ।
वर्जं (र्ज्यं) सलवणं क्षीरं यच् च विग्रथितं भवेत् ।
क्षीरं न भुञ्जीन (दिवा) यदि भुञ्जीत न स्वपेत् ।
यदि स्वपेत् क्षयं चायुस् तस्मात् क्षीरं दिवामृतम्
अथ धारोष्णादिगुणाः ।
धारोष्णम् अमृतं पथ्यं धाराशीतं त्रिदोषकृत् ।
शृतं शीतं त्रिदोषघ्नं शीतोष्ण [शृतोष्णं] कफवातजित्
अथाविकं पथ्यतमं शृतोष्णं माजं पयो वै शृतशीतम् एव ।
धारासुशीतं महिषीपयश् च धारोष्णम् एवं हितम् एव गव्यम्
अन्यच् च ।
पित्तघ्नं माहिषं क्षीरं वातघ्नं चाविकं पयः ।
वातपित्तहरं गव्यं त्रिदोषघ्नम् अजापयः
अथ प्राभातिकादिदुग्धगुणाः ।
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ।
रात्रौ सौम्यगुणत्वाच् च व्यायामाभावतस् तथा
दिवाकराभितप्तानां व्यायामानिलसेवनात् ।
वातपित्तहरं चैव चाक्षुष्यं चापराह्णिकम्
अथ पूर्वाह्णादौ क्षीरपाने गुणविशेषाः ।
वृष्यं बृंहणम् अग्निवृद्धिजनकं पूर्वाह्णकाले पयो
मध्याह्ने बलदायकं रतिकरं कृच्छ्राश्मरीछेदनम् ।
बाले त्व् अग्निकरं क्षये बलकरं वृद्धस्य रेतोवहं
रात्रौ क्षीरम् अनेकदोषशमनं सेव्यं सदा प्राणिभिः
भुक्ता ये कटुतीव्रचण्डविदला ये चाम्लतिक्ता रसाः
रूक्षक्षारविदाहशोषकपरा ये चातितापप्रदाः
काषायाः कटुरूक्षदुर्जरतराः संसेव्यमाना हस[था]त्
तत् सर्वं बलकृत् करोति तरसा दुग्धं निशासेवितम्
अथ क्षीरविक्रियाकालनियमः ।
मुहूर्तपञ्चकाद् ऊर्ध्वं क्षीरं भजति विक्रियाम् ।
तद् एव द्विगुणे काले विषवद् धन्ति मानवम्
अथ धारोष्णस्य पयसः पुनर् गुणकीर्तनम् ।
धारोष्मं [ष्णं] पवनप्रकोपशमनं दुग्धं गवां पुष्टिकृत्
पाण्डुं कामलकं निहन्ति तरसा क्षीणोर्जकृच्छ्रीकरम् ।
दाहं देहगतं कराङ्घ्रनयनज्वालां च पिक्तोन्नतिं
दुष्टास्रं कृशतां कृशानुजनितां कृच्छ्रादिरोगान् जयेत्
अथ क्वथितादिक्षीरस्य पथ्यताकालव्यवस्था ।
अक्वथितं दश घटिकाः क्वथितं द्विगुणाश् च ताः पयः पथ्यम्
उषसि च सरसाद्यां (?) (कोष्णं च स्वरसाढ्यं) यावत् तावत् पयः प्राश्यम्
अथ ज्वरे पयसः पथ्यापथ्यत्वम् ।
जीर्णज्वरे कफक्षीणे क्षीरं स्याद् अमृतोपमम् ।
तद् एव तरुणे पीतं विषवद् धन्ति मानवम्
तस्माच् छृतं वाप्य् अश्रुतं क्षीरं तात्कालिकं पिबेत् ।
चतुर्भागजलं दत्त्वा यत् तदावर्तितं पयः
तस्मात् तद् बलकृच्छ्रेष्ठं हितं सवरुजापहम् ।
अथ असात्म्यक्षीराणां क्षीरकल्पनम् ।
(येषां न सात्म्यं) एतच् च साक्षात् क्षीरेण पीतं चाध्मानकारकम्
तेषाम् अर्धजलं दत्वा नागरं पिप्पलीयुतम् ।
आवर्तयेत् क्षीरशेषं तत् पीत्वा सुखम् आवहेत्
अथ गव्यादिदुग्धभेदेन पानकालानिर्णयः ।
पूर्वाह्णे माहिषं सशर्करं स्वेच्छया वा?
