आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 4
॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते भाजनाधिवासविधिः ॥
इदानीं क्षीरगुणाः कथ्यन्ते ॥
तत्रापि गव्यमाहिषयोर् एव सदोपयोगित्वात्
तयोर् एव प्रथमं स्वरूपं विचार्यते ॥
गव्यं हिमं मेध्यतम हि दुग्धं प्राणप्रदं पित्तसमीरणघ्नम् ।
रसायनं वर्णकरं मुकेश्यं आरोग्यहेतुः सततं नराणाम्
क्षीरं साक्षात्* जीवनं जन्मसाह्या(त्म्या)त् तद् धारोष्णं गव्यम् आयुष्यम् उष्णम् ।
प्रातः सायं ग्राम्यधर्मावसाने भुक्ते पश्चाद् ओकसात्म्यं करोति
अथ गवां वर्णविशेषे क्षीरगुणविशेषाः ।
गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् ।
कफघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलाद(प)यः
शीतलं मधुरं स्निग्धं वातपित्तहरं परम् ।
वृष्यम् ओजस्करं हृद्यं श्लेष्मघ्नं च रसायनम्
पाके स्वादुरसं मेध्यं क्षयक्षीणबलप्रदम्
श्वासकासप्रशमनं श्रमत्रयमदापहम्
जीर्णज्वरे मूत्रकृच्छ्रे रक्तपित्ते च शस्यते ।
गव्यं पयः पवित्त्रं च बलपुष्टिप्रकारकम्
श्रेष्ठं चाक्षय्यम् आयुष्यं कान्तिलावण्यकारकम् ।
पयो गव्यं तेषां भ्र(श्र)मरुधिरपित्तश्रममद
क्षयालक्ष्मीगुल्मप्रदरगरपाण्ड्वामयहरम् ।
शकृच्छ्रेष्मज्वर (?) श्वयथुप्लीहशमनं
तृषामेदोमुर्च्छाज्वरम् अनिलम् अप्य् आशु शमयेत्
अथ भाजनविशेषे गुणविशेषाः ।
ताम्रे वातहरं क्षीरं सौवर्णे पित्तनाशनम् ।
रौप्ये श्लेष्महरं चैव कांस्ये रक्तप्रसादनम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0