अवदानशतक · अध्याय 99
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः श्मशानमोषको मातङ्गः । यावत् तेन पाथान् हत्वा भाण्डम् आसादितम्* । ततस् तस्य पृष्ठतस् तस्कराः प्रधाविताः । यावद् अन्यतमस्मिन् श्मशाने प्रत्येकबुधो निरोधसमापत्तिं समापन्नः । ततो ऽसौ श्मशानमोषको
-------------------- वैद्य, प्. 255 --------------------
मातङ्गस् तस्य पुरस्ताद् भाण्डम् अपसृज्य तत्रैव निलीनः । तत्स् ते तस्कराः प्रत्येकबुद्धं दृष्ट्वा अस्यारब्धाः क्षेप्तुं शस्त्रम् अग्निं च । न चास्य चीवरकर्णकम् अपि शक्नुवन्ति चालयितुम्*, यस्माद् असौ निरोधसमाधिं समापन्नः । यदा ते तस्कराः श्रान्ताः प्रक्रान्ताः, तदा स प्रत्येकबुद्धः क्रमेण समाधिव्युत्थितः । ततस् तेन श्मशानमोषकेण मातङ्गेन तं प्रत्येकबुद्धं पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, यथा चायम् अपरोपक्रमः । एवम् अहम् अपि यत्र यत्र जायेय, तत्र तत्रापरोपक्रमः स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्मशानमोषको मातङ्गः, अयम् स गङ्गिकः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_99 दीर्घनखः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन नालदग्रामके तिष्यो नाम ब्राह्मणः । तेन शारी नाम दारिका माठरसकाशाल् लब्धा । यदा शारिपुत्रः सारीकुक्षिम् अवक्रान्तः, तदा भ्रात्रा सह दीर्घनखेन विवादं कुर्वन्ती निग्रहस्थानं प्रापयति । # # # # # # # । ततो दीर्घनखेन दक्षिणापथं गत्वा बहूनि शास्त्राण्य् अधीतानि ।
यावत् क्रमेण शारिपुत्रो जातः । तेन द्विर् अष्टवर्षेणैन्द्रं व्याकरणम् अधीतम्*, सर्ववादिनश् च निगृहीताः । सो ऽनुपूर्वेण भगवतः शासने प्रव्रजितः । यावद् दीर्घनखेन प्रव्राजकेन श्रुतम्*: भागिनेयेन ते सर्वे तीर्थकरा निगृहीताः । इदानीं श्रमणगौतमस्य शिष्यत्वम् अभ्युपगत इति ।
-------------------- वैद्य, प्. 256 --------------------
श्रुत्वा चास्य महती परिभवसंज्ञा उत्पन्ना, सर्वशास्त्रेषु चास्य अनैष्ठिकसंज्ञा उत्पन्ना । ततः क्रमशो राजगृहम् अनुप्राप्तः ॥
तस्मिंश् च समये भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । शारिपुत्रो ऽपि भगवतः पुरस्तात् स्थितो ऽभूद् व्यजनं गृहीत्वा भगवनतं वीजयन्* । अथ ददर्श दीर्घनखपरिव्राजको भगवन्तम् अर्धचन्द्राकारेणोपविष्टं धर्मं देशयन्तम्*, शारिपुत्रं च व्यजनव्यग्रहस्तं भगवन्तं वीजयमानम्* । दृष्ट्वा च पुनर् भगवन्तम् इदम् अवोचत्*: सर्वं मे भो गौतम न क्षमत इति । भगवान् आह: एषापि ते अग्निवैश्यायन दृष्टिर् न क्षमते, येयं दृष्टिः: सर्वं मे न क्षमत इति । एषापि मे भो गौतम दृष्टिर् न क्षमते, येयं मे दृष्टिः: सर्वं मे न क्षमत इति । अपि तु ते अग्निवैश्यायन एवं जानतो ऽयाश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वान्तीभावः; अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः? अपि मे भो गौतम एवं जानत एवं पश्यतो ऽस्याश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वान्तीभावः अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः । बहुजनेन ते अग्निवैश्यायन न संस्यन्दिष्यति (स्पेयेर्: संस्यदिष्यति) । # # # # # # इम उच्यन्ते तनुभ्यस् तनुतराः । लोके त्रय इमे अग्निवैश्यायन दृष्टिसंनिश्रयाः । कतमे त्रयः? इहाग्निवैश्यायन एक एवंदृष्टिर् भवति एवंवादी: सर्वं मे क्षमत इति । पुनर् अपरम् इहैक एवंदृष्टिर् भवति एवंवादी: सर्वं मे न क्षमत इति । पुनर् अपरम् एक एवंदृष्टिर् भवति एवंवादी: एवं मे क्षमते, एकं न मे क्षमत इति । तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे क्षमत इति, इय्ं दृष्टिः संरागाय संवर्तते नासंरागाय, संद्वेषाय नासंद्वेषाय, संमोहाय नासंमोहाय, संयोगाय नासंयोगाय, संक्लेशाय न व्यवदानाय, संचयाय नापचयाय, अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते । तत्राग्निवैश्यायन येयं दृष्टिः: सर्वं मे न क्षमत इति, इयं दृष्टिः असंरागाय संवर्तते न संरागाय, असंद्वेषाय न संद्वेषाय, असंमोहाय न संमोहाय, विसंयोगाय न संयोगाय, व्यवदानाय न संक्लेशाय, असंचयाय न संचयाय । अनभिनन्दनायानुपादानाय अनध्यवसानाय