येषां साम्यं सदा भवेत् ।
(ःगव्यं पूर्वाह्णकाले स्याद् अपराह्णे तु माहिषम्
क्षीरं सशर्करं पथ्यं यथासात्म्यं च सर्वदाः इति पाठ्यम्)
आदौ मध्याह्ने वा (तेनादौ तत् तु मध्ये च) ग्रामस्यान्ते कदाचन
सर्वं तन् मानशेषं (सर्वभोजनशेषे) तु पयः शस्तं (पेयं) सदा नरैः ।
अथ पुनः शृतशीतादिक्षीरगुणवर्णनम् ।
पित्तघ्नं शृतशीतलं कफहरं पक्वं तद् उष्णं पुनः
शीतं यत् तु न पाचितं तद् अखिलं विष्टम्भदोषावहम्
धारोष्णं त्व् अमृतं पयः श्रमहरं निद्राकरं कान्तिदं
तृष्यं बृहणम् अग्निवर्धनम् इति स्वादु त्रिदोषापहम्
अथ अन्नविषैः सह दुग्धप्राशप्रतिषेधः ॥
क्षीरं भुञ्जीत गोधूमान्नेन नैव च नैव च ।
पिष्टान्नेनापि नाश्नीयान् न दध्ना लवणेन च
न माषैर् न च मुद्रैर् वा न गुडेन फलेन वा ।
भूमिकन्दैर् न वा शाकैर् मत्स्यमांसादिभिर् न वा
अथ पायसस्य गुणाः ।
पायसं भक्षयेद् युक्त्या तत् पक्वं हि समं पिबेत् ।
वृष्यं हृद्यं च पथ्यं च तत् पित्तानलनाशनम्
अथ समाग्न्यादेर् अपि त्रिकालपयःपाननिषेधः ॥
स्निग्धत्वाद् गौरवाज् जाड्यात् त्रिकालं न पिबेत् पयः ।
समाग्निर् अपि किं चान्यो मन्दाग्निर् विषमो ऽथवा
तीक्ष्णाग्नेस् तु तदनुमातिः ।
तीक्ष्णाग्निना तु पातव्यं द्विकालम् अपि माहिषम् ।
तस्य धातून् पचत्य् अग्निर् यदा तेन न सिञ्चति
अथ पुनः क्षीरप्रशंसा ।
क्षिरं [रसं] हितं श्रेष्ठरसायनं च क्षीरं वपुर्वर्णबलायुषे च ।
क्षीरं हि चायुष्यकरं नराणां क्षीरं बलास्थापनम् उत्तमं च
क्षीरं हि सन्दीपनपाचनीयं क्षीरं हि चोष्णं मलशोधनं च ।
क्षीरं हि संधानकृदुष्णशीतं क्षीरं कवोष्णं मलनाशानं च
अथ मत्स्यादिभिः सह क्षीरसेवाप्रतिषेधः ।
मत्स्यमांसगुडमुद्गमूलकैः कुष्ठम् आवहति सेवितं पयः ।
शाकजाम्बवसुरादिसेवितं मारयत्य् अबुधम् आशु सर्पवत् {च्f. राजनिघण्टु 15.30}
अथ रसविशेषैः पयःपानविधिः ॥
क्षीरेण सह भोज्यानि न विरुद्धानि तद्यथा ।
आम्रेष्टा [अम्लेष्व् आ]मलकं पथ्यं शर्करा मधुरेषु च
पटोलः शाक [तिक्त] वर्गेषु कटुके चार्द्रकं भजेत् [पचेः] ॥
कषायेषु यवश् चैव लवणेषु च सैन्धवम्
इत्य् आयुर्वेदमहोदधौ सुषेणकृते क्षीरवर्गः ॥
अथ गोदधिगुणाः ॥
तत्रापि चातिशीतं च दीपनं बलवर्धनम् ।
वातघ्नं मधुरं रूक्षं दधि गव्यं मनोहरम्
स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ।
वातापहं पवित्रं च दधि गव्यं रुचिप्रदम्
अरोचके पीनसमूत्रकृच्छ्रे शीतज्वरे तद्विषमज्वरे च ।
दुर्नामरोगग्रहणीगदे च गव्यं प्रशस्तं दधि सर्वदैव
अथ ऋतुभेदेन दध्य् उपयोगे गुणागुणाः ।
शरद्ग्रीष्मवसन्तेषु निन्दितं दधि दोषकृत् ।
हेमन्ते शिशिरे तच् च वर्षाकाले फलप्रदम्
अथ माहीषदधिगुणाः ।
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् ।
बलासवर्धनं चैव विशेषान् माहिषं दधि
स्निग्धं मधुरशीतं च बलवर्णकरं परम् ।
वृष्यं मेदःकरं स्वादु श्रमघ्नं वातनाशानम्
श्लेष्मामवर्धनं चैव सरपुष्टिकरं तथा ।
पवित्रम् उष्णशमनं माहिषं कान्तिवर्धनम्
माहिषं दधि बलासकारकं वाह्निमान्द्यकरम् आशु गुरुत्वात् ।
तत् प्रयोज्य कटुकैर् अवचूर्णे माहिषं च लघुताम् उपयाति
॥ माहिषं दधि ॥
अथ अजादधिगुणाः ।
दध्यम्लं (ध्याजं) कफवातनाशनकरं वातघ्नम् उष्णं तथा
दुर्नामश्वसने च काससहिते चाग्नेश् च संदीपनम् ।
वृष्यं बृंहणम् अग्निकान्तिबलदं सर्वामयध्वंसनं
आसांशेष्व (र्शःस्व् अ)तिसारके विगदितं पथ्यं सदा प्राणिनाम्
कासश्वासहरं रुच्यं शोफातीसारनाशनम् ।
आग्नेयं सर्वदोषघ्नं विशेषाच् छागलं दधि
अथ आविकस्य दध्नो गुणाः ।
आविकं स्निग्धमधुरं गुरु पित्तकफप्रदम् ।
पथ्यं केवलवातेषु शोफे चानिलशोणिते
अथ अश्वादधिगुणाः ।
वाजिजं समधुरं वलवर्णं स्वेददाहम् उपयाति विनाशम् (गुरुत्वम्) ।
दीपनीयम् अतिदोषलं सदा चाक्षुषं च मरुतः प्रविकोपि
अथ औष्ट्रदधिगुणाः ।
वातार्शकुष्ठक्रिमिनाशनं स्यात्* औष्ट्रं विपाके कटुकं सतिक्तम् ।
सक्षारम् अम्लं कटु कुष्ठकोपि (कृमिकोष्ठनाशनं) बल्यं च संतर्पणम् आशु कारि
अथ हस्तिनीदधिगुणाः ।
गुरु चोष्णं कषायं च कफमूत्रापहं च तत् ।
अथ स्त्रीदधिगुणाः ।
स्निग्धं विपाके मधुरं बल्यं संतर्पणं गुरु
चाक्षुष्यं सर्वदोषघ्नं दधिकात्र (नार्या) गुणोत्तमम्
लघुणा [पा]के बलासघ्नं वीर्योष्णं पित्तनाशनम् ।
कषायानुगुणं नार्या दधि वर्चोविवर्धनम्
कुर्याद् गुत्तयाभिलाषं च दधि मस्कपरिसृतम् ।
सतुक्षीरेण वञ्जातं गुरुवद् दधि तत् स्मृतम् ।