संवर्तते । तत्र येयं दृष्टिः: एकं मे क्षमते, एकं मे न क्षमत इति, यत् तावद् अस्य क्षमते, तत् संरागाय संद्वेषाय संमोहाय संयोगाय संक्लेशाय, न व्यवदानाय नापचयाय । अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते । यद् अस्य न क्षमते, तद् असंरागाय संवर्तते न संरागाय, असंद्वेषाय न संद्वेषाय, असंमोहाय न संमोहाय, असंयोगाय न संयोगाय, व्यवदानाय न संक्लेशाय, अपचयाय न संचयाय । अनभिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते ।
तत्रा श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चैवंदृष्टिः स्याम्*, एवंवादी: सर्वं मे क्षमते । द्वाभ्यां मे सार्धं स्याद् विग्रहः स्याद् विवादः । यश् च एवंदृष्टिर् एवंवादी: सर्वं मे न क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमत इति । विग्रहे सति विवादः, विवादे सति विहिंसा । इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न्
-------------------- वैद्य, प्. 257 --------------------
इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः, अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥
तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवंदृष्टिः स्याम् एवंवादी: सर्वं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् च एवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमत इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥
<तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवम्दृष्टिः स्याम् एवंवादी: सर्वं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् चैवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमते इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥>
तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवम्दृष्टिः स्याम् एवंवादी: एकं मे क्षमते, एकं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् चैवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: सर्वं मे न क्षमते इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥
अयं खल्व् अग्निवैश्यायन कायो रूपी औदारिकश् चातुर्महाभूतिक इति आर्यश्रावकेण अभीक्ष्णम् उदयव्ययानुदर्शिना विहर्तव्यम्*, विरागानुदर्शिना प्रतिनिसर्गानुदर्शिना विहर्तव्यम्* । यत्रार्यश्रावकस्य अभीक्ष्णम् उदयव्ययानुदर्शिनो विहरतः, यो ऽस्य भवति काये कायच्छन्दः कायस्नेहः कायप्रेमा कायालयः कायविषक्तिः कायाध्यवसानम्*, तच् चास्य चित्तं न पर्यादाय तिष्ठति ॥
तिस्र इमा अग्निवैश्यायन वेदनाः । कतमास् तिस्रः? सुखा दुःखा अदुःखासुखा च । यस्मिन् समये श्रुतवान् आर्यश्रावकः सुखां वेदनां वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः: दुःखा च अदुःखासुखा च । सुखाम् एव च तस्मिन् समये आर्यश्रावको वेदनां वेदयते । सुखापि च वेदना अनित्या निरोधधर्मिणी । यस्मिन् समये आर्यश्रावको दुःखां वेदनां वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः, सुखा अदुःखासुखा च । दुःखाम् एव च तस्मिन् समये आर्यश्रावको वेदनां वेदयते । दुःखापि वेदना अनित्या निरोधधर्मिणी । यस्मिन् समये आर्यश्रावको अदुःखासुखां वेदनां वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः, सुखा दुःखा च । अदुःखासुखाम् एव च तस्मिन् समये आर्यश्रावको वेदनां वेदयते । अदुःखासुखापि वेदना अनित्या निरोधधर्मिणी । तस्यैवं भवति: इमा वेदनाः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभावा इति? इमा वेदना स्पर्शनिदानाः स्पर्शसमुदयाः स्पर्शजातीयाः स्पर्शप्रभावाः । तस्य स्पर्शस्य समुदयात् तास् ता वेदनाः समुदयन्ते
-------------------- वैद्य, प्. 258 --------------------
तस्य स्पर्शस्य निरोधात् तास् ता वेदना निरुध्यन्ते, व्युपशाम्यन्ति शीतीभवन्ति अस्तंगच्छन्ति । स यां कांचिद् वेदनां वेदयते सुखां वा दुःखां वा अदुःखासुखा वा, तासां वेदनानां समुदयं चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं प्रजानामीति, तस्य वेदनानां समुदयं चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं प्रजानत उत्पन्नासु वेदनास्व् अनित्यतानुदर्शी विहरति, व्ययानुदर्शी विरागानुदर्शी निरोधानुदर्शी प्रतिसर्गानुदर्शी । स कायपर्यन्तिकां वेदनां वेदयमानः कायपर्यन्तिकां वेदनां वेदय इति यथाभूतं प्रजानाति । जीवितपर्यन्तिकां वेदनां वेदयमानो जीवितपर्यन्तिकां वेदनां वेदय इति यथाभूतं प्रजानाति । भेदाच् च कायस्योर्द्ध्वं जीवितपर्यादानाद् इहैवास्य सर्वाणि वेदनानि अपरिशेषं निरुध्यन्ते अपरिशेषम् अस्तं परिक्षयं पर्यादानं गच्छन्ति । तस्यैवं भवति: सुखाम् अपि वेदनां वेदयतो भेदः कायस्य भविष्यति । एष एवान्तो दुःखस्य । दुःखाम् अपि, अदुःखासुखाम् अपि वेदनां वेदयतो भेदः कायस्य भविष्यति । एष एवान्तो दुःखस्य । स सुखाम् अपि वेदनां वेदयते, विसंयुक्तो वेदयते, न संयुक्तः । दुःखाम् अपि अदुःखासुखाम् अपि वेदनां वेदयते, विसंयुक्तो वेदयते, न संयुक्तः । केन विसंयुक्तः? विसंयुक्तो रागेण द्वेषेण मोहेन, विसंयुक्तो जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासैः, विसंयुक्तो दुःखाद् इति वदामि ॥
तेन खलु समयेन आयुष्माञ् शारिपुत्रो ऽर्धमासोपसंपन्नो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा भगवन्तं वीजयन्* । आयुष्मतः शारिपुत्रस्यैतद् अभवत्*: भगवांस् तेषां धर्माणां प्रहाणम् एव वर्णयति, विरागम् एव निरोधम् एव प्रतिनिःसर्गम् एव वर्णयति । यन्व् अहं तेषां तेषां धर्माणां प्रहाणानुदर्शी विहरेयम्*, विरागानुदर्शी निरोधानुदर्शी विहरेयम्*, प्रतिनिःसर्गानुदर्शी विहरेयम् इति । आयुष्मतः शारिपुत्रस्यैषां धर्माणाम् अनित्यतानुदर्शिनो विहरतो व्ययानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनो विहरतः अनुपादाय आस्रवेभ्यश् चित्तं विमुक्तम्* । दीर्घनखस्य च परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* ॥
अथ दीर्घनखः परिव्राजको दृष्टधर्मा प्राप्तधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासने (स्पेयेर्: शास्त्रशसने) धर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत् । लाभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम्* । लब्धवान् दीर्घनखपरिव्राजकः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । एवं प्रव्रजितः स आयुष्मान् एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्* । एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्* यद् अर्थं कुलपुत्राः केशश्मश्रु अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति, तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं
-------------------- वैद्य, प्. 259 --------------------
दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा प्रतिपद्य प्रवेदयते: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं, कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति । आज्ञातवान् स आयुष्मान् अर्हन् बभूव सुविमुक्तचित्तः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां प्रतिसंवित्प्राप्तानां यदुत कोष्ठिलो भिक्षुर् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त महाकोष्ठिलेन कर्माणि कृतान्य् उपचितानि, येन महावादी संवृत्तः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: कोष्ठिलेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कोष्ठिलेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0