(दध्नस् तु यद् अधस् तोयं तन् मस्तुनि परिशृतं ।
शृतात् क्षीराच् च यञ्जातं गुणवद् दधि तत् स्मृतम् ।)
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् ।
अथ दधिखण्डगुणाः ।
दघ्नः खण्डो गुरुर् वृष्यो विज्ञेयो बलवर्धनः ।
वस्त्रविवन (निष्पीडित)श् चापि कफपित्तविनाशनः
अथ असारदधिगुणाः ।
दधि त्व् असारं रूक्षं च ग्राहि विड्भेदि (विष्टम्भि) वातलम् ।
दीपनीयं लघुतरं सकषायं रुचिप्रदम्
अथ मस्तुगुणाः ।
तृष्णाक्लमहरं मस्तु [शीतं स्रोतो] विशोधनम् ॥
अम्लं कषायं मधुरं अवृष्यं कफवातनुत्
अथ दधिसामान्यगुणाः ।
अम्लं स्याद् रसपाकतो गुरुतरं वातापहं शीतलं
ग्राह्युष्णं ग्रहणीगदे निगदितं विण्मूत्रकृच्छ्रापहम् ।
बल्यं शोफकफाग्निमान्द्यजननं रक्तप्रदं भुक्तदं
[कासा] रूक्षारोचकपीनसे विषमके शीतज्वरे तन्मय [त]म्
ग्रहण्यां पीनसे मूत्रकृच्छ्रे च विषमज्वरे ।
अरोचके च मन्दाग्नौ शस्यते दधि सर्वदा
लवणमरिचसर्पिःशर्करामुद्गधात्रीकुसुमरसविहीनं [नै] चैवम् अद्यात् तु नित्यम् ।
न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे [पित्त] पीतरोगे न दद्यात्
एलासैन्धवशर्करं समरिचं धात्रीगुडं सर्पिषा
पथ्यं स्याद् वरमुद्गसूपसहितं संसेवनीय दधि ।
नैवोष्णं बहु पिच्छलं न च शरद्ग्रीष्मे वसन्ते हितं
पित्तासृक्ज्वरकुष्ठदं भ्रमकरं (बी) वासर्पदं चान्यथा
दधि त्रिकटुकमिश्रं राजिकाचूर्णमिश्रं
कफहरम् अनिलघ्नं चाग्निसंधुक्षणं च
तुहिनशिशिरकाले सेवनीयं च पथ्यं
भवति सुदृढकायो रूपवान् सत्ववांश् च
(रचयति तनुदार्थ्यं कान्तिमत्त्वं च नृणाम्)
सगुडदधि सुखोष्णं धौतवस्त्रेण सम्यक्
युवतिकरविलासैर् गालितं धूपितं च ।
शिशिरकिरणविश्वाजाजिचूर्णेन मिश्रं
कफहरम् अनिलघ्नं चाग्निसंधुक्षणं च ॥
(तुहिनशिशिरकाले सेवनीयं च पथ्यं ।
भवति सुदृढकायो रूपवान् सत्ववांश् च) ॥
अधिकतरविलासैः सेवितं मर्दितं च
दधि तरुणम् अपथ्यं पथ्यसंपुष्टिहेतोः
बलकरम् अतिवृष्यं मेदकृदीपनं च ।
कफहरम् अनिले स्यान् नातिपित्तप्रकोपं
तद् अनिशम् इह सेव्यं माधुरं चाम्लभावात्
मधुरं भक्षयेच् चैतद् अत्यम्लं वर्जयेत् सदा ।
मधुरं दधि रोगघ्नं अत्यम्लं रोगकारकम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0